
बालमोदिनी
559 episodes — Page 11 of 12

Ep 59विरक्तः महाराजः
मिथिलाधिपति: जनकमहाराज: बहुधा व्यापृतः अपि तस्य गुरो: आश्रमम् आगत्य सश्रद्धम् उपदेशं श्रुत्वा अल्पमपि दर्पम् अप्रदर्शयन् यथाशक्ति गुरो: सेवां करोति स्म । अत: तस्मिन् गुरो: प्रीति: अधिका आसीत् । बहवः शिष्या: एतत् न असहन्त । एतत् जानन् ऋषिः, काञ्चन परीक्षां कृत्वा शिष्येभ्यः दर्शयति यत् किमर्थं महाराजे तस्य प्रीतिः अधिका अस्तीति। का सा परीक्षा इति कथां श्रुत्वा जानीमः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The king of Mithila, Janaka Maharaja, though often busy with various duties, would visit his guru's ashram with great devotion. He would listen attentively to the teachings and, without showing any arrogance, serve his guru to the best of his ability. As a result, his guru had a special affection for him. Many other disciples could not tolerate this. Knowing this, the sage decided to conduct a test and show the disciples the reason for the special affection the king received.

Ep 58सेवा क्षालयति पापम्
पूर्वस्मिन् जन्मनि उत्पन्नया प्रतीकारभावनया काचित् गर्भवती नर्तकी अग्रिमजन्मनि राजगृहे हारीतिः नामिका यक्षिणी भूत्वा नगरस्थान् बालान् चोरयित्वा खादनम् आरब्धवती । राजा तस्याः बन्धनं कारयित्वा कारागृहे स्थापितवान् । गौतमबुद्धेन तस्याः पुत्रः अपहरणीयः इति राजभटाः आदिष्टाः । तथा कृते हारीतिः पश्चात्तापं अनुभवन्ती पापात् कथं विमुक्तिः प्राप्तव्या इति प्रार्थितवती ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A dancer in her previous birth, with a desire for revenge, is reborn as yakshini named Haariti. In this life, she steals children from the town and eats them. The King had her captured and imprisoned. Gautama Buddha instructed the King’s soldiers to kidnap her son. After this, Haariti, feeling guilty, prayed, asking how she could be freed from the consequences of her sins.

Ep 57जीवनसूत्रम्
जीवने महान्तम् आघातं प्राप्तः कश्चन जनः, तस्य मित्रं च वाताटस्य उड्डयनं, सूत्रस्य खण्डनं, ततः वाताटस्य पतनं च दृष्टवन्तौ । विषादेन उपविष्टवन्तं मित्रं, सुहृत् जीवनतत्त्वम् उपदिशति - परिवारसंस्कृतादयः सूत्रम् इव व्यवहरन्तः जीवने स्थिरत्वं समतोलनं च ददाति । तस्मात् तेषां खण्डनं कदापि न करणीयम् । एतत् अनवगच्छन्तः वयं परिवारसंस्कृत्यादिकं विस्मृत्य धनैकदृष्ट्यः, उन्नत्यैकदृष्ट्यः सन्तः, अग्रे गच्छामः, पतनं च प्राप्स्यामः इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A person who had faced great difficulty in life, sitting in a park with his friend, noticed the ascent of a kite, the breaking of its string, and then its fall. Observing this, the friend imparted a life lesson to the saddened person: 'Family values and culture are like the string of the kite, providing stability and balance in life. The breaking of such bonds should never happen. However, when we are blinded by the pursuit of wealth or progress, we forget these bonds, move forward, and ultimately, we fall’.

Ep 56बालकः चोरः च
कश्चित् निर्दयः चोरः कस्मिंश्चित् गृहं प्रविश्य जागरितं बालकं रज्जुभिः बध्नाति । क्षणाभ्यन्तरे बालकः बन्धनात् आत्मानम् अमोचयत् । कीदृशः चोरः भवान् यः दृढं बन्धुम् अपि न शक्नोति, कथं बन्धनं करणीयमिति दर्शयिष्यामि इति वदन् बालकः चोरस्य पादौ हस्तौ ग्रीवां च बध्नाति । ग्रन्थीनां शिथीलीकरणे चोरः न शक्तः । रज्जुभिः बन्धनं कर्मभिः बन्धनमिव । कर्मणां बन्धनेभ्यः अस्माभिः मुक्तैः भवितव्यम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a ruthless thief entered a house and tied up a boy with ropes, who had been awakened by the thief's arrival. Soon, the boy freed himself. The boy said, "What kind of thief are you, who cannot even bind firmly? I will show you how to make a proper bondage." Saying this, the boy tied the thief's feet, hands, and neck, with the result that the thief was unable to loosen the knots. Binding with ropes is like binding with actions. The boy is not bound by them. We must be freed from the bondage of actions.

Ep 55नाशस्य कारणं व्याक्षेपः
चतुरस्य कस्यचित् बालकस्य आलस्यकारणात् धनविद्यादीर्घायुष्यादीनि हस्तच्युतानि जातानि । कथं, कुत्र, किमर्थमिति ज्ञायते अनया कथया । तद्दिनस्य कार्याणि तद्दिने एव करणीयानि । श्वः अग्रे वा करिष्यामि इति चिन्तनमेव अनर्थस्य कारणम् इति अनया कथया ज्ञायते।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A clever person, due to laziness, lost wealth, knowledge, and long life, all of which slipped from his hands. Through this story, it is understood how, where, and why this happened. The tasks of the day must be completed on the same day. The thought of postponing things for tomorrow is the very cause of misfortune, as revealed by this story.

Ep 54तत्त्वस्य आचरणम्
प्रतिदिनं कस्यचित् महात्मनः प्रवचनं बहुभ्यः वर्षेभ्यः श्रुण्वन् कश्चित् सज्जनः पुत्रेण हठात् मरणे प्राप्ते प्रवचनकाले न दृष्टः । महान्तं विषादम् अनुभवन् सः महात्मा यदा ग्रन्थपरिशीलने मग्नः आसीत्, तदा सः सज्जनः महात्मनः गृहमागतवान् । किमपि अजानन् इव व्यवहरन् महात्मा अनागमस्य कारणं पृच्छति । सज्जनः वदति - 'अतिथेः सम्प्रेषणव्यवस्थायां व्यग्रः आसम्' इति । एतत् श्रुत्वा भावगद्गदः सन् वदति - 'बोधनं सुकरम्, आचरणं दुष्करम् । ममापि गुरुः अस्ति भवान्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A noble person, who had been attending the lectures of a sage for many years, did not attend one day due to the sudden demise of his son. Deeply saddened by the loss, the noble person went to the sage's house while the sage was engrossed in reading scriptures. Acting as though unaware of the situation, the sage asked the reason for his absence. The noble person replied, "I was occupied with arrangements for the guest's departure." Upon hearing this, the sage, with a trembling voice, said, "Teaching is easy, but living the teachings is difficult. You, are actually my teacher".

Ep 53अन्तरङ्गसंस्कारः
वस्तूनां क्रयणाय नगरं गच्छद्भ्यां धान्यवणिक्-चर्मवणिग्भ्यां मध्येमार्गं श्रमनिवारणाय यः आश्रमः प्रविष्टः तत्रत्यः संन्यासी धान्यवणिजे कुटीरस्य अन्तः, चर्मवणिजे बहिः च भोजनं दत्तवान् । प्रत्यागमनावसरे संन्यासी चर्मवणिजे अन्तः, धान्यवणिजे बहिः च भोजनं परिवेषितवान् । किमर्थम् एतादृशः व्यवहारः इति पृष्टे संन्यासी अवदत् - अन्तरङ्गस्वरूपभेदः एव सत्कारभेदस्य कारणम् । जीवने अन्तरङ्गसंस्कारः एव मुख्यः, न तु बाह्यः स्वरूपम् । अनतरङ्गे कः भेदः लक्षितः इति यदा सकुतूहलं चर्मवणिजा पृष्टे संन्यासी विस्तृतरूपेण विवृणोति अस्यां कथायाम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A grain merchant and a leather merchant, on their way to the city, entered an ashram to rest. There, the sage made the grain merchant sit inside the hut and the leather merchant outside, serving food accordingly. When returning from the city, the merchants visited the ashram again, and this time, the leather merchant was served food inside and the grain merchant outside. When they asked about the difference in treatment, the sage replied, "The difference in how the food was served is due to the difference in inner qualities. In life, it is the inner transformation that matters most, not the external form." When the leather merchant, curious, asked further, the sage elaborated in detail.

Ep 52अर्ज्यतां गुणोत्कर्षः
कश्चन राजा स्वेन सम्पादितम् अपारम् ऐश्वर्यम् अतिथिभ्यः साभिमानं दर्शयति स्म । तं प्रति आगतवन्तं संन्यासिनं सम्पत्तिं दर्शयितुं यं दीपं राजा गृहीतवान् आसीत्, तं हठात् मुखवायुना संन्यासी निर्वापितवान् । तेन अन्धकारः प्रसृतः । अनन्तरं संन्यासी राजानं अबोधयत् - दीपप्रकाशस्य अभावे तु मौक्तिकादीनां महामूल्यता नास्ति । यथा दीपप्रकाशः तथा भवति आत्मविकासः गुणोकर्षः च । सर्वोपकारकं गुणोत्कर्षम् अर्जयितुं विशेषप्रयासः भवतु इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king who had acquired immense wealth used to show off his riches to his guests. Once, when a sage arrived, the king was displaying his wealth while holding a lamp in his hand. Suddenly, the sage blew out the lamp, and darkness spread everywhere. The sage then advised the king, saying, “Without light, pearls and other jewels hold no special value. Likewise, self-development and the cultivation of virtues are of great importance. Therefore, make an effort to acquire virtues that are beneficial to all.”

Ep 51कार्ये श्रद्धा
स्वप्ने आगतायाः देव्याः वचनानुसारं मन्दिरनिर्माणकार्यम् आरब्धवान् कश्चित् धनिकः । देव्याः अनुग्रहेण प्राप्तः कश्चन उत्कृष्टः शिल्पी, श्रद्धया भक्त्या च यत् मूर्तिनिर्माणं कृतवान्, तस्याः मूर्तेः मुखे लघु कलङ्कः जातः इति कारणतः पुनः तेन अन्या मूर्तिः निर्मिता । सूक्ष्मदर्शानात् अपि कोSपि कलङ्कः न दृश्यते, किमर्थं नूतना मूर्तिः निर्मिता इति धनिकेन पृष्टे सति, शिल्पी उदतरत् - मनःसाक्षिविरोधार्थं कार्यं कर्तुं न अर्हामि इति । शिल्पिनः कार्यश्रद्धां दृष्ट्वा धनिकः आचर्यान्वितः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A wealthy man started constructing a temple according to the instructions given by the Goddess, who had appeared in his dream. By the Goddess's grace, he found a skilled sculptor who created an idol with faith and devotion. However, a small defect appeared on the idol’s face, so he made a new one. When the wealthy man asked why he had created a new idol when no defect could be seen even upon close inspection, the sculptor replied, “I cannot perform work against my conscience.” Moved by the sculptor’s dedication, the wealthy man was deeply touched.

Ep 50पूज्यः वृक्षः
पूर्वं सुमात्राद्वीपे वृद्धः तपस्वी कश्चन गुहायामेव तपः आचरन् ग्रामतः आगतानां कृषिकाणां मार्गदर्शनं करोति स्म । अन्ये असूयपराः तपस्विनः एकदा यदा वृद्धं तपस्विनं मारयितुं प्रयतन्ते, तदा कश्चन महान् सर्पः आकाशात् पतित्वा रक्षति । अपरक्षणॆ प्रसारितफणातः उद्भूताभिः शाखाभिः कश्चन वृक्षः प्रत्यक्षः भवति । पश्चात्तापम् अनुभवन्तः तपस्विनः - अस्मासु कश्चित् भवन्तं पीडयेत् चेत् अस्य वृक्षस्य शाखा खड्गः भूत्वा तं मारयेत् इति अकथयन् । ततः आरभ्य तज्जातीयवृक्षस्य शाखा एव परशोः दण्डत्वेन उपयुज्यते लोके ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, on the island of Sumatra, an elderly sage who usually lived in caves, practised intense penance would guide the village farmers. Other jealous sages once when tried to kill him, a large serpant fell from the sky protecting him. Later, branches started emerging from the serpant’s hood and a tree became visible in its place. Realizing their mistake, the sages told – ‘If anyone tries to harm the elderly sage, then let the branches of this tree turn into a sword and kill him’. Hencefoth, the branches of that tree were used as swords in the world.

Ep 49भक्तिमती श्रुतावती
अनुपमसुन्दरी सद्गुणसम्पन्ना विद्यावती च भरद्वाजमहर्षेः पुत्री श्रुतावती, इन्द्रमेव वरितुम् इष्ट्वा तं पूजयति स्म। एकदा इन्द्रः तां परीक्षितुं विशिष्ठवेषेण आगत्य कानिचन बदरफलानि पक्वीकृत्य दीयतामिति उक्तवान्। चुल्ल्यां बहुधा काष्ठानि योजितानि चेदपि बदरफलानि तु पक्वानि न अभवन् । परीक्षार्थमेव इदम् इति विचिन्त्य स्वस्य पादौ चुल्ल्यां स्थापितवती श्रुतावती । ततः इन्द्रः प्रत्यक्षीभूय तां पत्नीत्वेन अङ्गीकृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Shrutavati, a woman of unmatched beauty, learned, knowledgeable daughter of the great sage Bharadwaja, who wanted to marry Lord Indra, always worshipped him with great devotion. One day, Indra disguised himself in the form of a sage to test her, gave her some fruits and asked to get it cooked. Inspite of using many wooden sticks, she was unable to cook them. She then realized that she was being tested and placed her feet in the fire. Soon, the king of gods, Indra, appeared in his true form and accepted her as his wife.

Ep 48प्रजासु अविद्यमानासु क्व राजत्वम्
विकृतवर्मा नाम कश्चन राजा स्वविषये प्रजामतं ज्ञातुम् इच्छन् वेषान्तरं धृत्वा देशपर्यटनं कृतवान् । तदा सर्वत्रापि तस्य विषये असमाधानम् अस्ति इति तेन ज्ञातम्। तेन कुपितः राजा राज्ये विद्यमानानां सर्वेषां मरणदण्डनं घोषितवान् ।अत्रान्तरे आगतः कश्चन संन्यासी - राज्ये जनेषु सुखेन असत्सु कथं महाराजत्वेन तिष्ठति भवान् इति उपदिशति । ततः स्वदोषं जानन् महाराजः राज्यस्य अभिवृद्ध्यर्थम् अहर्निशं कार्यं करोति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a king named Vikritavarma wanted to know people’s opinion about him. Disguising himself, he travelled everywhere and learnt that the people were unhappy. The furious King, ordered death penalty for all the people in his kingdom. Just then a sage arrived and said – ‘The people are not happy. Without people, how can a king remain in power?’. Realizing his mistake, the King devoted himself to working day and night for his people."

Ep 47उचितं न कृतं त्वया
बुन्देलखण्डस्य शासकः अनिरुद्धसिंहः एकदा रणरङ्गतः पलायितः । तदा तस्य भगिनी सारन्धा कोपेन एतादृशेन व्यवाहारेण कुलस्य गौरवं नाशितम्, पलाय्य उचितं कार्यं न कृतं च इति वदति । तस्मात् जागरितः अनिरुद्धः मासत्रयं यावत् युद्धं कृत्वा विजयं प्राप्य प्रत्यागच्छति । तस्य स्वागताय ससन्तोषेण भगिनी सारन्धा पत्नी शीतलादेवी च सज्जा अभवताम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Aniruddha Singh, the ruler of Bundelkhand, once fled from the battlefield. Seeing this, his sister Sarandha angrily said that he has brought disgrace to the family and by fleeing, he has not done the right thing. Moved by her words, Aniruddha decided to fight again. After three months, he returned home victorious. His sister Sarandha and wife Sheetaladevi welcomed him with great joy.

Ep 46सदाचरणमेव जीवनम्
जीवनं नाम किम् इति जिज्ञासुः कश्चन जनः सर्वत्र परिभ्रमन् अरण्यं प्रविष्टवान् । तत्र जीवनविषये पृष्टे सति शुकः, शशः, हरिणः, नदी, वृक्षः, बीजः, उलूकः च स्वाभिप्रायम् प्रकटयन्ति । अनन्तरं तेन कश्चन संन्यासी दृष्टः । ततः ज्ञातवान् यत् केवलम् अन्वेषणेन जीवनं यापयितुम् अवसरः न प्राप्यते । आदौ उत्तमं जीवनं करणीयम् । सदाचरणमेव जीवनम् इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A curious person, wanting to know what life is, wandered everywhere and entered a forest. There, when he asked about life, a parrot, a rabbit, a deer, a river, a tree, a seed, and an owl all shared their opinions. After this, he met a wise sage who explained, that one must lead a good life first instead of simply searching for the life’s meaning. Living a life of virtue is what life truly means.

Ep 45वचनपरिपालनम्
काचन निर्धना माता पुत्रजननसमये धात्रै दत्तं वाक्यं पालयितुम्, पञ्चवर्षाणि पश्चात् सर्वमपि धनं यत् पुत्रेण प्राप्तं तत् सर्वं धात्रै अर्पयति। निर्धनमहिलायाः वचनपरिपालकतां निर्लोलुपतां च दृष्ट्वा सा धात्री तेन धनेन एकं कासारं निर्मितवती । अयं कासारः अद्यापि दरभङ्गानगरे 'धात्रीकासार' नाम्ना ख्यातः । सः बालकः भाविनि काले 'शङ्करमिश्र' नाम्ना ख्यातः, न्यायशास्त्रक्षेत्रे च महती ख्यातिः विद्यते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A poor mother made a promise to the midwife duirng childbirth. To keep up to the promise, five years later, when the child earned wealth, she gave it all to the midwife. Seeing the poor mother’s commitment to her word and her selflessness, the midwife used the money to build a pond. This pond, known as "Dhatrikasara," is still famous in Darbhanga today. The boy, in due course, became renowned as "Shankara Mishra" and gained great fame in the field of law.

Ep 44शान्तिप्राप्तेः मार्गः
शान्तियुतं जीवनं कर्तुम् इच्छन् राजा शान्तियुतजीवनस्य मार्गं ज्ञात्वा आगच्छन्तु इति भटान् प्रेषयति । कञ्चन तेजस्विनं सन्यासिनं दृष्ट्वा अपेक्षायाम् उक्तायां 'शान्तिमार्गः अन्तरङ्गे भवति' इति संन्यासी वदति । परन्तु राजा स्वयमेव आगत्य विनयेन वचनस्य तात्पर्यं पृच्छति । तदा शान्तिमार्गस्य अन्वेषणम्, अन्तरङ्शोधनस्य सोपानानि इत्यादीनि विस्तरेण विवृणोति संन्यासी ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Desiring to live a peaceful life, the king, sent soldiers to find a path from great souls. Upon meeting a radiant sage, the king’s messenger inquired about the king’s wish. The sage replied, "The path to peace lies within the heart." However, the king himself went to the sage and, with humility, when inquired about the inner meaning, the sage then explained in detail how to seek the path of peace and necessary steps for inner purification.

Ep 43मार्गस्य शुद्धता
कदाचित् बौद्धविहारे भगवता बुद्धेन ज्ञातं यत् शिष्याः सर्वदा ध्यानमग्नाः सन्तः ज्वरग्रस्तं शिष्यम् उपेक्षितवन्तः इति ।तदा तान् सर्वान् आहूय - केवलं ध्यानमार्गेण गमनेन न प्रयोजनम्, दीनसेवादिभ्यः एव मार्गस्य शुद्धिः भवति, मार्गस्य अनुसरणं यावत् मुख्यं भवति, मार्गस्य शुद्धता अपि तावती एव मुख्या इति बोधयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, in a Buddhist monastery, Lord Buddha learnt that the disciples were always engrossed in meditation and overlooked a disciple suffering from fever. Then, Lord Buddha gathered them and enlightened them saying - : 'Simply following the path of meditation is not sufficient. Purity of the path is attained only through acts of humble service and similar deeds. Both meditation and compassionate service are integral components of spiritual practice and so on’.

Ep 42विवेकः जयति सर्वदा
कस्मिंश्चित् ग्रामे कश्चन वणिक् धनिकात् स्वीकृतम् ऋणं प्रत्यर्पयितुम् अशक्तः अभवत् । सः धनिकः वृद्धः क्रूरः च वणिक्कन्यां वञ्चनया परिणेतुम् इच्छति । परन्तु, सा दक्षा कन्या उपायेन व्यवहृत्य अपायं निवार्य, पितरम् अपि ऋणात् कथं रक्षितवती इति अनया कथया जानीमः । अतः विवेकः एव सर्वत्र जयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a merchant who had taken a loan from a wealthy person, failed to repay it. The greedy wealthy person, wanted to marry his daughter through deceit. But let us hear how the clever daughter acted wisely and saved both herself and her father from the control of the wealthy man. Hence, wisdom prevails everywhere

Ep 41उपकारः तु स्वभावः
केनचित् कृषिकेन कश्चन सज्जनः चक्रावाततः रक्षितः । प्राणापायमपि अविगणय्य रक्षणरूपम् उपकारं कृतवतः कृषिकस्य परोपकारस्वभावं दृष्ट्वा सः सज्जनः पारितोषिकं दातुम् इच्छति । 'अपाये स्थितवतः रक्षणं मानवधर्मः । तत् कर्तव्यबुद्ध्या मया कृतं, न तु पारितोषिकेच्छया' इति उक्त्वा पारितोषिकं निराकरोति सः कृषकः । एतादृशानां जनानां कारणात् एव लोके वृष्ट्यादयः भवन्ति इति मनसि एव चिन्तयति सः सज्जनः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a farmer rescued a person from a whirlwind, risking his own life. Grateful for the help, the person wanted to reward the farmer. However, the farmer humbly declined, saying, "Helping the needy is the duty of every human being. With that principle in mind, I helped you, not for the sake of a reward. This story emphasizes the idea that helping others is a moral responsibility and should not be motivated by the desire for personal gain.

Ep 40कुटिलः कूपः
एकदा धारायाः अधिपतेः भोजस्य सभायां दूरदेशात् कश्चन पण्डितः आगत्य एकां समस्यां प्रस्तुतवान् । किन्तु पण्डितेषु श्रेष्ठः वाग्विभूषणः अपि उत्तरं दातुं न शक्तवान् । अतिथिपण्डितेन सप्ताहं यावत् समयः दत्तः । तावता श्रेष्ठः पण्डितः वाग्विभूषणः समस्यायाः परिहारं स्वयमेव अन्विषति उत अन्येन उत्तरं प्राप्यते ? कः सः प्रश्नः? तस्य उत्तरं किं भवितुम् अर्हति? इति सर्वैः कथां श्रुत्वा ज्ञायताम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a scholar from a distant land came to King Bhoja's palace and presented a riddle. Since none of the king’s scholars were able to answer, the scholar gave them a week's time to find the solution. Will one of the king's greatest scholars, named Vagvibhushana, find the solution on his own or with the help of others? Let us listen to the story and find out.

Ep 39वरद्वयम्
कस्यचित् राज्ञः समीपे केनचित् तपस्विना दत्तः कश्चन विशिष्टः खड्गः असीत् येन सः सर्वेषु अपि युद्धेषु जयं लभते स्म । कदाचित् कश्चन असूयापरः राक्षसः निद्रासमये तं खड्गं चोरयित्वा राजानं कारागृहे स्थापयति । स्वप्ने काचित् देवी द्विवारम् आगत्य वरं ददाति येन आगामिषु दिनेषु सः पुनरपि राज्यं प्राप्नोति । तदा देवी प्रत्यक्षीभूय – 'इतः परं खड्गः युद्धाय न, अपि तु शान्तिपालनाय उपयोक्तव्यः' इति उक्त्वा अदृश्या भवति । एतत् अङ्गीकुर्वन् राजा युद्धचिन्तनं पूर्णतः परित्यज्य देशहितकार्ये निरतः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a sage gave a powerful sword to a king, with which he won all his wars. However, a jealous demon stole the sword while the king was asleep and put him in the jail. Two times, a goddess appeared in the king's dreams and granted him boons with which he could regain his lost kingdom. Later, the goddess appeared and said, ‘From now on, the sword should be used only for maintaining peace, not for war.’ Accepting this, the king fully devoted himself to the welfare of his people and his kingdom.

Ep 38अपूर्व: अभ्यासक्रमः
सङ्गीतक्षेत्रे करीमखानवर्यः सुविख्यातः । एकलव्यः इव कश्चन युवकः करीमखानवर्यस्य ध्वनिमुद्रिकां श्रावं श्रावं सङ्गीताभ्यासं करोति स्म । अग्रे करीमखानवर्येण मिलित्वा, 'सम्यक् अभ्यासं कृत्वा प्रगतिं ख्यातिं च प्राप्नुहि' इति आशीर्वादं प्राप्तवान् । सः एव कुन्दनलालसेहगलवर्यः यः भाविनि काले चलनचित्रगायकत्वेन चित्रनटत्वेन च ख्यातः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Kareem Khan was one of the renowned singers in the world of music. Like Ekalavya, a young boy used to listen to Kareem Khan’s recordings and practice with great effort. One day, when he met Kareem Khan, he received his blessings. This very boy was Kundan Lal, who later became famous as a playback singer and an actor.

Ep 37अल्पोपि उपकारः भवेत् महते फलाय
१८८५ तमे वर्षे नेल्सन् नाम्नः कश्चन निवृत्तः सेनाधिकारी यदा वायुविहारार्थं गतवान् तदा समुत्पन्नेन चक्रवातेन तस्य शिरस्त्रं वायुना नीतम् । चक्रवातबाधाम् उपेक्ष्य शिरस्त्रम् आनीय दत्तवत्यै पुष्पानामिकायै बालिकायै सः सेनाधिकारी कृतज्ञतां समर्प्य, तस्याः नामसङ्केतादिकं स्वीये लघुपुस्तके लिखित्वा ततः निर्गतः। अनन्तरं यदा पुष्पायाः पतिः प्लेग्रोगेण ग्रस्तः असीत् तदा चिकित्सालये कश्चन वैद्याधिकारी तस्याः नाम ज्ञात्वा, तां घटनां वदति । सः एव तस्य सेनाधिकारिणः पुत्रः यः पुष्पायाः पत्युः चिकित्सार्थं समुचितां व्यवस्थाम् अकरोत् । कदाचित् कृतः अल्पः उपकारः महत् एव फलं ददाति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the year 1885, while a retired military commander named Nelson was walking in the garden, his hat was carried away by a whirlwind. A young girl, ignoring the risk, brought the hat back and gave it to him. The commander, feeling grateful, wrote down her name in a small book and left. A few years later, when the girl’s husband was suffering from plague, the doctor who was treating him asked for the girl’s name and recalled the incident. The doctor was none other than the commander’s son, who later treated her husband with the utmost care. Even the slightest act of help and kindness can yield great results.

Ep 36महासाहसी विधिचन्दः
ताराचन्द-वख्तमलनामानौ गुरुहरिगोविन्दशिष्यौ गुरवे अश्वौ उपायनीकर्तुं स्वस्थानात् यदा प्रस्थितवन्तौ तदा मध्यमार्गे यवनराजः शाहजहानः अश्वौ वशीकृत्य तौ शिष्यौ ताडयित्वा च प्रेषितवान् । प्रवृत्तं सर्वं विदित्वा अन्यः कश्चन शिष्यः विधिचन्दः अश्वौ आनेतुं प्रतिज्ञाम् अकरोत् । शूरः उपायचतुरः च सः विधिचन्दः केनोपायेन अश्वौ अपहृत्य गुरोः हरिगोविन्दवर्यस्य पुरतः प्रत्यक्षः भवति इति पश्यामः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Tarachand and Vakhtmal, two disciples of Guru Harigovind, set out with the intention of gifting two horses to their Guru. On the way, Shah Jahan seized their horses, beat them, and sent them back. Upon learning of this incident, another disciple, Vidhichand, made a vow to bring the horses back. Let us hear the story of how the clever and brave Vidhichand successfully brings back the horses.

Ep 35अध्ययनं ज्ञानसङ्ग्रहाय
परीक्षायाम् अधिकान् अङ्कान् प्राप्तवतः सत्काराय कार्यक्रमः आयोजितः आसीत् कस्मिंश्चित् सर्वकारीये विद्यालये । मुख्यातिथिः पारितोषिकं यच्छन् कांश्चन प्रश्नान् पृष्टवान् । किन्तु एकस्यापि प्रश्नस्य उत्तरं दातुम् असमर्थः बालकः कारणे पृष्टे, केवलं कण्ठस्थीकृत्य उत्तरं लिखामि इति उक्तवान् । तत्रैव स्थितः अन्यः बालकः सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत् श्रुत्वा अतिथिः तस्मै स्वयं पारितोषिकं ददाति । कथं सर्वं जानाति इति पृष्टे, बालकः वदति - पाठ्यपुस्तकानि इव अन्यानि अपि पुस्तकानि ज्ञानसङ्ग्रहाय पठामि इति । सः एव दादाभायि नवरोजि ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, an award ceremony was organized at a government school. While giving the prize to the top scorer, the chief guest asked a few questions. The student was unable to answer, as he only memorized the answers to write in the exam. A child standing nearby answered all the questions, as he read other books in addition to the textbooks. The chief guest, pleased with his knowledge, happily gave him the prize. This boy was none other than Dadabhai Naoroji.

Ep 34इर्ष्यादय: खलु भाराय
केवलेन प्रवचनेन कार्यं न सिद्ध्यति । अतः केनचित् निदर्शनेन शिष्यान् दर्शयति कश्चन महात्मा - कथम् ईर्ष्याद्वेषादिकं अन्यान् पीडयति, कथम् ईर्ष्याद्वेषादिकं परित्यक्तं चेत् जीवनं निर्मलं स्वच्छं स्यात्, ईर्ष्याद्वेषादिकं सदा मनसि स्थापयेम तर्हि मनसः अस्वास्थ्यं ततः जीवनस्य दुर्गतिः च कथं भवति इति । किं तत् निदर्शनमिति शृण्मः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)One cannot achieve anything by simply listening to lectures. Hence, a sage, through an activity, shows his disciples how envy and hatred can cause trouble to others, how one cannot be healthy with envy and hatred always in the mind, and how life becomes pure and clear when such emotions are cast aside. Let us hear what that activity is.

Ep 33कर्तव्यबोधः
प्रथमस्वातन्त्र्यसङ्ग्रामस्य प्रमुखस्य नानासाहेबस्य उपस्थितिं सूचितवन्तं प्रति पञ्चाशत्सहस्रं दास्यन्ते इति आङ्ग्लसर्वकारेण घोषितमासीत्। कदाचित् बुभुक्षया पिपासया श्रान्त्या च किञ्चित् गृहम् आगतवन्तं नानसाहेबं, गृहस्वामिनी ससन्तोषेण भोजनं परिवेषितवती । तावता आरक्षाधिकारी तस्याः पतिः गृहं प्रविश्य नानासाहेबं बन्धुं प्रयतते । पतिपत्न्योः मध्ये वादविवादे आरब्धे पतिः लघुभुषुण्डिकां हस्तेन गृह्णाति । पत्नी तस्य हस्तात् भुषुण्डिकां बलात् स्वीकृत्य अग्रे किं करोति इति कथां श्रुत्वा जानन्तु।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The British government had announced a reward of fifty thousand rupees for anyone who informed them about Nana Saheb, a prominent leader during the First War of Indian Independence. Once, when the weary and exhausted Nana Saheb knocked at someone's door, the housewife, with great joy, served him food. By then, her husband, a police officer, entered the house and attempted to arrest Nana Saheb. An argument took place between the husband and wife. When the husband drew his gun, the wife forcibly snatched it from his hand. Listen to the story to find out what happens next.

Ep 32गर्वभङ्गः शनिदेवस्य
कदाचित् रामनामजपं कुर्वन्तम् आञ्जनेयं शनिदेवः गर्वेण युद्धाय आह्वयते । गुरुपुत्रेण सह अहं युद्धं न करोमि इति युद्धप्रस्तावननिराकुर्वन्तम् आञ्जनेयं शनिः मुष्ट्या प्रहृतवान् । अनन्यगतिकया आञ्जनेयः स्वपुच्छेन शनिं बद्ध्वा शिलानाम् उपरि गर्तेषु च नीतवान् । शनेः देहः क्षतविक्षतः जातः । शनेः प्रार्थनानन्तरं तं मोचयित्वा, तैलमर्दनेन पीडाम् अपनीतवान् आञ्जनेयः । ततः प्रभृति शनिदेवस्य तैलसमर्पणप्रथा आरब्धा ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Shanideva invited Hanuman, who was muttering prayers, for a fight. Hanuman declined, saying he would not fight with the son of Surya, who was his Guru. However, Shanideva seized his hands and thrashed him. Left with no other option, Hanuman tied Shani with his tail, carried him to the top of the mountains, and lowered him into the pits, thus injuring him. After much pleading, Hanuman released Shani and relieved him of the pain by applying oil to his wounds. From that moment, the practice of offering oil to Shanideva began.

Ep 31कर्तव्यपालने विघ्नः
महादेवरानडे इति ख्यातः न्यायधीशः आसीत् । सः कोल्हापुरे स्थानान्तरणं प्राप्तवान् यत्र तस्य बहवः बान्धवाः आसन् । कदाचित् तस्य बन्धुः महादेवस्य पितरं यदि न्यायलयस्य व्यावहारः मदनुकूलः भविष्यति तर्हि उपकृतः भविष्यामि इत्यवदत् । महादेवः अवदत् - यदि अस्माकं बान्धवाः न्यायप्रक्रियायां बाधां जनयेयुः तर्हि निष्पक्षतया कर्तव्यपालनं न भवेत् । अपि च कर्तव्यच्युतिकारणात् मनसः अशान्तिः, स्वास्थ्यहानिः च भवेदिति । तदा पिता तस्य वचनं श्रुत्वा भवतः कर्तव्ये कोऽपि बाधां न जनयति, भवान् निश्चिन्ततया कार्ये प्रवर्तताम् इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Mahadeva Ranade was a famous judge. He was transferred to Kolhapur where he had many relatives. Perhaps his cousin had told Mahadeva's father that he would benefit if the court's dealings went in his favor. Mahadev said, "If our relatives obstruct the judicial process, then there will be no duty to be performed impartially. Also, a dereliction of duty can lead to mental turmoil and loss of health. When the father hears it, he says, "Don't let anyone hinder you from doing your duty; go on with your work."

Ep 30श्लोकात् परिवृत्तं जीवनम्
काशीराज्ये राज्ञः ब्रह्मदत्तस्य पुत्रः बोधिसत्त्वः यदा जन्म प्राप्तवान् तदा एव दिने काचित् दासी अपि कटाहकनामकाय पुत्राय जन्म दत्तवती । कालक्रमेण कटाहकः पार्श्वराज्यस्थस्य धनिकस्य कन्यया विवाहं कृतवान् । बोधिसत्त्वः कटाहकेन मेलितुं तस्य गृहं गच्छति । कटाहकः स्वपत्नीं बहुधा पीडयति इति ज्ञात्वा बोधिसत्त्वः तस्य पत्नीं उपदिशति "तव पतिः कुपितः चेत् एतं श्लोकम् उच्चैः पठ" इति । कटाहकेन पत्न्यां निन्दितायां सा तं श्लोकम् उच्चैः पठति । तं श्लोकं श्रुत्वा कटाहकः चिन्तितवान् यत् मम पत्नी मम वञ्चनापूर्णं पूर्ववृत्तान्तं ज्ञातवती । रहस्यप्रकाशनभीत्या सः तया सह उत्तमतया व्यवहर्तुम् आरब्धवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)On the same day that the Bodhisattva, the son of King Brahmadatta, was born in the kingdom of Kashi, a maidservant also gave birth to a son named Katahaka. In time Katahaka married the daughter of a wealthy man in the neighboring kingdom. The Bodhisattva goes to his house to meet Katahaka Knowing that Katahaka often torments his wife, the Bodhisattva advises his wife, "If your husband is angry, read this verse aloud." When Katahaka rebukes his wife, she reads that verse aloud. After hearing that verse, Katahaka thought that my wife had learned of my cheating past. Afraid of revealing secrets, he began to treat her better.

Ep 29देवदर्शनम्
कस्मिंश्चित् आश्रमे कश्चन तरुणः छात्रः दश वर्षाणि अधीत्य भगवद्दर्शनार्थम् आशावान् आसीत् । गुरुः तस्य इच्छां ज्ञातवान् । उद्विग्नेन छात्रेण भगवतः दर्शनं कदा इति पृष्टे गुरुः शान्ततया श्वः इति प्रत्युत्तरं ददाति स्म । द्वितीयदिने गुरुं प्रति गतं छात्रं गुरुः उक्तवान् - “यः भगवतः स्वरूपं तथा तस्य तत्त्वं स्पष्टं न जानाति, तस्य भगवतः दर्शनं कथं संभवति? तत् तु ध्यानमार्गेण एव साध्यम्” इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In one of the ashrams, a young student had been hoping to see God for ten years. The teacher knew what he wanted. When the excited student asked him when he would get a glimpse of the Lord, the Guru calmly replied, "Tomorrow." On the second day, the Guru said to the student who had gone to the Guru: "How can one have a vision of the Lord who does not clearly understand His nature and His essence? This is the path of meditation. "

Ep 28शोधकार्ये आस्था
आयुर्वेदविद्वान् चरकः एकदा गुरुकुले विद्याध्ययनकाले रोगग्रस्तः अभवत् । तदा तस्य गुरुः तस्य रोगं परीक्ष्य कस्यचन दुर्लभस्य औषधीयं सस्यस्य गुणविशेषान् वर्णितवान् । तत् अन्वेष्टुं चरकः वनं प्रविष्टवान् । तेन अनेकानि सस्यानि परिशीलितानि, किन्तु निर्दिष्टं सस्यं न प्राप्तम् । आश्रमं प्रत्यागतं तं गुरुः उक्तवान् – “अस्माकं आश्रमस्य पृष्ठे एव तत् सस्यम् अस्ति ।” ततः निर्मितम् औषधं सेवित्वा रोगात् मुक्तः चरकः गुरुं पृष्टवान् – “यदि एतत् सस्यम् अत्रैव आसीत्, तर्हि किमर्थम् अन्यत्र मां प्रेषितवान्?” तदा गुरुः हसन् प्रत्यवदत् – “तव शोधप्रवृत्तेः विकासाय अहम् एवं कृतवान्" इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Ayurvedic scholar Charaka once fell ill while studying at a gurukula. His guru then examined his disease and described the properties of a rare medicinal plant. To find it, Charaka entered the forest. He studied many crops but did not find a specific one. On his way back to the ashram, the Guru said, "There is a plant behind our ashram. When he had finished eating the fruit, he asked the teacher, "If this plant was here, why did you send me away?" The teacher laughed and said, "I did this to improve your research mentality."

Ep 27सर्वः सर्वमपि कर्तुं सज्जः स्यात्
ईश्वरचन्द्रविद्यासागरः समयपालने अतीव अनुशासितः अन्यस्मादपि तदेव अपेक्षते स्म । सः कस्याश्चित् सभायाः अध्यक्षत्वेन आहूतः सन् समयात् पूर्वमेव स्थानं प्राप्तवान् । सभास्थले आसन्दाः मलिनाः आसन् । स्वच्छताकर्मिणः नासन् इत्यतः सः त्वरया सम्मार्जनीं गृहीत्वा स्वयं स्वच्छताकार्यम् आरब्धवान् । एतद् दृष्ट्वा आयोजकाः लज्जिताः स्वच्छतायां संलग्नाः अभवन् । शीघ्रं सभास्थलं स्वच्छं जातम् । स्वस्य भाषणे, विद्यासागरवर्यः आत्मनिर्भरत्वस्य महत्त्वं प्रतिपादयन् अवदत् यत् कार्याणि निर्वर्तयितुं वयं अन्येषां प्रतीक्षां न कुर्याम, राष्ट्रं अपि आत्मनिर्भरं भवेत् । किमपि कार्यं क्षुद्रं वा महत् वा न भवति । प्रत्येकं जनः सर्वकार्यार्थं सर्वदा सज्जः भवेत् इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Ishwar Chandra Vidyasagar is disciplined in keeping time and expects others to do the same. When he was called to preside over a meeting, he arrived on the scene ahead of time. The place of the meeting chairs was dirty. He took a quick cleaning mop, and began cleaning himself. Seeing this, the organizers felt ashamed and indulged in cleanliness. The place was quickly cleaned up. In his address, Vidyasagar stressed the importance of self-reliance and said that we should not wait for others to perform the tasks and the nation should also be self-reliant. No work is small or big. Everyone should always be ready for everything.

Ep 26अपूर्वा वरदक्षिणा
मदनमोहनमालवीयः यदा विश्वविद्यालयनिर्माणाय धनसङ्ग्रहणकार्ये निरतः आसीत् तदा कश्चन धनिकः स्वपुत्र्याः विवाहनिमन्त्रणपत्रं तस्मै दत्तवान् । मालवीयस्य शिष्यः एव तस्य कन्यायाः वरः आसीत् । सः धनिकः विवाहं वैभवपूर्णं कर्तुम् इच्छति स्म । मालवीयः तम् आडम्बरव्ययस्य व्यर्थत्वं सूचितवान्, एवं कृत्वा तदर्थं यत् धनं व्ययीक्रियेत तत् विश्वविद्यालयाय दानरूपेण समर्प्यताम् इति तेन निर्दिष्टम् । धनिकः तस्य अभिप्रायं स्वीकृतवान् । वरस्य पक्षे अपि अङ्गीकारः प्राप्तः । अवशिष्टं धनं विश्वविद्यालयाय अर्पितम्, येन विश्वविद्यालये अनेकानि भवनानि निर्मितानि । जनाः एतां दानशीलतां प्रशंसन्तः उक्तवन्तः - "एषः एव वरदक्षिणायाः योग्यः अर्थः" इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When Madan Mohan Malaviya was busy raising funds for the construction of a university, a rich man gave him a marriage certificate for his daughter. Malaviya's disciple was the groom of his daughter. The rich man wanted to marry a rich woman. Malaviya informed him of the futility of the extravagance, and he was instructed to donate whatever money could be spent on it to the university. Initially, he was hesitant, but eventually, the rich man accepted his opinion. The groom's side also received a pledge. Marriage is easy. The rest of the money was donated to the university, which constructed several buildings. People praised this generosity and said, "This is the meaning of the dowry."

Ep 25भगवतः प्रियः
कश्चन परोपकारी सज्जनः केवलं दरिद्राणां दीनानां च सेवायामेव मग्नः भवति स्म । एकदा स्वप्ने देवदूतः तमवदत्- “ये जनाः भक्त्या भगवन्तं प्रार्थयन्ते तेषाम् आवल्यां तव नाम नास्तीति ।" सज्जनः प्रत्यवदत्, "मम भक्तिः सेवारूपेण अस्ति, न तु प्रार्थनारूपेण । अनन्तरं पुनः देवदूतः स्वप्ने समागत्य अवदत् – ये निस्वार्थररूपेण कार्यं कुर्वन्ति तेषामुपरि भगवतः महती प्रीतिः भवतीति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A philanthropic gentleman uses to be busy in the service of the poor and needy. Once in a dream an angel told him, “Your name is not on the list of those who pray to the Lord with devotion.” The gentleman replied, “My devotion is in the form of service, not in the form of prayer. Later, the angel appeared again in a dream and said that the Lord is very pleased with those who act selflessly.

Ep 24शत्रुणापि प्रशंसितः लाचितः
असमे चक्रधरसिंहस्य शासने लाचितवराफुकनः सेनापतिः आसीत् । दिल्लीनगरस्थः औरङ्गजेबः असमस्य वशीकरणं लक्ष्यीकृतवान् । लाचितः गुवाहाटीसमीपे दुर्गस्य निर्माणस्य आदेशं दत्तवान् । सः सर्वदा सैनिकान् प्रेरयति स्म । ज्वरपीडितः अपि लाचितः औरङ्गजेबस्य सेनापतिं रामसिंहं पराजितवान् इत्यतः तस्य शौर्यं सर्वे सादरं स्मरन्ति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Lachit Varaphukan was army commander of Chakradhar Singh. Delhi ruler Aurangzeb aimed to subjugate Assam. Lachit ordered the construction of a fort near Guwahati for defense. He always uses to inspire the soldiers. Despite suffering from fever, Lachit, defeated Ram Singh, a commander of Aurangzeb. Lachit Varaphukan became a symbol of bravery in Indian history,

Ep 23आशीर्वादः
रामकृष्णपरमहंसस्य पत्नी शारदादेवी सर्वजनवत्सला आसीत् । एकदा एका महिला तां द्रष्टुं आगता । सा शारदादेवीं अवदत्, "मम पतिः कश्चित् वैद्यः, सः धनं सम्पादयतु इति आशीर्वादं कुरुतु ।" शारदादेवी विचार्य अवदत्, "अहम् आशीर्वादं कर्तुं न समर्था ।" कारणे पृष्टे शारदादेवी उक्तवती, "धनं प्राप्यते चेत् सुखं न लभ्यते । अनेके जनाः धनवन्तः अपि दुःखिताः सन्ति ।" अन्यच्च "यदि तव पतिः धनं सम्पादयेत्, तर्हि रोगिणां सङ्ख्या वर्धिष्यते । अहं सदा प्रार्थये 'सर्वे सन्तु निरामयाः' इति । एतम् आशयं तस्मिन् आशीर्वादे प्रकटयितुं न शक्नोमि । किन्तु अहं तव सुखं, निरामयतां च प्रार्थये, तदर्थम् आशीर्वादं करोमि ।" अतः शारदादेव्याः आशीर्वादं प्राप्य सा महिला ततः निर्गता ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)shardadevi was the wife of Ramakrishna Paramahamsa. One day a woman came to see Sharadadevi and said "My husband is a doctor; please bless him so that he can earn money. Sharadadevi thought and said, "I am not able to bless. The woman asked, "Why?" Sharda Devi said, "There is no happiness without money." Many people are rich and still not happy. "The second reason Sharadadevi said," If your husband earns money, the number of patients will increase. I always pray for everyone to be happy. I cannot express this hope in that blessing. But I will pray for your happiness and well-being, and I will bless you. "So, after getting the blessings of Sharadadevi, the woman left.

Ep 22वनस्पतयः शान्तिः
चित्रकूटप्रदेशे दीर्घजीवी नाम ऋषिः आश्रमे निवसति । तत्र जनाः वृक्षच्छेदनं कृत्वा गृहाणि निर्मितवन्तः, अङ्गारनिर्माणं च कृतवन्तः, येन वनं वृक्षशून्यं जातम् । कालेन अनावृष्ट्या जलाशयाः शुष्काः अभवन्, जनाः, पशवः च मरणासन्नाः सन्तः महतीं पीडां अनुभवन्ति स्म । तत्प्रदेशे निवसन् कश्चन काष्ठोपजीवी पिपासया क्लान्तः आश्रमे दीर्घजीविनं दृष्ट्वा जलं भोजनं च प्राप्तवान् । तेन देशस्य दुःस्थितेः कारणे पृष्टे दीर्घजीवी अवदत् यत् वृक्षच्छेदनं, अग्निसंयोगः च एतस्य संकटस्य कारणम् इति । सः काष्ठोपजीविनं वृक्षारोपणाय प्रेरयन् देशस्य रक्षणे प्रवृत्तिं कर्तुम् उक्तवान् । सः काष्ठोपजीवी दीर्घजीविनः उपदेशं स्वीकृत्य वृक्षारोपणाय कृतनिश्चयः स्वग्रामं प्रत्यागतः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the Chitrakoot region, the long-lived name Rishi resides in the ashram. People there cut down trees, built houses, and built coal mines, which cleared the forest of trees. Over time, the droughts dried up the ponds, and the people and animals suffered greatly from the death toll. A woodpecker that lived in that country, of thirst, saw a long life in a shelter and got water and food. When asked about the plight of the country, Dirghajeevi Rishi said that the crisis was caused by tree felling and arson. He called for a drive to save the country by motivating woodworkers to plant trees. He returned to his village, determined to plant trees, took the advice and planted the trees.

Ep 21जनादरपात्रता कथम्?
कश्चन राजा महाकोपशीलः आसीत् । तस्य मन्त्री सुबुद्धिः तु शासनदक्षः । एकदा राज्ञः मूर्तिप्रतिष्ठायाः विचारो अभवत् किन्तु सुबुद्धिः तं विचारं न अन्वमन्यत । प्रजोपकारकं कार्यं करणीयमिति तस्य मतमासीत् । राजा कुपितः तं मन्त्रिस्थानात् निष्कास्य क्षामग्रस्तं प्रदेशं प्रति प्रेषितवान् । सुबुद्धिना तत्र जनहिताय कासारनिर्माणादिकं कृतम्, येन जनसमृद्धिः जाता। अन्ते राजा जनप्रियस्य सुबुद्धेः कार्यदक्षतायाः प्रशंसा कृत्वा तं पुनः मन्त्रिस्थाने प्रतिष्ठापितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)One of the kings was Mahakopshila. His ministry is a Subudhhi. Once upon a time, a king had an idea of idolatry, and subudhhi did not accept the idea. He believed that we should do good work. The king was angry and removed him from his post and sent him to a famine-stricken region. subuddhi ordered the construction of a fort there for the public, which led to an increase in population. Finally, the king praised the performance of the popular sage and reinstated him in the ministry.

Ep 20किं व्यर्थव्ययेन आडम्बरेण वा?
कश्चन राजा उत्तमं शासनं कुर्वन् चिन्तितवान् यत् मरणानन्तरम् अपि जनैः स्मरणीयः स्याम् इति । अतः सः रमणीये उद्याने एकं सुन्दरं मण्डपं स्मारकसहितं स्थापयितुम् इच्छुः मन्त्रिणः पुरतः प्रस्तावम् अकरोत्, सभासदाः सहर्षं स्वीकृतवन्तः । तदा प्रधानमन्त्री शिलाखण्डं दर्शयित्वा अपृच्छत् यथा शिलायाः उत्पत्तिः, अवस्थां भविष्यत् वा ज्ञातुं न शक्यते । सर्वमपि अस्थिरम्। अस्माकं जीवनं तु उत्तमकार्यार्थं स्यात् न तु स्मारकादिकेन्द्रितम् इति।तस्य वक्तव्यं श्रुत्वा राजा सहमतिं दर्शयन् आडम्बरादिचिन्तनं व्यर्थम् इति अमन्यत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king who ruled well thought that would be remembered by the people even after his death. So he proposed to the minister that a beautiful pavilion be erected in the beautiful garden with a monument, and the members readily agreed. The Prime Minister then showed the boulder and asked if the origin, condition or future of the stone could not be known. Everything is unstable. Our lives should be about doing well, not about memorializing. Hearing his statement, the king agreed and considered the idea of ostentation futile.

Ep 19तदर्थमेव तव सृष्टिः
कश्चन धनिकः दानार्थं प्रसिद्धः आसीत् । सः एकदा एकस्याः दुःखितायाः बालिकायाः सन्दर्शनं कृत्वा तस्याः कल्याणं प्रार्थितवान् । तस्याः गृहं गत्वा सः तस्याः अत्यन्तं दारिद्र्यं ज्ञात्वा तां चिकित्सायै चिकित्सालयं नीतवान् । एतेन अनुभवेन सः अल्पभाग्यानां साहाय्यार्थम् अधिकं समयं, साधनानि च समर्पयितुम् उद्यतः अभवत् । तेषां दुःखनिवारणाय तेषां जीवने सार्थकं परिवर्तनं कर्तुं च सः प्रतिबद्धः जातः।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A rich man was known for his charity. He once visited a grieving girl and asked for her welfare. After visiting her home, he discovered her extreme poverty and took her to a hospital for treatment. This experience led him to devote more time and resources to helping the less fortunate. He became committed to alleviating their suffering and making meaningful changes in their lives.

Ep 18श्रेष्ठः कः?
कश्चन गर्वितः विद्वान् स्नानार्थं गच्छन् स्वीयां पादरक्षापट्टिकां समीकर्तुम् चर्मकारम् आज्ञापितवान् । चर्मकारेण पादरक्षां समीकृत्य दत्तायां विद्वान् चर्मकारदिशि नाणकं क्षिप्तवान् । तत् तिरस्कुर्वन् चर्मकारः पूगफलं दत्वा गङ्गामात्रे दातुं सूचितवान् । गङ्गामाता तु चर्मकाराय दीयताम् इत्युक्त्वा एकं सुवर्णकङ्कणं दत्तवती । परन्तु सः विद्वान् तस्य पत्न्यै अददात् । अन्ते तत् कङ्कणं राज्ञा प्राप्तम् । राजा तादृशमेव अपरं कङ्कणम् इष्टवान् । सः अनन्यगत्या पुनः साहाय्यं याचमानः चर्मकारस्य समीपं आगतवान् । अन्ते चर्मकारः पण्डितम् अवदत् उत्तमव्यवहारेण जनाः आदरं प्राप्नुवन्ति न तु पाण्डित्येन ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A proud scholar lived on the bank of the Ganga. One day, his sandal strap broke while going for a bath, and he ordered a nearby cobbler to fix it. The cobbler repaired it respectfully but refused the payment the scholar offered, suggesting he donate betel nuts to the Ganga instead. Later, the scholar sold a bracelet to the king but failed to produce another when requested. Seeking help, he followed the cobbler's advice and offered a betel nut to the Ganga, who then granted him another bracelet. He presented it to the king and escaped punishment. In the end, the cobbler taught the scholar that respect is earned through good conduct, not just knowledge or birth.

Ep 17मूर्खाः शुकाः
कस्मिंश्चित् वने कश्चन ऋषिः कांश्चन शुकान् पालयति स्म । सः तान् उपदिशति स्म यत् "व्याधः आगच्छेत्, सः जालं प्रसारयेत्, परन्तु वयं तस्य समीपं न गमिष्यामः" इति । एकदा ऋषिः भिक्षाटनार्थम् अन्यं ग्रामम् अगच्छत् । मार्गे गच्छन् व्याधः शुकान् दृष्ट्वा तान् ग्रहीतुम् इच्छन् जालं प्रसार्य तस्मिन् किञ्चित् फलम् अस्थापयत् । किञ्चित्कालानन्तरं व्याधः निद्रां गतः, यदा व्याधस्य जागरणम् अभवत् तदा सः दृष्ट्वान् यत् सर्वे शुकाः “व्याधः आगच्छेत्, सः जालं प्रसारयेत्....” इति गायन्तः जाले गृहीताः आसन् । तेषां मूर्खतां दृष्ट्वा हसन् व्याधः सर्वान् शुकान् नीतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain forest, a sage was raising some parrots, and he taught them to say, "The hunter is coming; he spreads a net, but we shall not go near it." One day, the Sage went to a village. A hunter passing by saw the parrots and, wanting to capture them, spread a net and placed some fruit on it, thinking, “Perhaps some foolish parrot will come for the fruit and fall into the net.” After a while, the hunter woke up and saw the parrots singing, “The hunter is coming; he spreads a net, but we shall not go near it,” yet they were all caught in the net. Laughing at their foolishness, the hunter took all the parrots away in the net.

Ep 16मम माता देवता
कस्मिंश्चित् नगरे दरिद्रस्य पुत्रः सदानन्दः निवसति स्म । एकदा पुष्पाणि क्रेतुम् इच्छन् सः धनाभावे अश्रुपूर्णनयनः तत्रैव स्थितवान् । केनचिन् सज्जनेन रोदनस्य कारणे पृष्टे सदानन्दः अवदत् - 'मातुः निमित्तं पुष्पमालाम् इच्छामि' इति । सज्जनेन तस्य भक्तिं दृष्ट्वा तस्मै पुष्पमाला क्रीत्वा दत्ता । ततः बालकः उक्तवान् - "मम माता देवता अस्ति, यत्र सा निवसति तत्र एव मम स्वर्गः" इति । इदं श्रुत्वा सः सज्जनः स्तब्धः जातः, मातुः महत्त्वं मनसि गृहीतवान् च ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain city lived Sadananda, the son of a poor man. Once, when he wanted to buy flowers, he stood there with tears in his eyes. Then a man asked him, "Why are you crying?" Sadananda said, "I want a garland of flowers for my mother." The gentleman, seeing his devotion, bought him a garland of flowers. Then the child said, "My mother is a goddess, and where she lives is my paradise." Hearing this, the gentleman was shocked and took his mother's importance to heart.

Ep 15जयमत्याः आत्माहुतिः
कदाचित् असमराज्ये रत्नध्वजः शासनं कृतवान् । परन्तु तस्य मन्त्री लालुकसोलः दुष्टः आसीत् । लालुकसोलः रत्नध्वजस्य पितुः हननं कारयित्वा, स्वकन्यायाः विवाहं रत्नध्वजेन सह अकारयत् । जामातुः सम्भाव्यप्रतिद्वन्द्वीनां निराकरणाय लालुकसोलः अहोमकुलीयानाम् अङ्गक्षतं कारितवान् । परन्तु गदापाणेः अङ्गक्षतं कर्तुं नाशक्नोत् । लालुकसोलः गदापाणेः पत्नीं जयमतीं तस्य मर्मस्थलं प्रकाशयितुं पीडयति स्म, परन्तु सा तत् रहस्यं न प्रकाशितवती । अन्ते गदापाणिः सैन्यं सज्जीकृत्य युद्धस्य घोषणां कृत्वा रत्नध्वजं लालुकसोलं च पराजितवान् । जयमत्याः बलिदानेन राज्यस्य समृद्धिः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the second half of the 17th century, the Ratna Dhwaj Ahomraj dynasty ruled Assam. But his minister, Laluksol, was evil. Laluksol killed Ratna Dhwaj's father and married his daughter to Ratna Dhwaj. To neutralize the potential rivals of the son-in-law, Lalusola massacred the Ahom tribesmen. But Gadapane couldn't make it. Laluksol had been pressuring Gadapane's wife, Jayamati, to reveal his whereabouts, but she did not reveal the secret. Finally, Gadapani raised an army and declared war, defeating Ratna Dhwaja and Lalukasola. Jayamati's sacrifice brought prosperity to the kingdom.

Ep 14उत्तमः सेवापाठः
कस्मिंश्चित् ग्रामे कश्चन परिवारः प्रतिवेशिगृहिण्या ग्राममगमनप्रसङ्गे परिवारं पाकसाहाय्यार्थं प्रार्थितः । गृहिणी नित्यं गृहद्वयस्य कृते पाकं करोति स्म । तस्याः पुत्रः एतदवलोक्य मातरम् अपृच्छत् यत् आदौ परेषां कार्यं कर्तव्यं खलु? तस्य जिज्ञासया प्रसन्ना सा परसेवायाः महत्त्वं, प्रतिवेशिनः कृते उष्णभोजनं श्रेयस्करं इति च व्याख्यातवती । बालः तस्याः भावम् अवगत्य सेवाविषये बहुमूल्यं पाठं पठितवान् । पश्चात् "विनोबा भावे" इति नाम्ना प्रथितः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a village, a cultured family helped their neighbor by cooking while she was away. The wife cooked for both homes daily. Her son, Vinu, noticed this and questioned the appropriateness of prioritizing the neighbor's needs. Pleased with his inquiry, she explained the importance of serving others and that hot food for the neighbor was preferable. Vinu understood her sentiment and learned a valuable lesson about service. He later gained recognition as "Vinoba Bhave."

Ep 13अध्येतव्यं बहु अस्ति
कश्चन तरुणः गुरोः सकाशात् धनुर्विद्याम् अधीत्य महत् कौशलं प्राप्तवान् । सः धनुर्विद्यायां गुरुमपि अतिशेते इत्यतः अहङ्कारयुक्तः अभवत् । गुरुः एतत् ज्ञात्वा न किमपि उक्तवान् । एकदा शिष्यः कठिनं सेतुम् अतिक्रान्तुं प्रयत्नरतः सन् कम्पितः, शाखायाम् अधःपतनभयेन आकुलः अभवत् । अन्ते सः अवगतवान् यत् अध्येतव्यं बहु अस्तीति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A young man learned a great skill in archery from a guru. He was also a master in archery and became arrogant because he was led to his growing pride. The teacher, aware of this, remained silent. One day the disciple was trying to cross a difficult bridge, and he trembled, and the two branches trembled for fear of falling. Finally, he realized that there was much to learn.

Ep 12परोपकारी स्वामी
परोपकारी स्वामी ग्रामे ग्रामे भ्रमन् रोगिणां सेवां कुर्वन् स्वच्छतायाः महत्त्वं प्रचारयति स्म । जनाः तस्य प्रेरणया स्वच्छतायां प्रवृत्ताः । सः मन्दिरे भक्तजनैः अर्पितं सर्वं निर्धनेभ्यः वितरति स्म । कदाचित् विष्णोः दूतः स्वर्णादीनि पुरस्काररूपेण दातुम् आगतः, किन्तु स्वामी उक्तवान्, "मम किमपि आवश्यकं, एतानि निर्धनेभ्यः ददातु ।" तदा दूतः तस्य सेवायाः प्रशंसां कृत्वा मोक्षं दातुम् ऐच्छत्, परन्तु स्वामी उक्तवान् यत् "सेवा एव मम धर्मः" इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The compassionate saint wandered from village to village, serving the sick and promoting the importance of cleanliness. Inspired by him, the people took up the cause of cleanliness themselves. He would distribute all offerings given by devotees at the temple to the needy. One day, a messenger of Lord Vishnu came with gold and other rewards for him, but the saint said, "I need nothing for myself; let these be given to the poor. "The messenger then praised the saint's service and offered him liberation, but the saint replied, "Service is my duty."

Ep 11अध्यापनं मम धर्मः
कश्चन राजा स्वपुत्रान् शिक्षयितुम् आचार्यं नियुक्तवान् । आचार्येण नानाविधैः उपायैः राजपुत्राणां शिक्षणं कृतं, किन्तु ते शीघ्रं विस्मरन्ति स्म । ततः आचार्यः तान् शिष्यान् घटस्य उदाहरणेन मननस्य महत्त्वं अबोधयत् । एतत् श्रुत्वा राजकुमाराः मननेन बुद्धिमन्तः अभवन् । तेषां बुद्धिमत्तां दृष्ट्वा सन्तुष्टः राजा आचार्याय अर्धराज्यं दातुम् ऐच्छत् । परं आचार्येण उक्तं यत् "अध्यापनमेव मम धर्मः, न प्रतिफलम् ।"(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king appointed a teacher to educate his sons. The teacher tried to teach them in various ways, but they would forget quickly. Then, the teacher explained to them the importance of reflection, just as a pot must be repeatedly dipped to collect water. Hearing this, the princes began reflecting on their learning and became wise. Seeing their wisdom, the king was pleased and wished to grant the teacher half his kingdom. However, the teacher said, "Teaching is my duty, not receiving rewards."

Ep 10सूक्ष्मदृष्टिः
कश्चित् गुरुः शिष्यत्रयं परीक्षितुं घृतघटं नीत्वा विपण्यां स्थापयित्वा सायम् आनयन्तु इति आदिष्टवान् । घृतघटः निर्बाधः स्यात् इति अवदत् च । द्वौ शिष्यौ तथा कर्तुं विफलौ । तृतीयः विपण्यां क्षणमेकं घटं स्थापयित्वा ततः गृहे घटं रक्षयित्वा सायङ्काले आनीय गुरोः परीक्षायाम् उत्तीर्णः । Guru tasks three disciples to keep a ghee-filled pot in the market and return it intact. Two failed, but the intelligent third keeps it briefly in market, then safely at home, and returns it unchanged. It lead in qualifying the test.