PLAY PODCASTS
बालमोदिनी

बालमोदिनी

559 episodes — Page 8 of 12

Ep 209सुकन्यया निर्मितः आमलकीप्राशः

राज्ञः शयार्तेः तनया सुन्दरी मनोहारिणी च । तनया सुकन्या शापग्रस्तानां सैनिकानां हिताय च्यवनमहर्षिं परिणीय तस्य सेवायै लग्ना असीत् । एकदा अश्विनीकुमारौ ऋषिसेवारतायाः सुकन्यायाः सौन्दर्यम् अवलोक्य 'एतं वृद्धं विहाय आवयोः अन्यतरं वृष्णीष्व' इति उक्तवन्तौ । तन्निराकरोति सुकन्या । तां पतिव्रतां विज्ञाय अश्विनीकुमारौ प्रसन्नौ भूत्वा आमलकीप्राशननिर्माणविधिं कथयामासतुः । तस्य सेवनेन ऋषिः च्यवनः न केवलं विगतविकारः अभवत् अपि च युवा अपि बभूव । ततः आमलकीप्राशः 'च्यवनप्राश' नाम्ना प्रसिद्धः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The beautiful and enchanting daughter of King Shayarata, Sukanya, married the sage Chyavana for the welfare of the cursed soldiers. One day, while engaged in the service of the sage, the Ashwini Kumaras, upon seeing the beauty of Sukanya, said to her, 'Leave this old man and choose one of us'. Sukanya refused. Recognizing her fidelity, the Ashwini Kumaras were pleased and revealed the method to prepare Amalaki Prashana. By consuming it, Sage Chyavana not only regained his health but also became young again. Hence, Amalaki Prashana became famous as 'Chyawanprash’. This story highlights the virtues of devotion, loyalty and the transformative power of ancient knowledge and herbs.

May 28, 20254 min

Ep 208ईश्वरसाक्षात्कारः

रमणमहर्षेः भक्ताः वदन्ति स्म यत् रमणमहर्षिः भगवत्साक्षात्कारम् अपि प्राप्तवान् अस्ति इति । एतत् असहमानाः केचन क्रिस्तधर्मप्रचारकाः महर्षेः दाम्भिकता सप्रमाणं प्रकाशनीया इति सङ्कल्पितवन्तः । अतः‌ ते कतिपयैः विदेशीयैः पत्रकारैः सह महर्षेः आश्रमं गत्वा भवतः ईश्वरस्य साक्षात्कारं द्रष्टुम् इच्छामः इति अवदन् । तदङ्गीकृत्य महर्षिः तान् कुष्ठरोगपीडितस्य गृहम् अनयत् । तस्य सर्वविधसेवाः कृत्वा आङ्ग्लान् सम्बोध्य महर्षिः अवदत् 'एषः एव मम ईश्वरः । इत्थम् ईशसेवां करोमि । तस्य साक्षात्कारमपि प्राप्नोमि' इति । स्तब्धाः आङ्ग्लाः पत्रकाराश्च महर्षिं साष्टाङ्गं नमस्कृतवन्तः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Devotees of Ramana Maharshi used to say that he had attained the direct vision of God. Unable to tolerate this, some Christian missionaries decided to expose Maharshi's so-called arrogance. They went to his ashram with a few foreign journalists and said, 'We wish to see your vision of God.' Maharshi agreed and took them to the home of a leprosy patient. After serving him in every possible way, Maharshi addressed the Englishmen and said, 'This is my God. This is how I serve Him, and I attain His vision through this service.' The stunned English journalists bowed before Maharshi.

May 27, 20253 min

Ep 207एकस्य जनस्य अभावे......

अमेरिकादेशे कस्याञ्चित् नद्यां कश्चित् विद्युत्स्तम्भः पतितः । अतिभारयुक्तं तं स्तम्भम् उन्नेतुं कर्मकराः असमर्थाः जाताः । इतोऽपि एकस्य जनस्य साहाय्ये अपेक्षितेऽपि तत्रत्यः प्रमुखः मम योग्यतायाः अननुगुणः व्यवहारः इति मत्वा साहायार्थं न गतवान् । तावता कश्चन अश्वारोही तत्रत्यां स्थितिं दृष्ट्वा कार्ये संलग्नः अभवत् । तस्य प्रोत्साहवचनेन कर्मकराः उत्साहध्वनिं कुर्वन्तः बलेन विद्युत्स्तम्भम् उन्नीय तीरं प्रापितवन्तः । यदा सः अश्वम् आरुह्य गन्तुम् उद्यतः तदा कर्मकरनायकः अपृच्छत् 'भवान् कः?’ इति । 'अहमस्मि अमेरिकायाः राष्ट्रपतिः जार्ज् वाशिङ्गट्न्' इति अवदत् सः अश्वारोही । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain river in America, an electric pole had fallen. The workers were unable to lift the heavily loaded pole. Despite needing one more person’s assistance, the local leader, considering the task beneath his dignity, did not offer his help. Meanwhile, a horseman, seeing the situation, got involved in the task. Encouraged by his words, the workers raised the pole with great effort and brought it to the shore. As the horseman was about to leave, the leader of the workers asked, 'Who are you?' The horseman replied, 'I am George Washington, the President of the United States’. This story beautifully illustrates the values of humility, leadership and the importance of offering help regardless of one's position.

May 26, 20252 min

Ep 206उभौ मार्गौ

कदाचित् मृगयायै गतः जुनागढदेशस्य मृगयाप्रियः राजा अङ्गारः वेगेन अश्वं चालयन् सहचरेभ्यः पृथक् जातः । मृगयायां मारितान् बहून् शशान् अश्वस्य पुच्छे अबध्नात् सः । प्रतिगमनमार्गम् अजानन् सः इतस्ततः पश्यन् अश्वं मन्दं चालयन् वृक्षस्य मूले उपविष्टं ध्यानमग्नं कञ्चन संन्यासिनं दृष्टवान् । राजा तं प्रणम्य राजधानीं प्रति गमनार्थं मार्गम् अपृच्छत् । संन्यासी राज्ञः मृगयाप्रवृत्तिं दृष्ट्वा 'अहम् उभौ एव मार्गौ जानामि । प्राणिवधकर्ता नरकं याति, दयाशीलः जनः स्वर्गे विराजते' इति । एतस्मात् लज्जान्वितः राजा क्षमां याचित्वा प्राणिवधं परित्यक्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a king named Angara of Junagadh, who was fond of hunting, went on a hunting expedition. Riding his horse at great speed, he got separated from his companions. During the hunt, he killed many hares and tied them to the tail of his horse. Not knowing the way back, he wandered here and there, and saw a Sanyasi meditating under a tree. The king greeted the Sanyasi and asked for the way back to the capital. Observing the king's hunting activity, the Sanyasi said, 'I know two paths. The one who kills living beings goes to hell and the compassionate person ascends to heaven’. Feeling ashamed, the king sought forgiveness and gave up hunting.

May 25, 20252 min

Ep 205महात्यागी

कश्चन महात्मा सर्वसङ्गपरित्यागी इति ख्यातः आसीत् । धनादिषु अल्पा अपि आसक्तिः न आसीत् । कदाचित् प्रयाणावसरे नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः कश्चन श्रेष्ठी वणिक् महात्मनः पादौ अस्पृशत् । झटिति एव महात्मा अपि श्रेष्ठिनः पादौ अस्पृशत् । आश्चर्यान्वितः श्रेष्ठी 'भवादृशेन महात्यागिना सर्वसङ्गपरित्यागिना च किमर्थं मम पादौ स्पृष्टौ ?’ इति पृष्टे महात्मा अवदत् 'मया तु लौकिकमातापित्रोः सङ्गः परित्यक्तः । किन्तु भवता जगतः पित्रोः एव सङ्गः परित्यक्तः । अतः महात्यागी भवान् एव, न तु अहम्' । एतत् श्रुत्वा लज्जां प्राप्तवान् श्रेष्ठी स्वस्य दोषम् अङ्गीकृत्य महात्मनः अनुयायी जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)There was a great saint known for renouncing all attachments. He had no attachment to wealth or any other material possessions. Once, while traveling through the city, a wealthy merchant came towards him and touched his feet. Immediately, the saint also touched the merchant's feet. The surprised merchant asked, 'Why did a great renunciant like you touch my feet?' The saint replied, 'I have renounced the attachment to worldly parents, but you have renounced the attachment to the parents of the world. Hence, you are the true renunciant, not I'. Hearing this, the merchant felt ashamed, acknowledged his mistake, and became the disciple of the saint.

May 24, 20252 min

Ep 204द्वैमातुरः

आसीत् कश्चन वरेण्यनामकः राजा यः धर्मानुयायी प्रजावत्सलः च । तस्य पतिव्रता धर्मपरायणा च पत्नी पुष्पका कदाचित् कञ्चित् विलक्षणं शिशुं प्रसूतवती । चत्वारः हस्ताः, मुखे दन्तः च आसन् तस्य । विलक्षणशिशोः जननं ज्ञातवता राज्ञा शिशुं सरोवरे त्यक्तुम् आदिश्यते । सरोवरस्य समीपे आसीत् पार्श्वमुनेः आश्रमः । प्रतिदिनं सरोवरे स्नानं कर्तुम् आगतवता मुनिना एषः शिशुः दृष्टः । परमात्मास्वरूपः अयं शिशुः इति मत्वा तम् आश्रमं प्रति अनयत् । तस्य पत्नी दीपवत्सला नितरां सन्तुष्टा जाता । एवं जन्मदात्री पोषयित्री चेति उभे मातरौ स्तः इत्यतः सः बालः द्वैमातुरः इति ख्यातः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Varenya was virtuous and cared for his people. His wife, Pushpaka, gave birth to a unique child with four arms and a tusk. Disturbed by this, the king ordered the child to be abandoned in a lake. Nearby, Sage Parshva lived in a hermitage and often visited the lake. He found the child, saw its divine nature, and brought it to his hermitage. His wife, Deepavatsala, happily took the child in. With two mothers—one who gave birth. and the other who nurtured—the child was named "Dvimaatura," meaning "the one with two mothers.

May 23, 20252 min

Ep 203सुगन्धमयता

शबरीं द्रष्टुम् आगवन्तं रामं आश्रमं परितः विद्यमानानां सुगन्धपूर्णानां पुष्पाणां कथां वदति सा - 'पूर्वम् आश्रमपरिसरे मातङ्गः नाम महर्षिः निवसति स्म । कदाचित् महर्षिः अचिन्तयत् यत् वृष्टेः आरम्भतः पूर्वं यदि काष्ठानि न सङ्गृह्येरन् तर्हि वर्षाकाले महत् कष्टम् अनुभोक्तव्यं भवेत् इति । शिष्येषु केनापि अवधानं न दत्तम् इति कारणतः स्वयं महर्षिः परशुं गृहीत्वा काष्ठसङ्ग्रहाय आश्रमात् निर्गतवान् । तं सर्वे शिष्याः अनुसृतवन्तः । सूर्यास्तसमये आगवतां शिष्याणां शरीरतः यत्र यत्र स्वेदबिन्दवः अपतन् तत्र सर्वत्र सुन्दाराणि पुष्पाणि दृष्टानि' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Shabari speaks to Rama, who has come to see her, about the fragrant flowers present around the ashram - 'Once, in the vicinity of the ashram, there lived a great sage named Matanga. One day, the sage thought that if the wood was not collected before the onset of rain, it would be very difficult during the rainy season. Since none of the disciples paid attention to it, the sage himself took an axe and went out of the ashram to gather the wood. All the disciples followed him. By the time they returned at sunset, wherever the sweat drops from the bodies of the disciples fell, beautiful flowers were seen blooming there’.

May 22, 20253 min

Ep 202वाणिज्यकौशलम्

कस्याञ्चित् महावाणिज्यसंस्थायां विक्रेतृविभागस्य निमित्तम् अभ्यर्थिनां सन्दर्शनं प्रचलत् आसीत् । अनुभवराहित्येऽपि कस्यचन तरुणस्य सरलतां दृष्ट्वा तम् उद्योगे न्ययोजयत् प्रबन्धकः । 'विक्रयणे विशेषास्था दर्शनीया, प्रगतिः साधनीया च भवता' इति अबोधयत् सः । कञ्चित् कालानन्तरं ज्ञातं कथं सः तरुणः स्वस्य कौशलेन वाणिज्यसामर्थ्येन च संस्थायै दशलक्षरूप्यकमितः लाभः दापितः इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a large commercial organization, interviews were being conducted for the sales department. Despite his lack of experience, a young man's simplicity impressed the manager, who decided to hire him. The manager advised him, saying, "You should show a special interest in sales and work towards progress." After some time, it became known how the young man, through his skill and commercial wisdom, brought a profit of ten lakh rupees to the organization.

May 21, 20254 min

Ep 201धर्मस्य सारः

पूर्वं कश्चन राजुकुमारः सकलज्ञानसम्मन्नः बलवान् अधीतराजोचितविद्यः च असीत् । किन्तु धर्मलक्षणं तेन न ज्ञातम् । सः पण्डितान् अपृच्छत् । एकैकः एकैकप्रकारेण धर्मलक्षणं विवृतवान् येन राजकुमारस्य भ्रमः जातः । अन्ते सः कञ्चित् संन्यासिनं दृष्ट्वा स्वस्य समस्यां निवेदितवान् । संन्यासिना कारितायां क्रीडायां राजकुमारेण प्रतिस्पर्धिनि गौरवप्रधानं, मृदु व्यवहारः, दयापरार्थं, प्राणत्यागाय सज्जता इत्यादयः दर्शितः । एते एव धर्मस्य साराः इति सन्यसिनः कथनात् सन्तुष्टः राजकुमारः संन्यासिनं कृतज्ञतापूर्वकं प्रणम्य ततः निर्गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, there was a prince who was endowed with all kinds of knowledge, strong and well-versed in the sciences suitable for a king. However, he did not understand the essence of dharma (righteousness). He asked the scholars. Each one of them explained dharma in different ways, which confused the prince. Finally, he saw a Sanyasi and expressed his problem. In a game arranged by the Sanyasi, the prince displayed qualities such as prioritizing honor over competition, gentle behavior, compassion for others, and readiness to sacrifice his life. The Sanyasi then explained that these very qualities are the essence of dharma. Satisfied with the Sanyasi's explanation, the prince thanked him with gratitude and departed.

May 20, 20253 min

Ep 200कर्मफलं कर्तारम् उपैति

'यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुरा कृतं कर्म कर्तारमनुगच्छति ।। 'प्रियम् अप्रियं वा कर्मफलं कर्तारमेव उपैति' इति वचनं अस्माभिः ज्ञातमेव । शास्त्रकुशलोऽपि कश्चन पण्डितः कथं पापं करोति? यदा कर्मफलं पापपुरुषरूपं धृत्वा पण्डितं ग्रहीतुम् आगतवान् तदा तस्य निवारणाय कम् उपायं करोति ? परन्तु अन्ते कर्मफलस्य भोक्ता स्वयमेव अस्ति इति कथं पण्डितेन विदितम् इति ज्ञातुम् इमां स्वारस्यकरीं कथां शृण्मः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Just as a calf finds its mother among a thousand cows, so does the karma of the past find its doer. The saying 'One reaps the fruits of their actions, whether pleasant or unpleasant' is well-known to us. How does even a learned scholar commit a sin? When the fruits of karma, assuming the form of a sinful person, come to capture the scholar, what means does he employ to prevent it? In the end, how does the scholar realize that he himself must bear the fruits of his karma? Let us hear this intriguing story to understand".

May 19, 20253 min

Ep 199भक्तराजः प्रह्लादः

त्रिषु लोकेषु देवताभ्योऽपि महान् पूजनीयः प्रह्लादः इन्द्रेण न असह्यत । सः ब्राह्मणवेषं धृत्वा प्रह्लादनिकटम् आगत्य अकथयत् 'भवतः इहलौकिकस्य पारलौकिकस्य च कल्याणमार्गस्य तत्त्वम् उपदिशतु' इति । तदङ्गीकृत्य प्रह्लादः ज्ञानतत्त्वं बोधयित्वा अन्ते' यद् इष्यते तद् याच्यताम्' इति यदा अवदत् तदा कपटवेषधारी इन्द्रः 'भवतः शीलं ग्रहीतव्यम् इति मम इच्छा' इति प्रत्यवदत् । प्रह्लादः तस्य वचनं पूरितवान् । तदनन्तरं प्रह्लादः एतत् भगवतः आशीर्वादं मन्यमानः नैमिषारण्यं गत्वा भगवतः ध्यानं कुर्वन् आनन्देन दिनानि अयापयत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Prahlada, who is greater and more venerable than the gods, was unbearable to Indra. Disguised as a Brahmin, Indra approached Prahlada and asked, "Please teach me the essence of the path to welfare in this world and the next". Accepting this request, Prahlada imparted the knowledge of the truth. At the end, when Prahlada asked Indra to request whatever he desired, the deceitful Indra replied, "It is my wish to imbibe your character". Prahlada fulfilled his request. Thereafter, considering this as a blessing from the Lord, Prahlada went to Naimisharanya, meditated on the Lord, and spent his days in bliss.

May 18, 20253 min

Ep 198भगवतः अस्तित्वम्

कदाचित् कश्चन तरुणः रमणमहर्षिम् उपसर्प्य भगवतः अस्तित्वस्य विषये सन्देहं प्रकटयति । सन्देहस्य कारणे पृष्टे 'यावत् ईश्वरः दृष्टिगोचरः न भवेत् तावत् तस्य अस्तित्वस्य विषये श्रद्धा अपि न भवेत्' इति । तदा महर्षिः मन्दहासपूर्वकम् अवदत् 'अहं कञ्चित् प्रश्नं पृच्छामि । किं भवति बुद्धिमत्ता अस्ति?’ । 'तत्र नास्ति एव सन्देहः' इति यदा तरुणः वदति तदा महर्षिः वदति 'किन्तु सा न दृश्यते मया । तस्मात् कथं निर्णेतुं शक्नुयाम?’ इति । एतस्मात् कथनात् भगवतः विषये अपि एवमेव चिन्तनीयम् इति ज्ञात्वा भगवतः अस्तित्वस्य विषये अपगतसन्देहः अभवत् तरुणः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a young man approached Ramana Maharshi and expressed doubt about the existence of God. When asked the reason for his doubt, he said, ‘As long as God is not visible, there can be no faith in His existence’. Then Maharshi, with a gentle smile, said, ‘Let me ask you a question. Does intelligence exist within you?’ When the young man replied, ‘There is no doubt about it’, Maharshi said, ‘But I do not see it. How can I determine its existence?’ From this statement, the young man understood that he should think in a similar manner regarding the existence of God. Hence, his doubt about God's existence vanished.

May 17, 20252 min

Ep 197अधीरता न शोभायै

कदाचित् 'पञ्जाबकेसरी' इति ख्यातस्य राज्ञः रणजितसिंहस्य राज्यस्य सीमाप्रदेशं केचन लुण्ठाकाः पेशावरनगरस्य लुण्ठनं कुर्वन्तः सन्ति इति गुप्तचराः वार्ताम् आनीतवन्तः । तां वार्तां श्रुत्वा यदा राजा सेनापतिम् आनाय्य अपृच्छत् तदा त्रिगुणितप्रमाणेन स्थितान् तान् लुण्ठाकान् अस्मत्सैनिकाः कथं वा अवरोधयेयुः इति अवदत् सेनापतिः । किमपि उनुक्त्वा अनुक्षणं राजा १५० सैनिकैः पेशावरं प्राप्य शत्रुसंहारे उदुक्तः । तस्य शौर्यं खड्गप्रहारकौशलं च दृष्ट्वा नितरां भीताः लुण्ठाकाः अचिरात् एव ततः पलायितवन्तः । ततः सेनापतिः सङ्कल्पितवान् यत् इतः परं मया अधीरता न अश्रीयते इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, in the kingdom of Maharaja Ranjit Singh, also known as the "Lion of Punjab," some spies brought news that a group of looters was plundering the city of Peshawar. When the king summoned his general and asked how the looters could enter the city, the general replied with concern, mentioning that the looters were three times in number compared to their soldiers. Without saying a word, the king immediately set off for Peshawar with 150 soldiers to annihilate the enemy. Witnessing his bravery and swordsmanship, the terrified looters soon fled from the city. From that moment on, the general resolved that he would never again lose his composure.

May 16, 20253 min

Ep 196निन्द्यं कर्म राक्षसत्वाय

गुरुनानकः कदाचित् यदा प्रियशिष्येण मरदानेन सह विन्ध्याचलपरिसरे गच्छन् आसीत् तदा केचन वन्यजातीयाः मरदानं बद्ध्वा भैरवीगुहां प्रति बलिरूपेण नीतवन्तः । भैरव्याः अर्चकः तस्य मारणाय शूलं गृहीत्वा आगतः। तदा 'वाहे गुरु' इति ध्वनिः श्रुतः । एतस्य श्रवणात् अर्चके विलक्षणं परिवर्तनं दृष्टम् । एतत् दृष्ट्वा वन्यजातीयानां नायकः क्रोद्धेन 'भवान् कः?' इति अपृच्छत् । 'अहं भवान् इव मानवः अस्मि' इति गुरुनानकः अवदत् । तदनन्तरं तयोर्मध्ये यत् सम्भाषणं जातं तेन वन्यजातीनायकस्य न केवलं हृदयं द्रुतम् अपि तु तस्मिन् परिवर्तनम् अपि जातम् । सः गुरुनानकं शरणम् अगच्छत् । अन्ये सर्वे वन्यजातीयाः अपि नानकस्य शिष्याः अभवन् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Guru Nanak was traveling with his beloved disciple Mardana in the Vindhyachal region. Some tribal people captured Mardana and took him to a Bhairavi cave as a sacrificial offering. The priest of Bhairavi, holding a trident, approached to kill him. At that moment, the sound of "Waheguru" was heard. Upon hearing this, the priest underwent a remarkable change. Observing this, the leader of the tribal people angrily asked, "Who are you?" Guru Nanak replied, "I am a human like you." Thereafter, the conversation that took place between them not only melted the heart of the tribal leader but also brought about a change in him. He sought refuge in Guru Nanak. All the other tribal people also became disciples of Guru Nanak.

May 15, 20253 min

Ep 195नरकस्य राज्यपालत्वेन नियुक्तिः

भारतस्य राष्ट्रपतिः डा.राजेन्द्रप्रसादमहोदयः कदाचित् दिल्लीविश्वविद्यालयस्य समारम्भे भागम् अवहत् । समारम्भानन्तरं छात्राः राजेन्द्रप्रसादमहोदयस्य हस्ताक्षरं प्रार्थितवन्तः । सन्तोषेण अङ्गीकृतवान् । कश्चन छात्रः विनोदाय स्वपुस्तके 'स्वर्गस्य राज्यपालत्वेन नियोजनम्' इति लिखित्वा हस्ताक्षराय अयच्छत् । किमपि अवदन् राजेन्द्रप्रसादमहोदयः वाक्यद्वयं लिखित्वा तत् पुस्तकं तस्मै प्रत्यार्पयत् । तत्र लिखितस्य पठनात् छात्रस्य मुखं विवर्णं जातम् । किं लिखितं स्यात् महोदयेन इति जिज्ञासायां कथाम् इमां शृण्वन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The President of India, Dr. Rajendra Prasad, once attended a function at Delhi University. After the event, students requested Dr. Rajendra Prasad's autograph, which he gladly accepted. One student, for fun, wrote "appointed as the Governor of Heaven" in his book and handed it to Dr. Rajendra Prasad for his autograph. Dr. Rajendra Prasad wrote something and returned the book to the student. Reading what was written, the student's face turned pale. Curious to know what Dr. Rajendra Prasad wrote? Listen to this story to find out.

May 14, 20253 min

Ep 194चोराय उपाहारः

कदाचित् रात्रौ साबरमतिस्थस्य आश्रमस्य पाकमन्दिरं प्रविष्टवन्तं चोरम् आश्रमवासिनः गृहीतवन्तः । अग्रिमदिवसे प्रात:काले यदा गान्धिवर्यस्य पुरतः सः चोरः उपस्थापितः, तदा तस्मै चोराय प्रथमम् उपाहारं दत्त्वा अनन्तरं मत्समीपे आनेतव्यः इति अवदत् गान्धिवर्यः । अनन्तरं गान्धिवर्येण सुमधुराणि हितवचनानि चोराय उक्तानि । तस्मिन् एव आश्रमे कार्यम् अपि दास्यामि इत्यवदत् । गान्धिवर्यस्य वचनानि श्रुत्वा द्रवीभूतान्तःकरणः सः चोरः गान्धिवर्यस्य पादौ गृह्णन् अश्रूणि स्रावितवान् । ततः सः आश्रमे एव निवसन् सर्वाणि कार्याणि श्रद्धया कुर्वन् उत्तमं जीवनं यापयन् साधुजनः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)One night, a thief entered the kitchen of the Sabarmati Ashram and was caught by the ashram residents. The residents of the ashram caught him and brought him before Gandhiji the next morning. Gandhiji told the residents to bring him after offering breakfast. Later, Gandhiji's compassionate and kind words transformed the thief, turning him into a dedicated and sincere individual. He was also offered a job in the Ashram. He sincerely performed all duties and led a good life.

May 13, 20253 min

Ep 193करणीया अकिञ्चनानां सेवा

परमविरक्तः तपस्वी महर्षिः रमणः धर्मशात्राध्ययनेन सङ्कल्पं कृतवान् यत् आवश्यकतायाः अधिकं वस्तु न सङ्ग्रहणीयम् इति । कदाचित् महर्षेः सकाशे यत् एकमेव कौपीनम् आसीत् तदपि शीर्णम् जातम् । महर्षिं दृष्ट्वा नितरां खिन्नाः परमभक्ताः धीरजनाः अञ्जलिं बद्ध्वा नूतनं कौपीनं दद्याम वयम् इति प्रार्थितवन्तः । तदा महर्षिः स्मितपूर्वकम् उक्तवान् -’मत्परिसरे असङ्ख्याः जनाः सन्ति ये च शैत्येन कम्पमानाः रात्रिं यापयन्ति । अकिञ्चनेषु दरिद्रेषु च यूयं भगवन्तं पश्यत । एषः एव अस्माकं धर्मशास्त्रस्य सारः' इति । तम् उपदेशं मनसि गृहीत्वा दरिद्राणाम् अकिञ्चनानां च सेवायै स्वकीयं जीवनम् अर्पितवन्तः ते भक्ताः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The highly detached sage Maharshi Ramana, through the study of religious scriptures, had made a vow that he would not accumulate anything more than necessary. He owned only one loincloth, which was worn out. Seeing Maharshi sewing the loincloth, some devoted disciples felt very distressed and offered to give a new loincloth. Maharshi smilingly said, ‘There are many people in my surroundings, who shiver through the night due to the cold. See God in the destitute and the poor. This is the essence of our religious scriptures’. From then on, the devotees dedicated their lives to the service of the poor and the destitute.

May 12, 20253 min

Ep 192स्वामिनः विवेकानन्दस्य व्यथा

विश्वसम्मेलने उपस्थितौ कौचित् अमेरिकीयदम्पती स्वामिनं विवेकानन्दं स्वगृहं प्रति निमन्त्रितवन्तौ । गृहम् आगतवते स्वामिने उत्तमभोजनादिशयनव्यवस्थां परिकल्पितवन्तौ । अर्धरात्रे तल्पे विश्रामं कुर्वतः स्वामिनः मनसि दम्पत्योः समग्राम् उत्कृष्टां व्यवस्थां दृष्ट्वा भारतदेशस्य जनानां चित्रम् आगतम् । अपूर्णोदरान् अपर्याप्ताच्छादकान् भारतीयान् स्मृत्वा तन्मनः दुःखग्रस्तं जातम् । दुःखदारिद्र्यपूर्णं जीवनं यापयतः असङ्ख्यान् भारतीयान् स्मृत्वा तस्य नेत्रयोः अश्रूणि आगतानि । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)At an international conference, a certain American couple invited Swami Vivekananda to their home. They made arrangements for excellent food and sleeping accommodations for him. When Swami Vivekananda was resting on a cot around midnight, upon seeing the couple's well-organized arrangements he started to imagine the condition of Indians. Thinking about the impoverished, underprivileged and poorly clothed Indians, he became deeply saddened. Remembering the countless Indians suffering from poverty and hardship, tears welled up in his eyes.

May 11, 20255 min

Ep 191समानवृत्तिकौ आवां भ्रातरौ

ईश्वरचन्द्रविद्यासागरः महाविद्वान् परमदयालुः आसीत् । कदाचित् महाविद्यालयस्य पार्श्वे शयानः कश्चित् कर्मकरः ज्वरेन पीडितः आसीत् । तं गृहं नीत्वा वैद्यम् आनाय्य तस्य शरीरस्य मार्जनं, वस्त्रपरिवर्तनम् इत्यादिकं च ईश्वरचन्द्रविद्यासागरेण स्वयमेव कृतम् । एतादृशं व्यवहारं दृष्ट्वा यदा कश्चित् बन्धुः अपृच्छत् - 'किं एषः भवतः बन्धुः ?’ तदा विद्यासागरः वदति - ‘आम्, एषः मम बन्धुः। मया ज्ञानसाहाय्येन अन्तरङ्गस्य स्वच्छता क्रियते । एषः सम्मार्जन्यादिना बाह्यस्वच्छतां करोति । अतः आवां समानवृत्तिकौ । अतः एषः मम भ्राता' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Ishwar Chandra Vidyasagar was a great scholar and very compassionate. One day, near the college, a worker was lying down suffering from fever. Vidyasagar took him home, called a doctor, cleaned his body, changed his clothes, and did everything himself. When a relative saw this and asked, ‘Is he your relative?’. Vidyasagar replied, ‘Yes, he is my relative. I purify the inner self with knowledge and he cleans the outer body with sweeping. Therefore, we both have the same role. Hence, he is my brother’.

May 10, 20254 min

Ep 190शान्तिसङ्केतः कपोतः

कदाचित् द्वयोः देशयोः मध्ये युद्धः प्रचलति । शिरस्त्राणे सन्ति कपोतस्य सद्योजाताः शिशवः इति कारणतः राजा शिरस्त्राणम् अधृत्वा रणाङ्गणं प्रति गतवान् । एतत् दृष्ट्वा शत्रुराजः कारणं पृच्छति । प्रवृत्तं सर्वं विज्ञाय शत्रुराजः प्रतिवेशिराजस्य शान्तिप्रियताम् अभिनन्दन् अवदत् यत् 'युद्धकारणतः असङ्ख्यानां सैनिकानां मरणे प्रयासः कथम् औचित्यम् आवहेत्? विवेकिभिः अविचिन्त्य न व्यवहरणीयम् । आवां सम्भूय शान्तिं रक्षावः' इति । तस्मात् दिनात् कपोतः शान्तिसङ्केतत्वेन परिगण्यमानः अस्ति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a war was going on between two countries. Because there were newly hatched pigeon chicks in his helmet, the king went to the battlefield without wearing it. Seeing this, the enemy king asked for the reason. After learning everything, the enemy king admired the peaceful nature of his rival and said, ‘How can efforts resulting in the death of countless soldiers be justified by war? Wise men should not act without thought. Let us together maintain peace’. Since then, the pigeon has been considered a symbol of peace.

May 9, 20255 min

Ep 189शासनस्य मुख्यं लक्ष्यम्

कश्चन युवराजः यौवराज्याभिशेकात् पूर्वं स्वस्य विद्यागुरुं अपृच्छत् - ‘राजा शक्तिसम्पन्नः कथं भवति इति?’। तदा अंशत्रयं वदति गुरुः -’प्रजाः आहाराभावं न अनुभवेयुः, शस्त्रास्त्राणां अभावाः देशे न उत्पद्येत, राज्ञि शासने च प्रजानां विश्वासः विनष्टः न भवेत् । त्रिषु अपि प्रजाहितम् एव शासनस्य मुख्यं लक्ष्यं भवति । राजत्वम् अधिकारसूचकं पदं न, अपि तु प्रजासेवकत्वसूचकं स्थानम्' इति । उत्तमस्य बोधनस्य प्राप्त्या सन्तुष्टः युवराजः आचार्यं भक्त्या प्रणम्य ततः निर्गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Before his coronation, a young prince asked his Guru, ‘How does a king become powerful?’. The Guru replied with three points - ‘The people should not suffer from lack of food, there should not be a shortage of weapons in the country, and the people's trust in the king's governance should not be lost. In all three cases, the welfare of the people should be the primary goal of governance. Kingship is not a sign of power, but a position of service to the people’. Satisfied with the excellent teaching, the prince bowed to his Guru with devotion and left.

May 8, 20254 min

Ep 188उत्कृष्टस्य क्षेपणम्

रमणमहर्षेः आश्रमस्य समीपे कश्चन अध्यापकः निवसति स्म यस्य गृहे प्रतिदिनं कलहमयं वातावरणं भवति स्म । एतस्मात् जुगुप्सितः सः आत्महत्यां कर्तुं निर्णीतवान् । किन्तु आत्महत्यानिर्णयः न सुकरः इति विचिन्त्य मार्गदर्शनं प्राप्तुं सः रमणमहर्षेः आश्रमं गत्वा सर्वं निवेदितवान् । तदा महर्षिः केनचित् निर्दर्शनेन दर्शयति यत् 'योग्यम् उपयोगम् अस्वीकृत्य कस्यचित् वस्तुनः क्षेपणं न उचितम् । तथापि उपयोगसमाप्तितः पूर्वम् एव उत्कृष्टस्य वस्तुनः क्षेपणे उद्युक्तः अस्ति भवान्' इति । ततः अध्यापकः आत्महत्याचिन्तनं परित्यज्य उत्तमजीवनस्य यापने मतिं कृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Near the ashram of Ramana Maharshi, a teacher lived in a quarrelsome atmosphere at home every day. Because of this, he decided to commit suicide. However, considering that the decision to commit suicide was not easy, he went to Ramana Maharshi's ashram for guidance and explained everything to him. Ramana Maharshi showed that it is not right to discard something useful without proper use. He said, ‘You are ready to discard something valuable before its use is completed’. After hearing this, the teacher gave up the idea of suicide and decided to lead a good life.

May 7, 20253 min

Ep 187हेतुस्त्वं सर्वदेशिक !

पूर्वं केनचित् राज्ञा वेषान्तरं धृत्वा देशाटनसमये कश्चन ग्रामपरिसरः प्राप्तः । कस्यचित् बालकस्य मुखात् विविधेषु सन्दर्भेषु आगतानि सामान्यानि वचनानि राज्ञि महान्तं परिणामम् अजनयत् । रात्रौ शयनसमये अपि सः तानि एव वचनानि पुनः पुनः वदन् आसीत् । तस्य देशस्य धूर्तः मन्त्री सर्वदेशिकः रात्रौ राजकोषात् धनं चोरयितुम् आगतः । तदा निद्रामग्नस्य राज्ञः मुखात् तान्येव वचनानि आगतानि - ‘अहो!महान् शब्दः', ‘’निश्शब्दत्वं निरन्तरं', ‘पलायनं विना शब्दः', ‘हेतुस्त्वं सर्वदेशिक' इति । समग्रं व्यवहारं राजा ज्ञातवान् इति चिन्तयन् मन्त्री राज्ञः पादौ गृहीत्वा क्षमाम् अयाचत । ग्रामीणबालकस्य सामान्यवचनम् अपि देशस्य प्रयोजनाय अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a king, disguised in different attire, was traveling and reached the outskirts of a village. A boy's ordinary words in various contexts had a great impact on the king. Even at night, while sleeping, the king kept repeating those words. That night, the cunning minister named Sarvadeshika came to steal money from the royal treasury. In his sleep, the king uttered the same words: ‘Ah! What a great sound’, ‘Silence is continuous’, ‘A sound without an escape’, ‘You are the cause, Sarvadeshika’. Thinking that the king was aware of the whole situation, the minister held the king's feet and begged for forgiveness. The ordinary words of a village boy turned out to be beneficial for the entire country.

May 6, 20254 min

Ep 186निःस्पृहः गुम्फनदासः

दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते धनं काष्ठकीर्णकीटः इव बाधते, अपि च अहं भगवद्भक्तपदेन एव तृप्तः अस्मि इति वदति । अन्यत् किमपि न अवश्यकम् इति वदति । तस्य निःस्पृहतां दृष्ट्वा तं सादरं प्रणम्य ततः राजा निर्गच्छति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Gumphana Das was widely known for his devotion to God, selflessness, and helpful nature. Wanting to honor him, King Manasinha personally visited his home. There, he saw water used as a mirror and grass used as seating. The king offered to make a silver throne and a golden mirror for him, but Gumphana Das refused. When the king offered money for daily expenses or a village administrator position, Gumphana Das replied that money was like a troublesome insect and that he was content with being a devotee of God. He did not need anything else. Seeing his selflessness, the king respectfully bowed to him and left.

May 5, 20253 min

Ep 185चिन्तनस्य विषयः तु ......

कदाचित् अश्वम् आरुह्य गच्छन्तौ गुरुशिष्यौ रात्रिवेलायां कस्मिंश्चित् जीर्णगृहे वासं कृतवन्तौ । अश्वः वृक्षे बद्धः अस्ति । तं रक्षतु । अहं निद्रां करोमि । निद्रानिवारणाय किमपि चिन्तयन् भवतु' इति गुरुः अवदत् । तथैव शिष्यः अकरोत् । मध्ये मध्ये गुरुः उत्थाय पृच्छति किं चिन्तयन् अस्ति, तदा शिष्यः अवदत् - नक्षत्राणि स्वयमेव उत्पन्नानि उत केनचित् स्थापितानि इति, समुद्रजलं स्वयमेव लवणमयं जातम् उत कोऽपि समुद्रे लवणं योजितवान् इति च । उषःकाले गुरुणा पृष्टे तदा शिष्यः वदति - वृक्षे बद्धः अश्वः न दृश्यते । सः स्वयमेव बन्धनात् विमुक्तः जातः उत कोऽपि तम् उन्मोच्य नीतवान् इति । तस्य अविवेकं दृष्ट्वा हसनीयम् उत विषादः प्रकटनीयः इति अजानन् गुरुः मौनम् आश्रितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a Guru and his student were traveling on horseback and decided to stay in a hut for the night. The horse was tied to a tree. The Guru said, ‘Guard it. I will sleep. Think of something to stay awake’. The student did as told. During the night, the Guru woke up occasionally and asked what the student was thinking about. The student responded with thoughts like whether the stars appeared on their own or someone placed them, and whether the sea became salty on its own or someone added salt to it. At dawn, the Guru asked again, and the student said, ‘The horse tied to the tree is not visible. Did it free itself or did someone untie it and take it away?’ Seeing the student's lack of wisdom, the Guru was unsure whether to laugh or be sad, and remained silent.

May 4, 20253 min

Ep 184आतपत्रपादत्राणयोः उद्भवः

ग्रीष्मकालः आसीत् । महर्षिः जमदग्निः सूर्यतापस्य तीक्ष्णतां न्यूनीकर्तुं पत्न्या रेणुकादेव्या धनुम् आनाय्य सूर्यम् उद्दिश्य एकैकशः बाणानां प्रक्षेपणं अकरोत् । किन्तु भास्करः तथैव ज्वलन् स्थितवान् । महर्षेः क्रोधः पराकाष्ठां गतः । एतदभ्यन्तरे सूर्यदेवः विप्रवेषधारी भूत्वा महर्षिम् उपेत्य एतस्मात् यत्नात् विरमयितुं वदति । यदा महर्षिः एतत् न अङ्गीकरोति तदा सूर्यदेवः स्वस्य दिव्यशक्त्या आतपत्रं, पादत्राणं च सृष्ट्वा तस्मै महर्षये अदात् । इत्थम् आदिमयोः आतपत्रपादत्राणयोः उद्भवः जातः । वैशाखमासे श्राद्धवेलायां च आतपत्रस्य पादत्राणस्य च दानम् इत्थम् आरब्धम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)It was summer. The sage Jamadagni, to reduce the intensity of the sun's heat, brought a bow with the help of his wife Renuka and started shooting arrows towards the sun. However, the sun continued to blaze. The sage's anger reached its peak. In the meantime, the sun god, disguised as a Brahmin, approached the sage and tried to stop him. When the sage did not agree, the sun god used his divine power to create an umbrella and sandals and gave them to the sage. Thus, the origin of the first umbrella and sandals came into being. This is why, during the Shraadha in the month of Vaishakha, the donation of umbrellas and sandals began.

May 3, 20254 min

Ep 183कूपरहितं गृहम्

दशमे शतके राजा यशस्करदेवः काश्मीरदेशं पालयति स्म । कदाचित् राजभवनस्य पुरतः प्राणत्यागाय प्रयतमानं सज्जनं आनाय्य कारणम् अपृच्छत् राजा । तदा ज्ञातवान् यत् न्यायाधीशेन अन्याय्यः निर्णयः श्रावितः आसीत् इति । सज्जनः कूपसहितः कश्चन भागः पत्न्यै रक्षित्वा गृहं विक्रीतवान् आसीत् । धनसम्पादनाय अन्यदेशं प्रति गतः यावत् प्रत्यागतः तावता कूपसहितायाः भूमितः पत्नी निष्कासिता आसीत् । ततः राजा न्यायाधीशं, गृहस्य विक्रेतारम्, राजलेखकम् आनाय्य गृहस्य पत्रं परिशील्य ज्ञातवान् यत् राजलेखकः सहस्रं मुद्राः उत्कोचं प्राप्य 'कूपरहितं गृहं' इति पत्रे लिखितवान् इति । राजा कूपभूमिं भवनं च स्वामिने दापयित्वा क्रेतारं धनिकं देशात् निर्वासितं कृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the tenth century, King Yashaskara was ruling the Kashmir region. One day, a man who was trying to take his own life was brought before the king and asked him the reason. The king then learned that an unjust decision had been made by the judge. The man had sold everything except a piece of land with a well for his wife to lead a life and had gone to another country to earn money. When he returned, his wife had been evicted from the land. The king then summoned the judge, the seller of the house, and the royal clerk, and upon examining the property documents, discovered that the clerk had received a thousand coins as a bribe and had written ‘house without a well’ in the document. The king then ordered the land with the well and the house to be returned to the rightful owner and exiled the wealthy buyer from the country.

May 2, 20254 min

Ep 182योग्यतापरीक्षा

कस्मिंश्चित् राज्ये नूतनमन्त्रिणः चयनदायित्वं राजा वृद्धाय मन्त्रिणे दत्तवान् । निश्चिते दिने बहवः युवकाः अर्हतापरीक्षार्थं राजभवने उपस्थिताः अभवन् । वृद्धः मन्त्री पेयवितारकरूपेण, कृषकरूपेण च वेषं धृत्वा परीक्षाम् अकरोत् । तत्र एकः एव युवकः चषकसङ्ग्रहणे, पङ्कात् शकटस्य उन्नयने च साहाय्यम् अकरोत् । सः एव योग्यतमः इति विचिन्त्य तमेव नूतनमन्त्रित्वेन चितवान् मन्त्री ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain kingdom, the king gave the responsibility of selecting a new minister to an old minister. On the decided day, many young men came to the king's palace to take the eligibility test. The old minister, disguised as a drink server and farmer, conducted the test. One young man helped in collecting cups and lifting a cart from the mud. Considering him the most suitable, the old minister chose him as the new minister.

May 1, 20253 min

Ep 181अनुभोक्तव्यम् एव पापफलम्

चन्द्रनामा चोरः चौर्यकर्मकलाकोविदः एकदा लक्षाधिकानि रूप्यकाणि चोरयित्वा सुरक्षिते स्थले संस्थाप्य निश्चिन्तः अभवत् । तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । अतः सः विष्णुमन्दिरं गत्वा समग्रं धनं देवाय अर्पितवान् । ततः तेन विलक्षणः आनन्दः महती तृप्तिः च अनुभूता । मरणानन्तरं यमभटैः सः चित्रगुप्तस्य समीपं नीतः यत्र तस्य पापपुण्यादिविवरणं परिशीलितम् । चित्रगुप्तः अवदत् यत् तस्य चौर्यकर्मणः निमित्तं मासात्मकः नरकवासः दण्डः भवेत् । 'चोरितं धनं भगवते अर्पितम् अतः पापं क्षालितं भवेत्' इति चन्द्रेण उक्ते चित्रगुप्तः अवदत् 'यत् पापम् आचरितं तस्य दण्डः अनिवार्यः । अनन्तरम् एव पुण्यकर्मणः फलम् अनुभूयेत' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Chandra, a thief skilled in the art of theft, once stole a large amount of money and kept it in a safe place. He saw the image of Vishnu, the family deity in his dreams. Therefore, he went to Vishnu's temple and offered all the money to the deity. He experienced immense joy and great satisfaction from this virtuous act. After his death, he was taken by Yama's attendants to Chitragupta, where his sins and merits were reviewed. Chitragupta declared that Chandra would be punished with a month's stay in hell for his theft. When Chandra asked if offering the stolen money to God would cleanse his sin, Chitragupta replied that the punishment for the committed sin was inevitable. Only after serving the punishment would he experience the fruits of his good deed.

Apr 30, 20253 min

Ep 180नादस्य कारणम्

कृष्णः बाल्ये यदा गृहिण्यः गृहे न स्युः, तदा सः मित्रैः सह प्रतिवेशिगृहं गत्वा नवनीतं चौरयति स्म । एकदा काचित् गोपिका शिक्यायां घण्टिकां बध्नाति । यदा कृष्णः नवनीतं चोरयति तदा घण्टानादः भवेत् इति । परन्तु कृष्णः घण्टिकां दृष्ट्वा ताम् आदिष्टवान् यत् मम स्पर्शे शब्दं न करोतु इति । तथापि, नवनीतं मुखे स्थापनसमये घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः आगमनात् पूर्वं सः पलायितवान् । अनन्तरं कृष्णः घण्टिकां 'किमर्थ मम आदेशं न पालितवती' इति पृष्टवान् । तदा घण्टिकया उक्तं यत् नैवेद्यसमये नादोत्पादनं मम धर्मः' इति । ततः कृष्णः हसन् निर्गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When Krishna was a child, he would go with his friends to the neighboring houses to steal butter. One day, a gopi tied a bell to the butter pot, so that it would ring when Krishna tried to steal the butter. However, when Krishna saw the bell, he instructed it not to make any sound when he touched it. Despite this, when Krishna put the butter in his mouth, the bell rang loudly. Krishna escaped before the gopi arrived. Later, Krishna asked the bell why it did not obey his command. The bell replied that making a sound during the offering was its duty. Krishna laughed and left.

Apr 29, 20252 min

Ep 179स्वर्गः नरकं च इहैव

कश्चित् सज्जनः एकदा ग्रामस्य देवालये साधोः प्रवचनं आयोजितवान् यत्र प्रतिदिनं जनाः साधोः प्रवचनं श्रोतुं आगच्छन्ति स्म । एकस्मिन् दिने साधुः स्वर्गनरकयोः विषये सविस्तरं व्याख्यानं कृत्वा यदा अपृच्छत् 'कति जनाः स्वर्गं गन्तुम् इच्छन्ति?’ सर्वे एकस्वरेण 'अहम् अहम्" इति अवदन् । किन्तु एकः बालकः प्रतिस्पन्दं न अकरोत् । पुनः साधुः अपृच्छत् "कति जनाः नरकं गन्तुम् इच्छन्ति?’ सर्वे मौनेन आसन् । साधुः बालकस्य प्रतिस्पन्दं न दृष्ट्वा तम् अपृच्छत्, 'स्वर्गनरकयोः विषये तव प्रतिस्पन्दः किमर्थं नास्ति?" इति । बालकः अवदत् 'अहं अत्रैव जीवितुम् इच्छामि । अहं यत्र भवामि तत्रैव स्वर्गं रचयिष्यामि' तस्य वचनं श्रुत्वा साधुः स्तब्धः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A gentleman once organized a sage’s lecture in the village temple, where people gathered daily to listen to the sage’s teachings. One day, the sage gave a detailed discourse on heaven and hell and then asked, ‘How many of you want to go to heaven?’. Everyone responded in unison, ‘I do, I do’. However, one boy did not respond. The sage then asked, ‘How many of you want to go to hell?’ Everyone remained silent. The sage, noticing the boy's lack of response, asked him, ‘Why are you not responding about heaven or hell?’. The boy replied, ‘I want to live here itself. Wherever I am, I will create heaven there’. Hearing his words, the sage was stunned.

Apr 28, 20252 min

Ep 178भक्तिः

काचित् दरिद्रा महिला कृष्णभक्ता आसीत् । रोगग्रस्तस्य पत्युः चिकित्सायैः सर्वं धनं व्ययीकृतम् आसीत् तया । कृष्णजन्माष्टमीदिने विशेषभोजनं सज्जीकरिष्यामि इति पुत्रान् उक्तवती आसीत् । तस्याः दृढविश्वासः आसीत् यत् देवः कमपि मार्गं दर्शयिष्यति इति । वस्तूनि क्रेतुं यदा आपणं गतवती तदा निर्धनां तां महिलां 'देवस्य कृते लिखितं प्रार्थनापत्रं तुलायां स्थापयतु, अहं तद्भारतुल्यानि वस्तूनि ददामि' इति नास्तिकः आपणिकः उपहासम् अकरोत् । आश्चर्यं नाम वस्तुसहितः घटः अधः न गतः एव । यः वास्तविकः‌ भक्तः तस्य रक्षणं भगवान् करोत्येव इति अचिन्तयत् आपणिकः। अनन्तरं देवस्य परमभक्तः अभवत् सः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)There was a poor woman who was a devotee of Krishna. She had spent all her money on her husband's treatment. On the day of Krishna Janmashtami, she told her children that she would prepare a special meal. She had a strong belief that God would show her a way. When she went to the shop to buy items, a non-believer shopkeeper mocked her saying, ‘Place the prayer letter written for God on the scale and I will give you items equivalent to its weight’. To everyone's amazement, the scale with the letter did not go down, even when items were added. The shopkeeper realized that God truly protects those who are sincere devotees. Eventually, he became a true devotee of God.

Apr 27, 20254 min

Ep 177सहजता

कश्चन बौद्धभिक्षुः उत्तमः कलाकारः सन् बौद्धालयस्य निर्माणविन्यासं करोति स्म । भवनं द्रष्टुम् आगतेन केनचन निरुद्योगिना मुख्यप्रवेशद्वारस्य विन्यासरचनसमये शताधिकानि चित्राणि रचितानि चेदपि सर्वत्र दोषः दृश्यते स्म । कदाचित् एकाकिना भिक्षुणा उपविश्य विन्यासः रचितः । 'अल्पे एव काले अद्भुतं चित्रं कथं रचितं भवता?’ इति पृष्टे भिक्षुः अवदत् 'यावत् अन्यस्य प्रीत्यर्थं कार्यं क्रियते, तावत् अस्माकं कार्यं श्रेष्ठं न भवति । आत्मसन्तोषार्थं कृतं कार्यं भवति श्रेष्ठम्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A Buddhist monk, who was an excellent artist was designing the layout of a Buddhist temple. A visitor, who was unemployed, saw over a hundred drawings created during the design of the main entrance, yet found faults in all of them. One day, the monk sat alone and created the drwaing. When asked, ‘How did you create such a wonderful drawing in such a short time?’ the monk replied, ‘As long as we do work to please others, our work is not the best. The work done for self-satisfaction is the best’.

Apr 26, 20254 min

Ep 176त्रयः प्रश्नाः

काशीराज्यस्य राज्ञः मनसि चन्द्रवर्माणं कदाचित् त्रयः प्रश्नाः उत्पन्नाः — उत्तमं कार्यं किम्, उत्तमः पुरुषः कः, उत्तमा वेला च का इति । बहुधा प्रयत्नं कृत्वा अपि तृप्तिकरम् उत्तरं न प्राप्नोत् सः । एकदा सः मृगयार्थम् अरण्यं गतः । विश्रामार्थं सः कञ्चित् आश्रमं प्रविष्टवान् । तत्र संन्यासी तं फलादिदानेन सत्कृतवान् । अचिरात् एकः व्रणितः ग्रामीणः आगतः । संन्यासिना तस्य चिकित्सा कृता । राजा संन्यासिनं प्रश्नानाम् उत्तरं याचितवान् । संन्यासी अवदत् यत् विनालस्यं क्रियमाणं सत्कर्म एव उत्तमं कार्यम्, यः अन्येषां साहाय्यार्थम् उद्युक्तः भवेत् सः उत्तमः पुरुषः, कष्टग्रस्तानां सेवायै व्ययीक्रियते यः समयः सः उत्तमा वेला इति । एतत् उत्तरं श्रुत्वा सन्तुष्टः राजा संन्यासिनं नमस्कृत्य राजधानीं गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, three questions arose in the mind of the King of Kashi, Chandravarma — what is the best deed, who is the best person, and what is the best time. One day, he went to the forest for hunting. For rest, he entered an ashram where a sage welcomed him with fruits and other offerings. Soon, a wounded villager arrived, and the sage treated him. The king asked the monk for answers to his questions. The sage replied that the best deed is the one performed without laziness, the best person is the one who is eager to help others and the best time is the one spent in serving those in distress. Hearing this answer, the satisfied king bowed to the sage and returned to his capital.

Apr 25, 20253 min

Ep 175कुलस्य आचारः

कश्चन चातकशिशुः पिपासया पीडितः मातुः समीपं गत्वा अवदत् 'अम्ब ! अहं तटाकजलं पातुम् इच्छामि" । माता तम् अबोधयत् यत् तटाकजलं न पातव्यम्, केवलं मेघजलम् एव पातव्यम् इति अस्माकं कुलस्य आचारः' । चातकशिशुः पिपासां सोढुम् अशक्नुवन् गङ्गाजलं पातुम् गङ्गां प्रति गच्छन् रात्रियापनाय कस्यचित् कृषिकस्य गृहे उशितवान् । तत्र कृषकपुत्रयोः सम्भाषणेन ज्ञातं यत् पुत्रेण कुलस्य आचारः रक्षितः इति । मेघजलम् एव पातव्यम् इत्येषः आचारः मया धिक्कृतः इति चिन्तयन् नीडं प्रत्यागत्य मातरं प्रवृत्तं सर्वम् अवदत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A thirsty young chataka bird went to its mother and said, ‘Mother! I want to drink water from the pond’. The mother explained to him that drinking pond water was not allowed and that only rainwater should be consumed, as it was a tradition of their family. Unable to bear his thirst, the young chataka bird went to the Ganges to drink its water. On the way, he stayed overnight at a farmer's house. Through a conversation with the farmer's son, it was revealed that the son followed the family's tradition. Reflecting on how the tradition of only drinking rainwater was ridiculed by him, the young bird returned to the nest and narrated the entire incident to his mother.

Apr 24, 20253 min

Ep 174ताः धूमरेखाः

इब्राहिमलोदिः अफगानिस्थानात् भारतं जेतुं आगतः किन्तु तस्य सैन्यम् आसीत् अत्यल्पम् । लोदिः चिन्ताक्रान्तः आसीत् यतः अल्पसैन्ययुक्तेन कथं एतत् सुविशालं मराठासैन्यं जेतुं शक्यम् इति । सः दूरस्थं स्थानं आरुह्य मराठासैन्यशिबिरे अनेकेभ्यः स्थलेभ्यः धूमोत्पत्तिं दृष्टवान् । ज्ञातवान् च यत् मराठासैनिकाः विभिन्नजातीयाः सन्ति, ते विभिन्न पाकशालासु पाकं कुर्वन्ति । हिन्दवः जात्युपजातिभेदान् कारणतः सहभोजनं निषिद्धं मन्यन्ते । तदा लोदिः अवदत् 'ये मनसा विभक्ताः तेषां पराजयः निश्चितः'। ततः, लोदिना यथा चिन्तितं तथैव प्रवृत्तं । ऐक्याभावात् मराठसेना पराजयं प्राप्नोत् । पानिपतयुद्धे तस्य जयः मुस्लिमशासनस्य प्रसारस्य कारणम् अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Ibrahim Lodi came from Afghanistan to conquer India, but his army was very small. Lodi was worried about how he could defeat the vast Maratha army with such a small force. He climbed to a distant place and saw smoke rising from various places in the Maratha army camp. He realized that the Maratha soldiers belonged to different castes and were cooking in separate kitchens. Hindus, due to caste and sub-caste differences, considered it inappropriate to eat together. Lodi then said, ‘Those who are divided in mind are certain to be defeated’. As Lodi had anticipated, this came true. Due to the lack of unity, the Maratha army was defeated. His victory in the Battle of Panipat led to the expansion of Muslim rule.

Apr 23, 20253 min

Ep 173प्रवचने शक्तिः

काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् । तथापि मम अनुभवः एव मम प्रवचनस्य मुख्या शक्तिः । अहं सरलानि तत्त्वानि एव निरूपयामि' । पण्डिताः तस्य वचनं श्रुत्वा समाहिताः अभवन् । सः संन्यासी अग्रे 'कबीरः' इति विख्यातः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the city of Kashi, there lived a monk who gave daily preachings. Thousands of people came to listen to his discourses. Once, some scholars came to listen to his preaching. They pointed out that his language contained many improper words. However, many people listened to him with devotion. When asked about the power of his preachings, the monk said, ‘It is true that my language is not excellent. However, my experience is the main strength of my preachings. I explain simple truths’. The scholars, hearing his words, were satisfied. This monk later became famous as 'Kabir’.

Apr 22, 20253 min

Ep 172मोहजालम्

मोहजाले पतितः प्राणी अविवेकपूर्णं निर्णयं करोति । मोहः जीवनस्य प्रगतिकर्तव्यायोः मार्गम् अवरुणद्धि । तादृशी स्थितिः एव अस्यां कथायां कस्यचित् वणिजः माधवस्य । यद्यपि सः श्रमशीलः निर्वञ्चनः परोपकारी च आसीत् मोहजालकारणेन स्वर्गप्राप्तिम् अपि बहुधा निराकरोति । सः विविधानि जन्मानि प्राप्य अपि विवेकस्तु न प्राप्तवान् । किमर्थम् ? कथम् ? इति इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A person trapped in the web of delusion makes irrational decisions. Delusion obstructs the path of life's progress and duty. Such is the situation in this story about a merchant named Madhava. Although he was hardworking, honest and benevolent, due to the web of delusion, he often rejected even the attainment of heaven. Despite experiencing various births, he never attained wisdom. Why? How? Listen to this interesting story to find out.

Apr 21, 20254 min

Ep 171चिरञ्जीविनः

अरण्यवासं कुर्वन्तं धर्मराजं चिरञ्जीवी इति विश्रुतः मार्कण्डेयमहर्षिः धर्मं बोधयन् आसीत् । 'भवादृशः अन्यः चिरञ्जीवी अस्ति वा?’ इति पृष्टे महर्षिः इन्द्रद्युम्ननामकस्य राज्ञः वृत्तान्तं कथयति । सः दानशीलः धर्मपुरुषः राजर्षिः च आसीत् । तेन सहस्रं यज्ञाः कृताः । दानरूपेण प्रदत्तां गवां खुरन्यासैः भूमिः सरोवररूपेण परिणता जाता । बहूनां प्राणिनाम् आश्रयदाता अभवत् । 'राजा इन्द्रद्युम्नः मत्तः श्रेष्ठः । अस्माकं कीर्तिः भूलोके यावत् स्मर्यते तावत् वयं स्वर्गवासम् अनुभोक्तुं शक्नुमः' इति मार्कण्डेयमहर्षिः धर्मराजम् उद्बोधितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During the exile in the forest, the immortal sage Markandeya was imparting the teachings of dharma to Dharmaraja. When asked, ‘Is there another immortal like you?’, the sage narrated the story of a king named Indradyumna. He was a charitable, righteous person and a royal sage. He performed a thousand yajnas. The land where cows were donated became a lake due to their hoof marks, providing refuge to many living beings. Markandeya Muni enlightened Dharmaraja, saying, ‘King Indradyumna is greater than me. As long as our fame is remembered in this world, we can experience the pleasures of heaven’.

Apr 20, 20254 min

Ep 170अङ्कुरः एव सारदर्शी

कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति । तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या । 'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् । शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् । एतत् श्रुत्वा यद्यपि अन्ये छात्राः परिहसन्ति । किन्तु अध्यापकः 'एषः सामान्यः बालकः न' इति निर्विण्णचेतस्कः अचिन्तयत् । सः एव महागणितज्ञः श्रीनिवासरामानुजमहाशयः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once in a classroom, the teacher was explaining to the students that when a number is divided by itself, the result is always one. At that time, a boy expressed a doubt about zero, saying, ‘When zero is multiplied, added, or subtracted by zero, the result is always zero, not one. It seems that the number zero has a peculiarity’. Upon hearing this, other students laughed. However, the teacher thought to himself, ‘This boy is not ordinary’. That boy later became the great mathematician Srinivasa Ramanujan.

Apr 19, 20253 min

Ep 169रत्नात् अपि मूल्यवत्

कदाचित् प्रतिदिनं पर्वतस्थं मन्दिरं प्रति गच्छान्त्या महिलया कश्चन मणिः प्राप्तः । आकर्षकम् उत्कृष्टं च तं मणिं स्वसमीपे स्थापितवती । अग्रे केनचित् बुभुक्षितेन पान्थेन भोजनम् अयाचत । भोजनस्वीकारेसमये तेन मणिः दृष्टः, मणिं याचितवान् । प्रतिवचनं किमपि उनुक्त्वा सा मणिः अयच्छत् । एतम् अमूल्यं मणिं सा महिला तृणाय अमन्यत । तस्याः त्यागशीलता नितरां श्रेष्ठा इति चिन्तयन् सः महिलायाः समीपं गत्वा 'तादृशाः गुणाः मयि अपि भवन्तु' इति आशीर्वादं अयाचत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a woman who visited a temple on the hill every day found a precious and attractive gem. She kept the gem with her. Later, a hungry traveler asked her for food. While accepting the food, he saw the gem and requested it from her. Without saying anything in response, she gave him the gem. She considered the priceless gem as a mere straw. The traveler, deeply moved by her selflessness, went back to her and asked for a blessing, saying, ‘May I also possess such qualities’.

Apr 18, 20253 min

Ep 168कटुवचनं न युक्तम्

कस्यचित् मठस्य व्यवस्थापकः कञ्चित् युवकं चन्दनस्य उद्घर्षणं क्रियताम् इति आदिशत् । प्रतिवचनं किमपि अनुक्त्वा सः उद्घर्षणं कुर्वन् रामनामजपम् अकरोत् । किञ्चित् कालानन्तरम् अज्ञाततया अग्निसूक्तपठनम् आरब्धम् । तावता चन्दनलेपः सिद्धः आसीत् । वेदज्ञाः तद् लिप्तवन्तः, किन्तु तेषां देहे तापः अभवत् । व्यवस्थापकः युवकं क्षमां प्रार्थितवान्, युवकः वरुणसूक्तम् अपठत् । ततः वेदज्ञाः शीतलताम् अनुभूतवन्तः । एषः युवकः 'राघवेन्द्राचार्यः' इति ख्यातः अभवत्।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The manager of a certain monastery instructed a young man to grind sandalwood. Without saying anything in response, he began the grinding while chanting the name of Lord Rama. After a while, he unknowingly started reciting the Agni Suktam. By the time the sandalwood paste was ready, the scholars who applied it felt heat on their bodies. The manager asked the young man for forgiveness and the young man recited the Varuna Suktam. Then, the scholars experienced a cooling effect. This young man became famous as 'Raghavendra Swami'.

Apr 17, 20253 min

Ep 167तल्लीनता

कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति । छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः महाराजं द्र्ष्टुं गतवन्तः । कक्ष्यायां केवलं एकः छात्रः गणितसमस्यायाः परिहारकार्यं कुर्वन् आसीत् । अध्यापकः तस्य निकटे गत्वा कारणं पृष्टवान्, तदा छात्रः 'गणितसूत्रसमस्यापरिहारे मग्नः अस्मि' इति प्रत्युत्तरं अयच्छत् । तस्य वचनं श्रुत्वा अध्यापकः महत् आश्चर्यं प्राप्नोत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain village, there was a school where the mathematics teacher gave a difficult problem to the students. Upon hearing the sound of drums outside the school, the teacher sent a student to find out what was happening. The student returned and informed that the king had arrived in the village. The other students, eager to see the king, sought permission from the teacher and went to see him. Only one student remained in the classroom, working on the math problem. The teacher approached him and asked for the reason. The student replied, ‘I am engrossed in solving the math problem’. Hearing this, the teacher was greatly astonished.

Apr 16, 20252 min

Ep 166आज्ञापालकः शिष्यः

समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् । अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः कूपे अपतत्। पतनसमये श्रीरामस्य स्मरणं अकरोत् । कूपे तु भगवान् श्रीरामः दृष्टः । अन्ये शिष्याः कूपे पतितं तं दृष्ट्वा रामदासं गृहीत्वा आगतवन्तः । सहपाठिभिः प्रेषितायाः रज्ज्वाः साहाय्येन उपरि आगतवन्तम् अम्बादासं आलिङ्ग्य अवदत् - 'वत्स! आज्ञपालकः शिष्यः भवान् । इतः परं भवतः नाम 'कल्याणः' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the gurukul of Samarth Ramdas, there was a disciple named Ambadas who had absolute dedication to his guru. Thus, Ramdas had special affection for him. However, the other disciples could not tolerate this. One day, Ramdas instructed Ambadas to cut a branch of a bilva tree. Following his guru's command, Ambadas climbed the tree to cut the branch. Due to his weight, the branch broke and he fell into a well. As he fell, he remembered Lord Shri Ram and saw Lord Shri Ram in the well. With the help of a rope sent by his companions, Ambadas came up and embraced Ramdas, who said, "Child, you are a disciple who follows orders. From now on, your name will be 'Kalyan'.

Apr 15, 20253 min

Ep 165परिवर्तनम्

अमरावतीनगरे कस्मिंश्चित् आश्रमे बहवः शिष्याः अध्ययनं कुर्वन्ति स्म । एकः शिष्यः चौर्याभ्यासे लिप्तः आसीत् । अन्यैः शिष्यैः सः द्विवारं चौर्यसमये गृहीतः । तदा सर्वे तं बहिष्कर्तुं गुरुं प्रार्थितवन्तः । किन्तु गुरुः तस्य बहिष्करणं न अनुमोदितवान् । 'एषः आश्रमात् बहिष्कृतः चेत् को वा एतम् आहूय विद्यां बोधयेत् ?’ इति अवदत् । एतानि वचनानि श्रुत्वा चोरशिष्यस्य मनः परिवृत्तम् । सः गुरोः पादौ गृहीत्वा अश्रुधारया क्षालितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the city of Amaravati, there was an ashram where many disciples studied. One of the disciples was involved in theft. He was caught stealing twice by the other disciples. They all requested the guru to expel him from the ashram. However, the guru did not approve of his expulsion. He said, "If he is expelled from the ashram, who will call him and teach him?" Hearing these words, the thief disciple's mind changed and held the guru's feet.

Apr 14, 20254 min

Ep 164भगवतः कार्ये हस्तक्षेपः

कश्चन कृषिकः महादेवभक्तः आसीत् । तस्य ज्येष्ठा पुत्री कृषिकाय, कनिष्ठा पुत्री कुम्भकाराय च दत्ता तेन । सः यदा ज्येष्ठपुत्र्याः गृहम् अगच्छत्, तदा पुत्र्या वृष्टेः प्रार्थनां कर्तुम् उक्तम् । तदनन्तरं सः कनिष्ठपुत्र्याः गृहम् गतवान् । कनिष्ठा तु पितरं वृष्टिः न भवेत् इति प्रार्थनां कर्तुं प्रार्थयति । तयोः अपेक्षयोः परस्परविरोधे सति सः कृषिकः गुरोः समीपं गत्वा मार्गम् अपृच्छत् । गुरुः तं लोकहितं मनसि निधाय प्रार्थनां कर्तुम् उपदिष्टवान् । ततः सः कृषिकः निष्कल्मषबुद्धया भगवन्तम् उद्दिश्य प्रार्थनां कृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once there was a farmer who was a devotee of Lord Mahadev. He had given his elder daughter in marriage to a farmer, and his younger daughter to a potter. When he visited his elder daughter, she requested him to pray for rain. Later, when he visited his younger daughter, she requested him to pray that it does not rain. Faced with these contradictory requests, the farmer sought the advice of his Guru. The Guru, considering the welfare of everyone, instructed him to pray with a pure heart to the Lord. Following this advice, the farmer prayed to the Lord with a clear conscience.

Apr 13, 20253 min

Ep 163योग्यः उत्तराधिकारी

कस्यचित् राज्यस्य महाराजस्य त्रयः पुत्राः आसन् । तेषु कस्मै देयम् इति प्रश्ने मन्त्रिणा सूचितं यत् अपत्यानि परीक्षितव्यानि इति । अपरस्मिन् दिने पुत्रान् आहूय शतं रूप्यकाणि दत्त्वा सायङ्कालाभ्यन्तरे स्वप्रासादः पूरणीयः इति अवदत् राजा । प्रथमः पुत्रः, तैः रूप्यकैः इष्टानि वस्तूनि क्रीतवान् । द्वितीयः पुत्रः पितुः आज्ञा पालनीया एव इति धिया धूल्या प्रासादम् अपूरयत् । तृतीयः पुत्रः चतुरः आसीत् । सः केन प्रासादं पूरितवान् यत् दृष्ट्वा राजा सः एव राज्यस्य उत्तराधिकारी भवितुम् अर्हति इति निश्चिनोति ? इति सर्वं कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king of a certain kingdom had three sons. When the question of who should inherit the kingdom arose, the minister suggested that the sons should be tested. The next day, the king summoned his sons and gave each of them a hundred silver coins, instructing them to fill the royal palace by the evening. The first son bought various desirable items with the coins. The second son, thinking that the father's command must be obeyed, filled the palace with dust. The third son was clever. What did he fill the palace with that made the king decide that he was the one worthy of being the successor to the kingdom? Listen to the entire story to find out".

Apr 12, 20256 min

Ep 162सुहृदयः महाशयः

कश्चित् आजीविकाम् अन्विष्यन् ग्रामतः मुम्बापुरीम् आगत्य श्रमिकैः सम्मिल्य कस्याञ्चित् निर्माणशालायां कार्यं करोति स्म। स्वकीयधारणाय अपेक्षितं धनं स्वसमीपे संरक्ष्य शेषं ग्रामे निवसन्त्यै मात्रे प्रेषयति स्म । कदाचित् सः शतरूप्यकाणि मात्रे प्रेषयितुम् इच्छन् एकं संक्षिप्तं लखं विलिख्य रूप्यकैः सह पत्रम् एकस्मिन् पुटके निधाय गृहगमनाय लोकयानम् आरूढवान् । लेखेन आर्जितद्रव्येण च सहितं पुटकं केनापि चातुर्येण चोरितम् आसीत् । किन्तु यः तं धनं चोरितवान् सः पत्रं पठित्वा द्रुतहृदयः जातः । सप्तानां दिनानाम् अनन्तरं शतरूप्यकैः सह मातुः चिकित्सायै सहस्ररूप्यकाणि अपि प्रेषितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A man searching for a livelihood came to Mumbai from a village and started working in a construction site among laborers. He saved the money he needed for his expenses and sent the rest to his mother residing in the village. Once, wishing to send a hundred rupees to his mother, he wrote a brief letter and placed it with the money in a small pouch, then boarded a bus to go home. The pouch containing the letter and the earned money was cleverly stolen by someone. However, the thief's heart melted after reading the letter. Seven days later, in addition to sending a hundred rupees, the thief also sent a thousand rupees for the mother's treatment."

Apr 12, 20256 min

Ep 161सो Sपि अहमेव

गोस्वामी तुलसीदासः यदा जगन्नाथस्य दर्शनं कर्तुं गतवान् तदा तस्य हस्तपादविहीनां काष्ठमयीं मूर्तिं दृष्ट्वा निराशतां प्राप्तवान् । नीलाम्बुदश्यामरूपस्य देवस्य दर्शनम् इच्छन् भगवतः प्रार्थनायां निरतः जातः । दिनद्वयम् अन्नं जलं च विना तेन एवमेव विलपनं कृतम् । तावता कश्चित् बालकः जगन्नाथस्य प्रसादं तुलसीदासाय दत्त्वा - 'अहमेव रामः । जगन्नथरूपमपि ममैव' इति वदति । भक्त्या प्रसादं सेवित्वा अनन्तरदिने यदा पुनरपि मदिरं गतवान् तदा तेन जगन्नाथ-बलभद्र-सुभद्राणां स्थाने राम-लक्ष्मण-जानक्यः दृष्टाः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When Goswami Tulsidas went to see Lord Jagannath, he felt disheartened upon seeing the wooden idol without hands and feet. Desiring a vision of the dark-blue colored deity, he immersed himself in prayer. For two days, he remained in lamentation without food or water. Then, a boy gave him Jagannath's prasad and said, 'I am indeed Rama. The form of Jagannath is also mine.' Having partaken of the prasad with devotion, when Tulsidas went to the temple again the next day, he saw Rama, Lakshmana, and Sita in place of Jagannath, Balabhadra, and Subhadra."

Apr 12, 20254 min

Ep 160कर्तव्यपरायणता

कदाचित् पूणास्थेन केनचित् विद्यालयेन महादेवगोविन्दरानडेवर्यः मुख्यातिथित्वेन निमन्त्रितः आसीत् । जनसम्मर्दस्य निवारणाय कार्यक्रमे निमन्त्रणपत्रेण सह आगतवतामेव प्रवेशः इति निश्चितम् आसीत् । तस्याः व्यवस्थायाः निर्वहणाय नियुक्तः कश्चन स्वयंसेवकः रानडेवर्यम् अपि विना आमन्त्रणपत्रम् अन्तः प्रवेष्टुम् न अनुमतवान् । तावता कश्चन व्यवस्थापकः कुतश्चित् पत्रमेकं रानडेवर्यस्य हस्ते स्थापितवान् । तस्य स्वयंसेवकस्य कर्तव्यनिष्ठाम् अभिनन्दन् तस्य स्कन्धे हस्तं स्थापितवान् रानडेवर्यः।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This story beautifully illustrates the principles of duty and respect. Once, Mahadev Govind Ranade was invited as the chief guest by a school in Pune. To avoid overcrowding, it was decided that only those who had an invitation card would be allowed to enter the event. A volunteer appointed to manage this arrangement did not allow Ranade to enter without an invitation card. Meanwhile, an organizer placed an invitation card in Ranade's hand from somewhere. Appreciating the volunteer's sense of duty, Ranade placed his hand on the volunteer's shoulder in commendation."

Apr 12, 20253 min