
बालमोदिनी
559 episodes — Page 10 of 12

Ep 108अहो गतिः कष्टदेयम् !
कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । कार्यसमाप्तेः अनन्तरं राज्ञी तान् अहूय वदति – ‘स्वशक्त्यनुगुणं किमपि कृत्वा जीवन्तु भवन्तः' इति । चत्वारः अपि लज्जया शिरः अवनमय्य ग्रामं प्रति गतवन्तः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A storyteller father passed away, leaving his four uneducated sons. The king arranged for them to narrate a story, but upon seeing the royal court, the brothers lost their courage and spoke only one sentence each. The wise queen defended them by explaining their words. Afterward, she advised them, ‘Live according to your abilities". Embarrassed, the brothers returned to their village.

Ep 107अनुल्लङ्घयाः न्यायनियमाः
कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्यायनियमानाम् उल्लङ्घनं केनापि कर्तुं न शक्यते' इति अवदत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a young prince ordered the judge to release his companion from imprisonment. After several arguments in the court, the prince was punished by the court with a one-day imprisonment for showing disrespect, disrupting the proceedings, and displaying arrogance. The king then said, 'In a kingdom where fearless and impartial judges exist, the people live in happiness. No one can violate the laws of justice'.

Ep 106मैत्र्याः सीमा
पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं मारितवान् । राजकुमारः एव स्वशावकं मारितवान् इति विचिन्त्य सा चटका चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती । स्वपुत्रस्य राजकुमारस्य दोषं ज्ञात्वा यद्यपि सः राजा चटकायाः अपराधं क्षान्तवान् तथापि परस्परविरोधः यत्र स्यात् तत्र वासः अनुचितः इति मत्वा चटका देशान्तरं गन्तुम् इष्टवती ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Devadatta, who understood bird language, would converse with a sparrow in his palace garden. One day, the prince killed the sparrow's chick in anger. In revenge, the sparrow caused the prince to lose his eyesight. Although the king forgave the sparrow, the sparrow felt it was inappropriate to live in a place of mutual conflict and decided it was best for her to leave the kingdom.

Ep 105भवेत् को मुक्तिदायकः ?
बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् । सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः कथम् अन्यं मोचयितुं शक्नुयात्' इति केनचित् प्रयोगेण प्रतिपादयति । लज्जितः खिन्नः सः पण्डितः आत्मानं बन्धमुक्तं कर्तुं साधनां प्रारभत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)For many years, a scholar would narrate teachings to the king for an entire hour each day. However, the king's anger and other negative traits remained unchanged, and he could not gain self-control. Troubled by this, the scholar went to a wise person and shared his distress. The wise person went to the palace and through an example explained the importance of self-liberation. Realizing this, the scholar felt ashamed and began working on freeing himself from these attachments.

Ep 104नक्षत्रेषु दृष्टिः
षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभिजानीहि' इति वदति । गच्छता कालेन नक्षत्रवीक्षणं तस्य स्वभावः जातः । प्रौढत्वे प्राप्ते नक्षत्रवीक्षणाय सः एकं दूरवीक्षकं सज्जिकृत्य नक्षत्राणां ग्रहाणां च गतेः अध्ययनम् आरब्धवान् । कालान्तरे सः 'श्रेष्ठः खगोलविज्ञानी' जातः । तस्य नाम गेलिलियो इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In 16th-century Italy, a young boy asked his grandmother to show him his mother, who had passed away. One day, the grandmother took him outside and said, "Your mother is now among the countless stars in the sky. You will understand this as you grow." The boy became interested in stars, and as he grew, he built a telescope to study the stars and planets. Eventually, he became known as the famous astronomer, Galileo.

Ep 103दानम्
कदाचित् केनचित् राज्ञा दत्तानि दुकूलवस्त्राणि गुरुः भिक्षुकं निर्गतिकावस्थायां दृष्ट्वा तस्मै अयच्छत् । अग्रे कदाचित् राज्ञा दत्तं सुवर्णकङ्कणं पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवते राजास्थानस्य उद्योगिने अयच्छत् । एतत् ज्ञात्वा राजा एवं किमर्थं कृतवान् इति गुरुं पृच्छति । गुरुः वदति - ‘दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागः । कृतस्य दानस्य विषये पृच्छन् अस्ति इत्यतः दानफलं न प्राप्स्यति' । गुरोः वचोभिः स्वदोषं विज्ञाय राजा गुरुं क्षमां प्रार्थयत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, the king gave silk clothes as a present to his Guru. The Guru, seeing a beggar in need, gave the clothes to him. Later, the king gave a gold bangle to the Guru, but the Guru gave it to one of the king’s royal servants who was facing difficulties for his daughter’s wedding. When the king learned of this, he asked the Guru why he had acted this way. The Guru replied, ‘To give is to completely give up ownership of what is given. If you ask about a donation, you won't receive its full benefit’. Understanding his mistake, the king apologized to the teacher.

Ep 102महामेधावी
जर्मन्देशीयः महाभौतविज्ञानी 'कार्ल् फेडरिक् गास्' बाल्ये कदाचित् मुख्योपाध्यायेन दत्तस्य प्रश्नस्य उत्तरं निमेषद्वयाभ्यन्तरे ददाति । प्रश्नः आसीत् - ‘एकतः शतपर्यन्तं लिखित्वा सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः' इति । कथम् उत्तरं प्राप्तवान् इति पृष्टे फेडरिक् वदति - ‘आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तरं तृतीयायाः अन्त्यात् पूर्वस्याः पूर्वस्याः च योजनं कृतम् । एतस्मात् प्राप्तानां पञ्चाशत् युगलानां सङ्कलनं १०१ X ५० = ५०५० । एतत् सर्वं मया मनसि एव कृतम्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The German scientist Carl Friedrich Gauss, as a child, once answered a question from his teacher in just two minutes. The question was - ‘Write the numbers from one to a hundred and find their sum’. When asked how he found the answer, Gauss said, ‘First, I paired the first and last numbers (1+100), then the second and second last (2+99), and so on. This gave me 50 pairs, each summing to 101. So, 50 × 101 = 5050. I did all this mentally’.

Ep 101विचिन्त्य उपदेष्टव्यम्
महावीरः नाम नरपतिः गान्धारदेशं पालयति स्म । विवेकिभिः उच्यते - ‘कालम् अवेक्ष्य एव नृपजनान् हितम् अहितं वा उपदेष्टव्यम् । अन्यथा उपदेष्टॄणाम् एव अपायः सम्भवेत्' इति । तत् सत्यम् इति अनया कथया ज्ञायते । को वा नृपम् उपदिष्टवान् ? उपदेशानन्तरं किं प्राचलत् इत्यादयः विषयाः अस्यां कुतूहलकारिकथायां विद्यन्ते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Mahavir ruled the land of Gandhara. The wise say, "A king should only be advised at the right time, or it may lead to harm for the advisors themselves." This is indeed true, as the story reveals. Who gave this advice to the king? What happened after the advice was given? These are some of the intriguing questions in the story.

Ep 100सर्वश्रेष्ठा गुरुदक्षिणा
कस्मिंश्चित् गुरुकुले गुरुदक्षिणारूपेण किं देयम् इति यदा विद्यार्थिनः गुरुं पृच्छन्ति तदा गुरु वदति - यत् अधीतं तस्य सम्यक् अनुष्ठानं क्रियताम् । स्वावलम्बितया जीवनं कृत्वा वर्षाभ्यन्तरे यत् सम्पाद्येत तत्र कश्चन भागः दीयताम्' । विद्यार्थिनः तथैव कुर्वन्ति । कदाचित् कश्चित् तेजस्वी बालः वर्षाभ्यन्तरे प्रत्यागत्य दश बालान् आनीय - 'यथाशक्ति मया पाठयित्वा एताः भवच्छिष्यार्हताः कृताः। इतः परं भवान् एतान् अध्याप्य सन्मार्गगामिनः कुर्यात्' इत्युक्त्वा गुरुदक्षिणारूपेण अर्पयति। एतया सर्वश्रेष्ठगुरुदक्षिणया सन्तुष्टः गुरुः तं बालं सर्वषु शिष्येषु श्रेठः अस्ति भवान् इति वदति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, when students asked their guru what to give as guru dakshina, the guru said, ‘Practice what you've learned, earn through your own efforts, and give part of it as guru dakshina after a year’ and the students did the same. After a year, a bright student returned with ten others, saying, ‘I have taught them as best as I could. Now, you guide them’ and offered this as his guru dakshina. The guru, pleased, said, ‘You are the best among all my students’.

Ep 99मार्गोपदेशः
कदाचित् बुद्धस्य प्रवचनं श्रोतुं वैशालीतः कश्चित् वणिक आगतः । तस्य मनसि सुमुत्पन्नं प्रश्नं बुद्धं प्रति निवेदयति यत् प्रतिदिनं निर्वाणप्राप्तिविषयं श्रोतुं बहवः जनाः आगच्छन्ति किन्तु तेषु कति जनाः निर्वाणमार्गानुयायिनः स्युः इति । तदा बुद्धः उत्तरं ददाति - ‘उपदेशः मम कर्तव्यं, तत् श्रद्धया करोमि । निर्वाणस्य प्राप्तिः अप्राप्तिः वा तत्तस्य प्रयत्नं विकासं च अवलम्बते' । अग्रे किञ्चित् सुन्दरम् उदाहरणं स्वीकृत्य बुद्धः वणिजम् अवगमयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a merchant from Vaishali came to listen to the Buddha’s teachings. He asks a question to Buddha: ‘Every day many people come to listen to teachings about attaining Nirvana, but how many of them actually follow the path to Nirvana?’ Buddha replied, ‘It is my duty to give teachings, and I do so with faith. Whether one attains Nirvana or not depends on their own efforts and progress’. Then, the Buddha gave a beautiful example to help the merchant understand better.

Ep 98विदुषी द्रवमयी
पूर्वम् असमराज्ये चण्डीचरणतर्कालङ्कारः नाम विद्वान् स्वगृहे एव छात्रान् अध्यापयति स्म । बाल्ये एव पतिविहीना जाता पुत्री द्रवमयी पितुः गृहम् आश्रित्य संस्कृताध्ययने प्रवृत्ता, अल्पे एव काले अपूर्वं पाण्डित्यं प्राप्तवती च । कालान्तरे वार्धक्यस्य अस्वास्थ्यस्य च कारणतः पिता गुरुकुलस्य पिधानं चिन्तितवान् । किन्तु द्रवमयी तत् निराकृत्य स्वयमेव अध्यापनम् आरब्धवती । सा तत् उत्तरदायित्वं सम्यक् एव निरुह्य गुरुकुलस्य गौरवं वर्धितवती ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Assam, a scholar named Chandicharan Tarkalankar used to teach his students at his home. His daughter, Dravamayi, who was widowed early in life, came to live in her father's house. She began studying Sanskrit, and within a short time, she gained exceptional knowledge. Later, due to her father's old age and poor health, he thought of closing the school. However, the girl rejected this idea and decided to take up teaching herself. She took on the responsibility and successfully increased the reputation of the school.

Ep 126राज्ञी मालादेवी
दक्षिणभारतस्य बळ्ळारिसंस्थानं शिवराजसैन्यं स्वाधीनम् यदा अकरोत् तदा बळ्ळारिसंस्थानस्य राज्ञी मालादेवी शिवराजस्य पुरतः उपस्थापिता सती पराधीनजीवनं निराकृत्य मरणदण्डनं याचितवती । तदा शिवराजः तस्यां मातृत्वं दृष्वा अज्ञानात् यत् आक्रमणं कृतं तदर्थं क्षमाम् अयाचत । बळ्ळारिसंस्थानं च स्वतन्त्रम् अकरोत् च । शिवराजस्य औदार्यस्य विनयस्य च दर्शनात् मालादेव्याः हृदयं भावनिर्भरं जातम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Shivaji’s army attacked Ballari and defeated them. When Queen Maladevi of Ballari was brought before Shivaji, she refused to live under someone else's control and pleaded for a death sentence. Seeing her as a mother, Shivaji, realizing that the attack had been due to ignorance, sought forgiveness. He also granted independence to the Ballari region. Witnessing Shivaji's generosity and humility, Maladevi’s heart was filled with deep emotion.

Ep 97शिवविष्ण्वोः अभेदः
भगवद्भक्तः नरहरिः पण्ढरपुरे स्थितस्य सुवर्णकारस्य चाङ्गदेवस्य पुत्रः यः शिवपूजां श्रद्धया करोति स्म । शिवभक्तेः अतिरेकात् सः कदापि विठ्ठलमन्दिरं न गतवान् । कदाचित् कश्चित् धनिकः पुत्रप्राप्तेः अनन्तरं विठ्ठलाय सुवर्णकटिसूत्रं अर्पणीयमिति विचिन्त्य तत्कार्यं नरहरये अर्पितवान् । एतावत्पर्यन्तं विठ्ठलं न दृष्टवान् नरहरिः कटिसूत्रनिर्माणकार्ये सफलः भवति वा ? शिवविष्ण्वोः अभेदः तेन ज्ञायते वा इति कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Narahari, the son of the goldsmith Changadeva in Pandharpur, was a devoted worshiper of Lord Shiva and never visited the Vittal temple. One day, a wealthy man, after the birth of his son, decided to offer a gold waistband to Lord Vittal. He thought of Narahari for this task and gave him the work. Until then, Narahari had never seen Vittal. Will Narahari succeed in making the waistband for Vittal? Does this story reveal the oneness of Shiva and Vishnu? Listen to the story to find out.

Ep 96अपरीग्रहशीलता
'राजतरङ्गिणी' इत्यस्य श्रेष्ठस्य ग्रन्थस्य निर्माता काश्मीरदेशीयः कविः कल्हणः सर्वत्र ख्यातः किन्तु सः एकस्मिन् सामान्ये कुटीरे वसति स्म । कदाचित् उज्जयिनीतः आगतः पण्डितगणः कवेः वसतिविषयं दृष्ट्वा राज्ञः पुरतः स्वस्य असन्तोषं प्राकटयत् । राज्ञः अनुरोधेनापि सः कविः कस्यापि वस्तुनः स्वीकारं न अङ्गीकरोति इति पण्डिताः ज्ञातवन्तः । पण्डिताः यदा राज्ञा दत्तां सामग्रीं कवये अयच्छन् तदा कुपितः कविः राज्यत्यागं कर्तुम् ऐच्छत् । तदा पण्डिताः कवेः अपरिग्रहशीलतां दृष्ट्वा क्षमां अयाचन्त ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Kalhana, the famous author of the great work Rajatarangini, was a poet from Kashmir. However, he lived in a simple hut. Once, a group of scholars who had come from Ujjain saw his humble dwelling and expressed their displeasure before the king. Despite the king's request, the poet refused to accept any gifts from anyone. When the scholars gave him some items on the king's behalf, the poet, angered by their actions, decided to leave the kingdom. The scholars, seeing his refusal to accept gifts, asked for his forgiveness.

Ep 95कीदृशी उदारता
स्वातन्त्र्यसङ्ग्रामकाले यदा गान्धिवर्यः धनसङ्ग्रहणं कुर्वन्नासीत् तदा काचित् निर्धना जीर्णशीर्णावस्थायुक्ता वृद्धा गान्धिवर्यम् उपसर्प्य भक्त्या नमस्कृत्य कटिस्थेन जीर्णवसनेन ग्रन्थीकृत्य संरक्षिताम् एकां कपर्दिकां निष्कास्य तस्य पादयोः समीपे संस्थाप्य ततः निर्गता । यदा श्रेष्ठिवर्यः श्री जमनालालः गणनायां लेखितुं कपर्दिकाम् अयाचत तदा गान्धिवर्यः तां न अयच्छत् । किमर्थम् ? तस्याः कपर्दिकायाः विशेषः कः ? एतत् सर्वं कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During the freedom struggle, when Gandhiji was collecting money, a poor, elderly woman approached him. With great devotion, she bowed down, took a coin wrapped in her old cloth, and placed it near Gandhiji's feet before leaving. Later, when Jamnalalji asked the coin to write down the account, Gandhiji refused to give it. Why did he refuse? What was special about the coin? You will learn the answer after hearing the story.

Ep 94सज्जनसङ्गः श्रीगन्धः इव
शय्याम् आश्रितवान् कश्चन वृद्धः स्वपुत्रं प्रति कानिचन मार्गदर्शकवाक्यानि वदति । यथा सात्त्विकं जीवनं करणीयं, पापकार्याणि न करणीयानि, सज्जनसङ्गः करणीयः, दुर्जनसङ्गः परिहरणीयः इत्यादीनि । विषयं स्पष्टतया अवगमयितुं सः वृद्धः श्रीगन्धचूर्णं अङ्गारचूर्णं च आनाय्य प्रयोगमेकम् कारयति । केवलस्य बोधनस्य अपेक्षया कदाचित् प्रयोगेण विषयस्य अवगमनं शीघ्रं सम्यक् च भवति । तद्बोधिका कथा एषा ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)An old man offers some advice to his son. He tells him to live a righteous life, avoid sinful actions, seek the company of good people and stay away from bad company. To make his lesson clearer, the old man asks to bring sandalwood powder and charcoal powder and uses them in a practical demonstration. Rather than simply explaining, he shows how the lesson is quickly and effectively understood through experience. This story illustrates the importance of learning through practice.

Ep 93भक्तस्य प्रेम
हजरतनिजामुद्दीनस्य समीपं कश्चन निर्धनः आगत्य पुत्र्याः विवाहार्थं साहाय्यम् अयाचत । दिनद्वयानन्तरं हजरतः तस्मै निर्धनाय स्वीयां पादुकां अयच्छत् । निराशः सन् यदा सः निर्धनः हजरतभक्तेन अमीरखुसरेण मार्गमध्ये प्राप्तः तदा अमीरखुसरेण कस्माच्चित् स्थानात् सुगन्धः अनुभूतः । सः सुगन्धः हजरतस्य पादुकातः आगच्छति इति ज्ञाते अमीरखुसरः स्वीयान् उष्ट्रान् प्रभूतं धनं च निर्धनाय दत्तवान् । सः निर्धनः अमीरखुसराय धन्यवादान् समर्प्य ततः निर्गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A poor man went to Hazrat Nizamuddin and asked for help for his daughter's marriage. Two days later, Hazrat gave him his own sandals. Feeling disappointed, the poor man met Hazrat's devotee, Amir Khusro, on the way. Amir Khusro noticed a pleasant fragrance coming from somewhere. When he realized it was from Hazrat's sandals, he gave the poor man camels and a lot of money. The poor man thanked Amir Khusro and left.

Ep 92जिह्वालम्पटः साधुः
कस्यचन साधोः तपस्यायाः ख्यातिः देवलोके प्रसृता । स्वर्गे देवानां मध्ये अपि चर्चा आरब्धा । कथञ्चित् तस्य तपसः भङ्गः करणीयः इति कश्चन देवः पृथिवीं प्रति समागत्य साधोः व्यवहारं सुसूक्ष्मं परीक्षितवान् । उपायं कृत्वा अल्पे एव काले तस्य साधोः तपोभ्रष्टतां सम्पादितवान् । कथम् इति स्वारस्यकारिणीं कथां श्रुत्वा ज्ञास्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, the fame of a certain sage's penance spread in the heavens. A discussion began among the gods in heaven. To break his penance, one of the gods descended to earth and observed the sage's conduct very carefully. After devising a plan, he managed to cause the sage's penance to be broken in a short time. How this happened, we will learn by hearing the story.

Ep 91तपश्शक्तिः पण्डितस्य
यवनाः यदा काशीविश्वेश्वरमन्दिरस्य नाशं कृतवन्तः तदा तस्मिन्नेव वर्षे तत्परिसरे क्षामः समुत्पन्नः । 'क्षामस्य कारणं किम् ? ' इति यवनैः पृष्टे तेजःसम्पन्नः महात्मा नारायणभट्टः वदति यत् भगवतः विश्वेस्वरस्य कोपः एव कारणम् अपि च मन्दिरस्य पुनर्निर्माणेन वृष्टिः भवेत् इति । 'स्वप्रभावेण आदौ वृष्टिः अनीयताम् ' इति यदा यवनाः कुप्यन्ति तदा नारायणभट्टः प्रायोपवेशनव्रतं आरब्धवान् सुवृष्टिः च आगता । महत् आश्चर्यम् अनुभवन्तः यवनाः विश्वेश्वरमन्दिरं निर्मितवन्तः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When the Mughals destroyed the Kashi Vishwanath temple, a drought occurred in the same year. When the Mughals asked the reason for the drought, the wise and powerful Narayan Bhat explained that it was due to the anger of Lord Vishwanath. He also said that the temple would be rebuilt and with it, rain would come. When the Mughals angrily challenged him, asking if he would bring rain himself, they agreed to rebuild the temple. Narayan Bhat then began a fast, and soon after, heavy rain arrived. Amazed by this, the Mughals rebuilt the Kashi Vishwanath temple.

Ep 90वाचः व्रणः
कस्यचित् सरोवरस्य समीपे उपविष्टवन्तं चिन्ताग्रस्तं निर्धनं रामदीनं कश्चन सिंहः प्रभूतं धनं यच्छन् पुत्र्याः विवाहाय मामपि निमन्त्रयतु इति वदति । विवाहदिने सिंहः उपस्थितः । गृहपरिसरे कमपि दुर्गन्धम् अनुभूय वरपक्षीयाः तस्य कारणं अपृच्छन् तदा 'गृहे कश्चन मूषकः मृतः स्यात्' इति रामदीनः वदति । अग्रे कदाचित् धनस्य आवश्यकताम् अनुभवतः रामदीनस्य साहाय्यं कर्तुं निराकृत्य सिंहः वदति - 'त्वं स्वपुत्रीविवाहदिने मां मृतः मूषकः इति उक्त्वा अपमानं कृतवान् । शास्त्राघातचिन्हं तु समयेन गच्छति किन्तु वाचः आघातस्य व्रणः कदापि अपगतः न भवति' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A poor and worried man named Ramadeen was sitting near a lake when a lion offered him money for his daughter's wedding and asked to be invited. On the wedding day, the lion arrived. When the groom's family noticed a bad smell, Ramadeen explained, "A mouse has died in the house." Later, when the lion needed more money, Ramadeen refused to help. The lion said, "You insulted me by calling me a dead mouse at your daughter's wedding. Physical wounds heal with time, but the harm from words never goes away".

Ep 89नमः अमृतादेव्यै ! !
१८३० तमे वर्षे राजस्थाने जोधपुरे प्रवृत्ता घटना एषा । अद्यापि राजस्थाने बहुत्र भाद्रपदशुक्लदशम्याम् अमृतदेव्याः वीरगाथा पठ्यते गीयते च । भारतसर्वकारस्य अरण्यपरिसररक्षणविभागेन श्रेठाय परिसरसंरक्षकाय 'अमृतदेवीप्रशस्तिः' दीयते । का सा अमृतदेवी ? किं कार्यं च कृतवती इति अस्यां कथायां विद्यते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This event took place in 1830 in Jodhpur, Rajasthan. Even today, in Rajasthan, the story of Amrita Devi's bravery is read and sung on the tenth day of the Bhadrapada month. The Forest Conservation Department of the Government of India awards the 'Amrita Devi Award' to the best forest protector. Who was Amrita Devi? What did she do? This story explains it.

Ep 88मन्दस्मितता कुतः न ?
कश्चन बौद्धाचार्यः बुद्धप्रतिमां कारयितुम् इच्छन् प्रत्येकं गृहतः धनसङ्ग्रहं कुर्वन्तु इति शिष्यान् आदिशति । धनसङ्ग्रहसमये काचित् बाला शिष्याय एकं रूप्यकं दातुम् इच्छति किन्तु सः उपेक्षया पश्यन् ततः गच्छति । शिल्पिभिः महता प्रयासेन निर्मितायाः मूर्तेः मुखे प्रसन्नता तु न दृष्टा । बौद्धगुरुः ज्ञातवान् यत् कश्चन शिष्यः निर्धनबालातः अल्पत्वात् एकं रूप्यकं न स्वीकृतवान् इति । बालातः रूप्यकनाणके स्वीकृते अल्पेन कालेन एव प्रतिमा प्रसन्नाकृतिः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A Buddhist teacher, wanting to make a Buddha statue, instructed his disciples to collect money from every household. While collecting money, a young girl wanted to give one rupee coin to a disciple, but he ignored her and left. Despite the great effort of the sculptors, the statue’s face did not show any happiness. The teacher later learned that one of the disciples had not accepted the silver coin from the poor girl because it was a small amount. After the coin was accepted from the girl, the statue's face became joyful in a short time.

Ep 87सङ्कल्पमात्रेण किम् ?
कस्मिंश्चित् गुरुकुले बहुधा स्मारितं चेदपि पञ्चषाः छात्राः तत्तदिनस्य पाठं तद्दिने एव न पठन्ति स्म । तथापि गुरुः तान् न अतर्जयत् । कदाचित् गुरुः नदीतीरे सञ्चरन् दर्शयति यत् त्रिषु मण्डूकेषु एकः जलं प्रति कूर्दनं करणीयम् इति सङ्कल्पमात्रं करोति न तु कूर्दनम् । यस्य सङ्कल्पः दृढः सः एव कार्ये प्रवृत्तः भवेत् । तत्तदिनस्य पाठं तत्तदिने एव पठित्वा तस्य मननं कुर्यात् । अनन्तरदिनतः ते शिष्याः अध्ययने श्रद्धां प्रदर्शितवन्तः प्रगतिं च साधितवन्तः।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)At a certain Gurukul, five students did not study properly. However, the Guru did not scold them. One day, while walking by the river, the Guru showed them that out of three frogs, one only thought about jumping into the water but never actually did it. The Guru explained that only when the intention is strong, does the action happen. He advised the students to study the lesson that day itself and reflect on it. From then on, the students became more serious about their studies and made progress.

Ep 86समयोचिता युक्तिः
कदाचित् मरुप्रदेशे कश्चन स्पेन्-देशीयः वञ्चनया भारतीयस्य अश्वं हृत्वा तम् आरुह्य वेगेन गतवान् । भारतीयः कथञ्चित् स्पेनीयस्य दुर्बलम् अश्वम् आरुह्य स्पेनीयम् अनुसरन् समीपवर्तिग्रामं प्राप्य तत्रत्य न्यायाधीशं दृष्ट्वा स्पेनीयस्य दुष्कृत्यं सर्वं निवेदितवान् । न्यायाधीशेन पृष्टे सः स्पेनीयः आरोपं निराकरोति । तावता चतुरेण भारतीयेन काचित् युक्तिः प्रदर्शिता स्पेनीयः असत्यवादी इति निरूपितं च । भारतीयस्य बुद्धिमत्तां चातुर्यं च दृष्ट्वा न्यायाध्यक्षः सहर्षं तं प्रशस्य अश्वं तस्मै अदापयत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a Spaniard stole an Indian's horse in the desert and rode away quickly. The Indian, riding a weaker horse, followed the Spaniard and reached a nearby village. There, he told the local judge about the Spaniard's crime. When the judge asked the Spaniard, he denied the accusation. However, the Indian cleverly showed that the Spaniard was lying. Impressed by the Indian's intelligence, the judge happily praised him and returned the horse.

Ep 85गुणैः एव शोभते जनः
कदाचित् सम्भाषणावसरे मगधदेशस्य राजा चन्द्रगुप्तः प्रधानामात्यं चाणक्यं दृष्ट्वा पृच्छति - ‘रूपमेव प्रशस्यते लोके । रूपवेषादिकं दृष्ट्वा एव खलु आदरम् अनादरं वा दर्शयन्ति जनाः ?’ । तदा चाणक्यः सुवर्णमृदोः घटे जलं संपूर्य आदौ सुवर्णघटस्य जलं राज्ञे ददाति यत् उष्णम् आसीत् । तावता राज्ञा अवगतं यत् सुन्दरे स्वर्णघटे अपि स्थितं जलम् उष्णम्, असुन्दरे मृद्घटे स्थितं जलं च शीतलम् । तथा जनाः गुणैः शोभन्ते न तु सौन्दर्येण इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, King Chandragupta of the Magadha kingdom asked his chief minister Chanakya, 'Why is beauty praised in the world? People show respect or disrespect based on appearance alone, don’t they?' Then, Chanakya filled a golden pot and a clay pot with water. He first gave the water from the golden pot to the king and then from the clay pot. The king understood that although both pots contained water, the water in the beautiful golden pot was warm, while the water in the plain clay pot was cool. Similarly, people are admired for their qualities, not just their outward beauty.

Ep 84आशयः तु इत्थम्
कदाचित् शिष्यः आनन्दः प्रसङ्गत्रयविषये वर्तमानां जिज्ञासां परिहर्तुं भगवन्तं बुद्धं पृच्छति - ‘भगवान् अस्ति इति कदाचित् वदति । भगवतः पूजा मास्तु इत्यपि वदति । भगवतः अस्तित्वस्य विषये यदा कश्चन शिष्यः प्रष्टुम् आगतः तदा भवान् किमपि उत्तरं न ददाति । किमर्थम् एवम् ?’ इति । तदा बुद्धः यथाक्रमं तस्य प्रश्नस्य उत्तरं यच्छति(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, disciple Anand, who was curious about three related matters, asked the Buddha to clear his doubts. He said, 'Lord, sometimes you say that God exists. At other times, you say that God should not be worshiped. When another disciple came to ask about the existence of God, you did not give any answer. Why is this?' Then, the Buddha, in due course, gave a response to his question.

Ep 83विलक्षणम् वाक्पाटवम्
कदाचित् बाबरः तेनालिरामस्य बुद्धेः परीक्षणार्थं स्वस्य आस्थानं प्रति तं निमन्त्रितवान् । विभिन्नैः कौतुकैः निजवार्ताभिश्च तत्रत्यान् सभासदः हासयितुं स असमर्थः अभवत् यतः बाबरेण आज्ञा कृता आसीत् यत् कोऽपि न हसेत् इति । एवमेव पञ्चदशदिनानि अतीतानि । किन्तु अन्ते तेनालिरामः तस्य वाक्पाटवं साधितवान् । कथम् इति इयं कथा कथयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Babur invited Tenalirama to his court to test his intelligence. Despite the various jokes and news from his homeland, Tenalirama was unable to make the court members laugh, as Babur had ordered that no one should laugh. Thus, fifteen days passed in this manner. However, in the end, Tenalirama managed to outwit the king. This is the story of how it happened.

Ep 82विचित्रोपकरणम्
पूर्वकाले यदा सर्वत्र दर्पणः व्यवाहारे न आसीत् तदा कदाचित् कण्णदासनामा कश्चित् वणिक् कुतश्चित् दर्पणम् एकं प्राप्तवान् । स्वस्यैव प्रतिबिम्बम् इति अज्ञात्वा कस्यचित् महापुरुषस्य भवेदिति विचिन्त्य सः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं दृष्ट्वा तं महापुरुषं नत्वा पेटिकायां स्थापयति स्म । पत्न्याः रोहिण्याः मनसि सन्देहे जाते कदाचित् कण्णदासस्य निर्गमनस्य अनन्तरं प्रकोष्ठं प्रविश्य दर्पणे महिलामुखं दृष्ट्वा, पतिः अन्यां सुन्दरीं कन्याम् अत्र स्थापितवान् इति मत्वा सा नितरां कुपिता । पतिपत्न्योः मध्ये कलहे जाते कश्चित् संन्यासी आगत्य स्वस्य मुण्डितं मस्तकं दृष्ट्वा तौ अवगमयति यत् एतत् प्रतिबिम्बप्रदर्शकं वस्तु इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Long ago, when mirrors were not commonly used, a merchant named Kannadasa found a mirror. Not knowing it was his own reflection, believing that it might be the reflection of some great person, he started bowing to it in his room with the door closed. His wife, Rohini, began to have doubts. One day, after Kannadasa left the room, she entered and saw the reflection of a woman's face in the mirror. Thinking her husband had placed another beautiful young woman there, she became extremely angry. A dispute arose between the husband and wife, and just then, a wandering sage arrived and explained to them that the object showing the reflection was simply a mirror.

Ep 81भक्तः कुलशेखरः
चेरराज्यस्य राजा ईश्वरभक्तः कुलशेखरः प्रतिदिनं हरिकथां श्रावयितुं कमपि पण्डितं स्वकीयप्रासादम् अनाययति स्म । एतत् अनिच्छन्तः राज्ञ्यः अमात्यः च मिलित्वा श्रीरामविग्रहस्थं हारं पण्डितस्य स्यूते स्थापयन्ति । कालसर्पदंशः एव दण्डः इति घोषयित्वा कालसर्पयुक्ते घटे यदा पण्डितः हस्तं निक्षेप्तुम् उद्युतः तावता राजा स्वयं हस्तं प्रवेशितवान् । विस्मयः नाम राज्ञः करस्पर्शनेन सर्पः स्वयं बहिः आगतवान् । न तु दष्टवान् । सः राजा अनन्तरकाले 'भक्तः कुलशेखरः' इति ख्यातः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Kulashekhara, the king of the Chera kingdom, a devotee of God and a noble person, would invite a scholar to his palace every day to listen to stories about the Lord. However, some of the king's ministers and queens, not wanting this, secretly placed Lord Shrirama’s idol's necklace in the scholar’s bag. They announced that the punishment for the scholar was to place his hand in a pot that contained a serpent. Just as the scholar tried to place his hand inside, the king himself placed his hand in the pot first. To everyone’s amazement, the serpent came out of the pot without biting the king. Later, the king became famous as Bhakta Kulashekhara.

Ep 80आहो, साहसम्
इङ्ग्लेण्ड्देशे केण्ट्नामकस्य प्रदेशस्य समुद्रतीरे महतः चण्डमारुतस्य कारणेन काचन बृहती नौका पीड्यमाना नुद्यमाना भग्नप्राया अभवत् । समुद्रतीरस्य जनसम्मर्दे केनचित् महनीयेन सह पालितः कश्चन बलशाली अप्रतिमशूरः धीरश्च शुनकः आसीत् । शुनकस्य स्वामी किञ्चित् चिन्तयित्वा नौकारक्षणाय एकम् उपायं कृत्वा शुनकं प्रेषयति । शुनकस्य साहाय्येन सर्वे नाविकाः तीरं प्राप्नुवन्ति । कथम् इति जिज्ञासया कथां शृणुमः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the country of England, at a place called Kent, a large ship was severely damaged and almost destroyed due to a great storm. On the shore, there was a powerful and brave dog. After thinking for a while, the dog's owner devised a plan to save the ship and sent the dog for help. With the dog's assistance, all the sailors were able to reach the shore safely. Now, we will hear the story of how this happened.

Ep 79कूपः कस्य ?
काचन वृद्धा गृहस्य पार्श्वे स्थितस्य कूपस्य जलम् आनीय दैनन्दिनकार्याणि निर्वर्तयति स्म । भैरवनामा कश्चन दुष्टः वृद्धायाः कूपः मदीयः इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान् । खिन्नया वृद्धया राज्ञि निवेदिते कथं राजा चातुर्येण न्यायनिर्णयं करोति इति शृणुमः । तेनैव राज्ञा रणजितसिंहेन अमृतसरसि सुवर्णालयः निर्मितः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)There was a well near an old woman’s house. She used the water from the well to carry out her daily tasks. A wicked man named Bhairav claimed that the well belonged to him and started using it. The troubled old woman informed the king, and we will listen to the story of how the king, with his wisdom, made a just decision. This is the king, Ranajit Singh, who built the Golden Temple at Amritsar.

Ep 78पठने आसक्तिः
भूतपूर्वराष्ट्रपतिः मान्यः के आर् नारायणन्वर्यः बाल्यकाले सर्वदा शालां प्रति विलम्बेन आगच्छति स्म यतः सः प्रतिदिनं मातुः साहाय्यं कृत्वा अष्ट कि.मी. दूरतः पादाभ्यामेव आगच्छति स्म । किन्तु पठने सः अन्ये छात्राः इव एव आसीत् । एकदा विलबेन आगतवन्तं तं अध्यापकः तर्जयित्वा कक्ष्यायां प्रवेष्टुं न अनुमतवान् । बालः म्लानमुखः सन् कक्ष्यातः बहिः तिष्ठन् कक्ष्यायां बोधितान् सर्वान् अंशान् पुस्तके लिखितवान् । एतत् दृष्ट्वा नितरां सन्तुष्टः अध्यापकः तस्य विलबस्य कारणं ज्ञात्वा दयार्द्रः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The former President, Shri K. R. Narayanan, was often late for school as a child because he helped his mother and walked 8 km to school. However, he was just like the other students in his studies. One day, when he was late, the teacher scolded him and didn’t let him enter the class. The boy, looking sad, stood outside and wrote down all the lessons in his book. Seeing this, the teacher, pleased with his dedication, became kind-hearted after learning the reason for his delay.

Ep 77कृष्णभक्तः रसखानः
कश्चन मुसल्मानः रसखानः गुरुणा सह मक्कामदीनायात्रार्थं प्रस्थिते मध्यमार्गे वृन्दावनं प्राप्तवान् । यमुनानद्याम् आसन्नायां सुमधुरः वेणुध्वनिः तस्य मनः पूर्णतः अहरत् । तत्र सुन्दरः वृन्दावनाधीशः दृष्टिगोचरतां गतः । पुनः अदृश्यः जातः च । पुनर्दर्शनार्थं रसखानः दिनत्रयं निराहारं श्रीकृष्णनाम्नः जपं कृतवान् । तृतीयदिने रात्रौ भगवान् स्वयमेव आगत्य नैवेद्यरूपेण अर्पितं क्षीरान्नं आनीय स्वहस्ताभ्यां तं भोजितवान् । अग्रिमेषु दिनेषु रसखानस्य कृष्णभक्तत्वं सर्वत्र ख्यातं जातम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A Muslim named Rasakhan, was traveling to Makkah along with his Guru. On the way, they reached Vrindavan. As they approached the Yamuna River, the sweet sound of a flute captured Rasakhan's heart. There, the beautiful Lord of Vrindavan appeared to him for a moment and disappeared. Wanting to see Him again, Rasakhan fasted for three days, chanting the name of Lord Krishna. On the third night, Lord Krishna appeared and fed Rasakhan with milk rice offered as naivedya. After that, Rasakhan's deep devotion to Lord Krishna became widely known.

Ep 76वेदप्रामाण्यम्
दार्शनिकः कुमारिलभट्टः कदाचित् बौद्धदार्शनिकेन धर्मकीर्तिना पराजितः । तदा कुमारिलभट्टेन निश्चितं यत् बौद्धसिद्धान्ते तलस्पर्शि पाण्डित्यं प्राप्य एते बौद्धाः जेतव्याः इति । अग्रे सः वेदानां श्रेष्ठतां सयुक्तिकं प्रतिपाद्य बौद्धमतस्य दौर्बल्यं सप्रमाणं निरूपितवान् च । कुपिताः बौद्धाः 'यदि वेदाः प्रमाणं स्युः तर्हि पर्वतशिखरात् कूर्दनं क्रियताम्' इति वदन्ति । कुमारिलभट्टः वेदमातरं क्षणं ध्यात्वा सधैर्यम् अधः कूर्दितवान् च । अग्रे किमिति कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Kumarila Bhattaa, a highly learned philosopher in the field of Vedanta, was once defeated in a debate by the Buddhist philosopher Dharmakirti. After this defeat, he decided to study Buddhist philosophy thoroughly and prove its weaknesses in order to defeat it. Later, Kumarila Bhatta established the authority of the Vedas and demonstrated the flaws in the Buddhist system. The angry Buddhists mocked him, saying, "If the Vedas are truly authoritative, then jump from the peak of a mountain." Kumarila Bhatta, reflecting on the Vedas for a moment, then jumped from the mountain. Listen to the story to find out what happened next.

Ep 75व्याघ्रायत
'उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै: । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ।।' - एतत् सुभाषितं बहु प्रसिद्धम् । काष्ठविक्रेतुः देवदत्तस्य स्वकार्ये प्रवृत्तिः कथं जाता इति बोधयन्ती इयं कथा एतस्य सुभाषितस्य उदाहरणं भवितुम् अर्हति इति पश्यामः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)We all know the famous saying, 'उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै: । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ।।' – 'Success is achieved through effort, not merely by wishful thinking.' This story illustrates how Devadatta, a wood seller, began to work with determination once again.

Ep 74कार्यसंस्कृतिः
कश्चन अमेरिकीयः घण्टामात्रं कार्यं कृत्वा घण्टाद्वयस्य निमित्तं वेतनं प्राप्तुं नेच्छति । खिन्नः सः यदा मित्रं वदति तदा 'तद्विषये संस्था चिन्तयतु, शिष्टं समयं सुखेन यापयतु' इति वदति । तदा अमेरिकीयः वदति - ‘तेन संस्थायाः हानिः भवति । तेन देशस्य अर्थस्थितेः हानिः भवति । अतः देशस्य उन्नतिः साधनीया चेत् देशस्थैः सर्वैः कार्यसंस्कृतिविषये अवधानवद्भिः भवितव्यम् एव’ इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A certain American did not wish to receive payment for two hours of work when he could finish it within an hour. Disturbed, he told this to a friend. His friend replied, 'Let the company worry about this, and you can spend the rest of the time comfortably.' The American then responded, 'This would result in the company's loss, which would, in turn, lead to a loss in the country's economy. Hence, everyone in the country must be mindful of the work ethic.

Ep 73देवदर्शनाय योग्यता
कदाचित् कश्चन राजा 'ईश्वरः कुत्र अस्ति' इत्यस्य प्रश्नस्य उत्तरं मासाभ्यन्तरे दातव्यम् इति सभायाम् आदिशति। चिन्ताक्रान्तेन मन्त्रिणा कश्चित् तीक्ष्णमतिः उत्तरं जानन् बालकः प्राप्तः । अनन्तरदिने राजस्थाने बालकः दर्शयति यत् कथं केवलेन दुग्धस्य आलोडनेन नवनीतं न भवति । आदौ क्षीरेण दधि करणीयम्, अनन्तरं दध्नः मथनात् नवनीतं प्राप्यते । तद्वदेव देवविषये अपि भक्तिं विना, त्यागतपस्यादिकं विना च भगवान् न् दृश्यते । तस्य दर्शनाय काचित् योग्यता सम्पादनीया इति । एतत् श्रुत्वा सुन्तुष्टः राजा तस्मै सहस्रं सुवर्णनाणकानि दत्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a king asked the question, "Where is God?" and said he needed the answer within a month. The worried minister, one day, met a smart boy who claimed he knew the answer. The next day, the boy showed that just churning milk does not produce butter. First, the milk must become curd, and then by churning the curd, butter is made. Similarly, without devotion, one cannot see God. The king, pleased with the answer, gave the boy a thousand coins.

Ep 72ऋणप्रत्यर्पणं कष्टाय
कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन्मनि एतस्मात् तिलकात् ऋणं स्वीकृतवन्तौ आस्ताम् । इह जन्मनि तैलपेषणीम् आवहन्तौ महता कष्टेन ऋणं प्रत्यर्पयन्तौ स्तः इति । अपरस्मिन् जन्मनि ऋणप्रत्यर्पणभारं वोढुं सर्वथा नेच्छन् सः वणिक्, भोजराजं सर्वं वृत्तान्तम् उक्त्वा, स्वीकृतं धनं प्रत्यर्पयत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A certain merchant, who had suffered a loss, took a large loan from King Bhoja, saying he would repay it as soon as possible in this lifetime and whatever remained in the next life. In the evening, while returning home, he stayed at an oil miller's house and overheard a conversation between an ox and a bull, as he could understand the language of animals. He learned that both the ox and the bull had taken a loan from the oil miller in their previous birth, and now, with great difficulty, they were repaying it. The merchant, not wanting to carry the burden of repaying the debt in the next life, returned the loan to the king the next day.

Ep 71वास्तविकाः साधवः
कदाचित् ऊर्ध्वपुण्ड्रधारिणः जटाभिः शोभमानाः दशमिताः विरागिसाधवः चिटिकां विना रेल्यानम् आरूढवन्तः । सर्वेSपि साधवः कारागारं प्रति नेयाः इति चिटिकानिरीक्षदलेन आरक्षिणः आदिष्टाः यतः तेषु असाधवः अपि आसन् केचन । आरक्षकनिरीक्षकः सर्वान् साधून् आहूय - 'ये त्रिपुण्ड्रम् अपसारयेयुः, ये कण्ठे धृतां रुद्राक्षमालां भञ्जयेयुः च तान् कारागारतः मोचयिष्यामः' इति वदति । अष्ट साधवः तथैव कृतवन्तः । किन्तु उभौ साधू तथा कर्तुं सहमतौ न जातौ । तेन ज्ञातं के साधवः असाधवः च इति । तौ द्वौ सधू मोचितौ, अष्ट साधवः बन्धिताः च ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, 10 sages wearing Urdhvapundra and Rudraksha boarded a train without tickets. Since they didn’t have tickets, they were all taken to jail. The inspector called all the sages and said, 'Those who can remove the Urdhvapundra and break the Rudraksha mala, I will release them from jail.' Eight of them agreed to do so. However, two of them did not agree. Thus, it was revealed who were virtuous and non-virtuous. The two virtuous sages were freed, while the eight were imprisoned.

Ep 70वस्त्रस्य उपयोगः
कदाचित् बुद्धस्य कस्यचन शिष्यस्य वस्त्राणि सर्वथा जीर्णानि जातानि इति कारणतः नूतनवस्त्राणि दाप्यतामिति प्रार्थितवान् । तेन नूतनवस्त्राणि लब्धानि च । नूतनवस्त्रधारिणं शिष्यं कांश्चन प्रश्नान् पृच्छति बुद्धः । यथाक्रमम् उत्तरमपि प्राप्य - 'मम तत्त्वानाम् आन्तर्यं सम्यक् एव गृहीतम् अस्ति भवता' इत्युक्त्वा निर्गच्छति । किं तत् प्रश्नोत्तरम् जिज्ञासया कथां शृण्वन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a disciple of the Buddha asked for new clothes since his clothes were completely worn out. He was provided with new clothes. The Buddha asked a few questions to the disciple, who was happy wearing the new clothes. After receiving the answers in turn, he said, 'You have understood the essence of my teachings correctly,' and then left. Let us hear the story to understand the conversation that took place between them.

Ep 69अल्लावुदीनस्य दीपः
कदाचित् कैश्चित् बालकैः अल्लावुदीनस्य दीपः प्राप्तः । ततः निर्गताय अल्लावुदीनाय द्वितीयतृतीयबालकौ स्वस्वकार्याणि कर्तुं आदिष्टवन्तः । अल्लावुदीनेन चतुर्थे बालके पृष्टे - देशस्य कृते कष्टग्रस्तानां कृते च साहाय्यं करोतु इति उत्तरम् आगतम् । प्रथमः बालकः - मम बुद्धेः उपयोगं करोमि । स्वप्रयत्नेन एव कार्याणि करिष्यामि इत्युक्तवान्। तद्श्रुत्वा द्वितीयतृतीयबालाकयोः बुद्धिपरिवर्तनं जातम् । तौ अपि तथैव उक्तवन्तौ ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a few children found the lamp of Allaudin. The second and third children asked Allaudin to do their respective tasks. When he asked the fourth child, the child replied, 'Help those who are suffering.' The first child said, 'I will use my knowledge. I will do my work through my own efforts.' Upon hearing this, the second and third children changed their thinking and said the same.

Ep 68आज्ञापालनस्य मर्म
ब्रह्मचैतन्यस्य श्रीगोन्दवलेकरमहाराजस्य वचनं कदापि वितथं न भवति इति जनानां विश्वासः आसीत् । एकदा, 'सत्वरं गोन्दवलेग्रामम् आगच्छतम्' इति सन्देशः पुण्यपत्तनस्थौ द्वौ अनुयायिनौ प्रति प्रेषितः । तौ प्रस्थितवन्तौ च । अनन्तरदिने एव 'रैण्डसाहेब' नाम्नः क्रूरकर्मणः आङ्ग्लेयस्य हननं पुण्यपत्तने जातम् । यदि तौ पुण्यपत्तने स्यातां तर्हि ताभ्यां महती विपत्तिः सम्मुखीकरणीया अभविष्यत् इति चिन्तयन्तौ तौ, दूरदर्शिनः महाराजस्य आज्ञायाः महत्त्वम् अवगतवन्तौ । कौ तौ अनुयायिनौ इति कथां श्रुत्वा ज्ञास्यामः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)People always believed that the words of Brahmachaitanya’s Shri Gondavlekar Maharaja were never false. Once, he sent a message to his two disciples residing in Punyapattana, saying, 'Hurry to the village of Gondavala.' They set out immediately. The next day, a cruel Englishman was killed in Punyapattana. Had the disciples been there, they would have faced great difficulty. After this, they realized the significance of Maharaj's foresight.

Ep 67राममन्दिरस्य अन्वेषणम्
आक्रामकेण बाबरेण नाशितस्य राममन्दिरस्य कथा एषा । कश्चन प्रतापी सम्राट् विक्रमादित्यः कदाचित् रामजन्मभूमिम् अन्वेष्टुं सरयूनदीतटस्य समीपे स्थिते घोरे अरण्ये अन्वेषणं कारितवान् । किन्तु, न प्राप्तम् । विषादेन वृक्षस्य अधः उपविष्टवता राज्ञा प्रयागराजः दृष्टः । प्रयागराजस्य कथनानुगुणं यत्र क्षीरं स्रावन्ती धेनुः दृष्टा तत्र भूमेः खननेन एकं मन्दिरं दृष्टिगोचरतां गतम् । तत्रैव यत् भव्यं मन्दिरं निर्मापितवान् तदेव राममन्दिरत्वेन ख्यातं जातम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This is the story of the Ram Mandir, which was destroyed by Babar. Once, a mighty ruler, Vikramaditya, thoroughly searched the dense forest situated on the banks of the Sarayu River in order to find the birthplace of Lord Rama, but he could not find it. The saddened king, sitting under a tree, saw Prayagraj. According to the legend of Prayagraj, an excavation of the land was carried out at a spot where a cow was seen pouring milk, and a temple was discovered. Later, the king built a magnificent temple, which came to be known as the Ram Mandir.

Ep 66स्नेहशिल्पम्
मित्रयोः मध्ये स्नेहः कथं भवेत् इति अनया कथया ज्ञायते । कदाचित् रामश्यामयोः मध्ये कलहे जाते, रामः श्यामं ताडितवान् । तदा श्यामः सिकतासु लिखितवान् - ‘अद्य मम प्रियवयस्यः मां ताडितवान्' इति । अन्यस्मिन् दिने जले निम्मज्जन्तं श्यामं यदा रामः रक्षितवान्, तदा श्यामः शिलाखण्डेन लिखति - ‘अद्य निमज्जन्तं मां मम प्रियवयस्यः रक्षितवान्' इति । किमर्थम् एकवारं सिकतासु, एकवारं शिलाखण्डेन लिखति इति पृष्टे श्यामः यत् अद्भुतम् उत्तरं ददाति तत् शृण्मः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The story teaches the value of true friendship. Once, when there was a fight between the friends, Rama and Shyam, Rama hit Shyam. Then, Shyam wrote in the sand: "Today my friend hit me." Another day, when Rama rescued Shyam from drowning, Shyam wrote on a stone: "Today my friend saved my life." We shall now listen to Shyam's reply when asked why he wrote in the sand once and on the stone another time.

Ep 65बलाबलपरीक्षा
कदाचित् सिंहः सिंही च वने भ्रमन्तौ वृषभमेकं दृष्टवन्तौ । सिंहः तं हन्तुम् इच्छन्, गर्वेण सिंह्याः पुरतः स्वस्य अङ्गानां प्रशंसनं कृत्वा हठात् आक्रम्य वृषभस्य कण्ठं त्रोटयित्वा तदीयं मांसम् अखादत् । अनतिदूरे शृगाल्या सह स्थितः कश्चन शृगालः प्रवृत्तं सर्वं दृष्ट्वा स्वस्य शौर्यं प्रदर्शयितुम् यदा उद्युक्तः, तदा वृषभः तं पादेन बलात् प्रहृत्य शृङ्गाभ्यां नितराम् अपीडयत् । अतः अनुकरणात् प्राक् अस्माकं बलं कियत् अस्ति इति विचिन्त्य प्रवर्तनीयम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, while a lion and lioness were roaming in the forest, they saw a bull. The lion, wanting to kill the bull and having praised himself in front of the lioness, attacked the bull and killed it. Not far away, a fox and a vixen saw this, and the fox also wanted to display his bravery. When he attacked the bull, the bull kicked him with its legs and injured him with its horns. Therefore, one must know one’s strength before imitating others.

Ep 64कर्मफलं कर्तारम् उपैति
कर्मफलं कर्तारम् उपैतिकर्ममीमांसायां पारङ्गताः दश पण्डिताः यदा ग्रामान्तरं गन्तुं उद्युक्ताः तदा मार्गमध्ये अशनियुक्ता महावृष्टिः आरब्धा । जन्मान्तरे कृतं पापमेव अशनिवृष्ट्यादिपीडायाः कारणं इति विचिन्त्य - 'एकैकः मण्डपात् बहिः गत्वा तिष्ठेत् । यः महापापी स्यात् तस्य उपरि अशनिः पतत्येव' इति तैः निश्चितम् । नवानां जनानां पर्यायः समाप्तश्चेदपि अशनिपातः न अभवत् । दशमः एव महापापी स्यात् इति विचिन्त्य तं यावता मण्डपात् बहिः प्रक्षिप्तवन्तः तावता महान् अशनिपातः मण्डपस्य उपरि अपतत्, नव पण्डिताः अपि मरणं प्राप्नुवनतः च ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Ten scholars, experts in the field of Karma Mimamsa, were on their way to another village when a heavy thunderstorm suddenly began in the middle of the forest. Believing that the suffering caused by the thunderstorm was the result of sins committed in past lives, they thought, "Let each of us step out of the shelter. The one who is the greatest sinner will have the thunderbolt strike him." When none of the nine scholars were affected by the thunderbolt, they concluded that the tenth must be the greatest sinner. Based on this conclusion, they made him step outside, and immediately a thunderbolt struck his shelter. The nine scholars, however, met with death.

Ep 63सङ्गात् सञ्जायते कामः
सङ्गः अपि विनाशस्य कारणं भवितुम् अर्हति इति अनया कथया ज्ञायते । आसीत् एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः यः सत्यवचनः परमकारुणिकः च । तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म । गच्छता कालेन तस्य आसुरीप्रवृत्तिः उद्भूता । कथं केनोपायेन च इन्द्रेण एतत् सम्पादितम् इति स्वारस्यकरीं कथां शृण्मः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)From this story, it is understood that attachment can also become a cause of destruction. There was a sage named Manasollasa in a certain forest area, who was truthful and extremely compassionate. In his ashrama, all the animals, forgetting their mutual enmity, played together joyfully. However, with time, his evil tendencies arose. Let us hear the story of how this was brought about, and how it was accomplished by Indra through some means, which led to his downfall.

Ep 62श्रेष्ठः उपकारः
अरिदमननामकस्य कस्यचन राज्ञः पञ्च पत्न्यः आसन् । तासु पञ्चम्यां तस्य अनादरः आसीत्। यतः सा निर्धनकुले जाता इति । कस्मिंश्चित् दिने मरणदण्डनं प्राप्तवान् चोरः एकं दिनं वा सन्तोषम् अनुभूय मरणं प्राप्नोतु इति राज्ञीभिः प्रार्थितम् । तथैव चतस्रः राज्ञ्यः सहस्राधिकं सुवर्णनाणकानि, उत्तमवस्त्राणि, उत्तम्भोजनादिकं चोराय अयच्छन् । किन्तु पञ्चमी राज्ञी सामान्यभोजनं दत्त्वा वदति - 'चौर्यं निन्द्यं कर्म । तत् परित्यज्यताम्' । चोरः तां भक्त्या प्रणम्य चौर्यत्यागं करोति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A certain king named Aridaman had five wives. He had less respect towards the fifth wife, as she was born into a poor family. One day, the queens requested the King that a thief who had been sentenced to death be allowed to experience one day of happiness before his death. In this way, the four queens gave him more than a thousand gold coins, fine clothes, and a luxurious meal. However, the fifth queen, offering him simple food, said, "Robbery is an unacceptable act. Abandon it." The thief, bowing to her with respect, gave up his life of crime.

Ep 61सद्विचारः कार्यः सदा
बाल्यादारभ्यः वयं सर्वे विजयनगरसाम्राज्यस्य प्रसिद्धशासकस्य कृष्णदेवरायस्य, तस्य सभायाः सदस्यस्य तेनालिरामस्य च कथां शृण्वन्तः स्म । कदाचित् नगरस्य विहारसमये कञ्चन तक्षकं दृष्ट्वा महाराजस्य मनः खिन्नम् । अपरस्मिन् दिने तमेव तक्षकं दृष्ट्वा महाराजः मुदितः । कथम् एतत् इति पृष्टे तेनालिरामः यत् समाधानं वदति तत् कथां श्रुत्वा जानीयाम ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)We all know the famous ruler of the Vijayanagara Empire, Krishnadevaraya, and the member of his court, Tenali Raman, and have been hearing their stories since our childhood. Here is another story. Once, while strolling around the city, the king saw a carpenter, which made him feel sad. On another day, when he saw the same carpenter, the king became joyful. When asked about this, Tenali Raman gave an explanation. Come, let’s hear the story and understand the reason.

Ep 60महात्मनां भूमिः एषा
अमेरिकीयः धर्मगुरुः रेवरेण्ड् आवरः, पुणेनगरपरिसरे स्थितान् निर्धननिरक्षरान् क्रिस्तमतीयान् अकरोत् ।अनेन हिन्दुधर्मग्रन्थानाम् अध्ययनम् अकृत्वा, वास्तवं स्वरूपम् अनवगत्य सर्वदा हिन्दुधर्मस्य निन्दा कृता । कश्चन पण्डितः वदति यत् - 'आदौ वास्तवस्वरूपम् अवगन्तुं प्रयासः स्यात्, ततः एव अवगुणाः प्रकाशनीयाः' इति । ततः सः हिन्दुधर्मस्य अध्ययनं कृत्वा संस्कृतं मराठीं च अधीत्य बहून् ग्रन्थान् आङ्ग्लभाषया अनूदितवान् । अपि च तदीयां सम्पत्तिः पुणेनगरस्थाय 'भारतीयेतिहाससंशोधनमण्डलाय' अर्पितवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The American religious leader Reverend Auer, in Pune, helped the poor and illiterate and used to convert them to Christianity. He consistently criticized Hinduism, even without reading the Hindu scriptures, and without understanding their true nature. A certain scholar once said, "First, one should try to understand the true essence, and only then should criticize." Therefore, after studying Hinduism, he learned Sanskrit and Marathi and translated many texts into English. Also, he donated his wealth to the Indian History Research Association located in Pune.