PLAY PODCASTS
भवेत् को मुक्तिदायकः ?
Episode 105

भवेत् को मुक्तिदायकः ?

बालमोदिनी · सम्भाषणसन्देशः

February 14, 20254m 38s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् ।  सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः कथम् अन्यं मोचयितुं शक्नुयात्' इति केनचित् प्रयोगेण प्रतिपादयति । लज्जितः खिन्नः सः पण्डितः आत्मानं बन्धमुक्तं कर्तुं साधनां प्रारभत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
For many years, a scholar would narrate teachings to the king for an entire hour each day. However, the king's anger and other negative traits remained unchanged, and he could not gain self-control. Troubled by this, the scholar went to a wise person and shared his distress. The wise person went to the palace and through an example explained the importance of self-liberation. Realizing this, the scholar felt ashamed and began working on freeing himself from these attachments.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories