PLAY PODCASTS
चिन्तनमात्रात् न हानिः
Episode 112

चिन्तनमात्रात् न हानिः

बालमोदिनी · सम्भाषणसन्देशः

February 21, 20253m 38s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

कश्चन शिष्यः गुरुं पृच्छति यत् - सर्वदा निषिद्धानां एव वस्तूनां स्मरणं भवति । किं करणीयम् इति ? तदा गुरुः वदति -  'निषिद्धविषायाणां चिन्तनमात्रेण न कापि हानिः भवति । किन्तु पुनः पुनः‌ स्मरणात् तेषु प्रवृत्तिः भवेत् इत्यतः सद्विषयाः एव चिन्तनीयाः । तदर्थं सत्कार्येषु प्रवृत्तिः अधिका भवेत् । सद्ग्रन्थान् सच्चरित्राणि च पठनीयानि । सज्जनानां सहवासः अधिकतया करणीयः । एतस्य सर्वस्य कारणतः सर्वदा मनसि सद्विचाराः एव उत्पद्येरन् ' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A disciple asked his teacher, ‘Why do we always remember the things we shouldn't? What should we do?’ The teacher replied, ‘Simply thinking about forbidden things doesn't cause harm, but thinking about them again and again can lead to actions. So, focus on good things. Do good deeds. Read good books and stories of noble people. Spend time with good people. By doing this, good thoughts will come to your mind’.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories