
बालमोदिनी
604 episodes — Page 13 of 13

Ep 7देवमन्दिरे न स्थानमानादयः
यदा कश्चन धनिकः अक्षरधाम गतवान् तदा तेन सह कोऽपि गौरवेण न सम्भाषते इति खिन्नः । तत्रत्यः कश्चन स्वामी तम् उक्तवान्, यदा राष्ट्रपतये भवान् उपायनं ददाति तदा सः भवन्तं स्मरेत् इति अपेक्षा भवति वा? न खलु? तथैव देवमन्दिरे स्थानमानादयः न भवन्ति इति । A devotee felt neglected at Akshardham Temple. A swami consoled, "Just as the President receives many bouquets, yet can't acknowledge each giver, God's presence is beyond individual recognition."

Ep 10सूक्ष्मदृष्टिः
कश्चित् गुरुः शिष्यत्रयं परीक्षितुं घृतघटं नीत्वा विपण्यां स्थापयित्वा सायम् आनयन्तु इति आदिष्टवान् । घृतघटः निर्बाधः स्यात् इति अवदत् च । द्वौ शिष्यौ तथा कर्तुं विफलौ । तृतीयः विपण्यां क्षणमेकं घटं स्थापयित्वा ततः गृहे घटं रक्षयित्वा सायङ्काले आनीय गुरोः परीक्षायाम् उत्तीर्णः । Guru tasks three disciples to keep a ghee-filled pot in the market and return it intact. Two failed, but the intelligent third keeps it briefly in market, then safely at home, and returns it unchanged. It lead in qualifying the test.

Ep 8परोपकारचक्रम्
कश्चित् कृषकः पङ्के निमग्नम् आढ्यं बालं रक्षितवान् । तत्प्रतीकाररूपेण आढ्यस्य पिता कृषकस्य पुत्रस्य विद्याभ्यासं कारितवान् । सः एव कृषकस्य पुत्रः अग्रे पेन्सिलिन् इत्यस्य औषधस्य आविष्कारम् अकरोत् येन धनिकस्य पुत्रः मृत्योः रक्षितः । A poor farmer rescues a rich boy from mud. In gratitude, the boy's father educates the farmer's son, who becomes a scientist and discovers penicillin, transforming lives forever. His invention Penicillin only saved the life of rich boy.

Ep 5धर्मस्य प्रभावः
राजगृहं गच्छन् कश्चन मुनिं अपृच्छत्, किमर्थं भवान् धर्मं बोधयति चेदपि लोके धर्मः न दृश्यते इति । मुनिः अवदत् । राजगृहम् इतः 20 किलोमीटर् दूरे अस्ति इति भवान् जानाति । परन्तु प्रवृत्तिं विना तत्र गन्तुं न शक्नोति । धर्मस्यापि एषा एव व्यवस्था इति । A sage tells a disillusioned man, "Just as you must take steps to reach the palace 20 km away, effort is required to achieve goodness in life, it won't come automatically."