
बालमोदिनी
663 episodes — Page 14 of 14

Ep 13अध्येतव्यं बहु अस्ति
कश्चन तरुणः गुरोः सकाशात् धनुर्विद्याम् अधीत्य महत् कौशलं प्राप्तवान् । सः धनुर्विद्यायां गुरुमपि अतिशेते इत्यतः अहङ्कारयुक्तः अभवत् । गुरुः एतत् ज्ञात्वा न किमपि उक्तवान् । एकदा शिष्यः कठिनं सेतुम् अतिक्रान्तुं प्रयत्नरतः सन् कम्पितः, शाखायाम् अधःपतनभयेन आकुलः अभवत् । अन्ते सः अवगतवान् यत् अध्येतव्यं बहु अस्तीति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A young man learned a great skill in archery from a guru. He was also a master in archery and became arrogant because he was led to his growing pride. The teacher, aware of this, remained silent. One day the disciple was trying to cross a difficult bridge, and he trembled, and the two branches trembled for fear of falling. Finally, he realized that there was much to learn.

Ep 12परोपकारी स्वामी
परोपकारी स्वामी ग्रामे ग्रामे भ्रमन् रोगिणां सेवां कुर्वन् स्वच्छतायाः महत्त्वं प्रचारयति स्म । जनाः तस्य प्रेरणया स्वच्छतायां प्रवृत्ताः । सः मन्दिरे भक्तजनैः अर्पितं सर्वं निर्धनेभ्यः वितरति स्म । कदाचित् विष्णोः दूतः स्वर्णादीनि पुरस्काररूपेण दातुम् आगतः, किन्तु स्वामी उक्तवान्, "मम किमपि आवश्यकं, एतानि निर्धनेभ्यः ददातु ।" तदा दूतः तस्य सेवायाः प्रशंसां कृत्वा मोक्षं दातुम् ऐच्छत्, परन्तु स्वामी उक्तवान् यत् "सेवा एव मम धर्मः" इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The compassionate saint wandered from village to village, serving the sick and promoting the importance of cleanliness. Inspired by him, the people took up the cause of cleanliness themselves. He would distribute all offerings given by devotees at the temple to the needy. One day, a messenger of Lord Vishnu came with gold and other rewards for him, but the saint said, "I need nothing for myself; let these be given to the poor. "The messenger then praised the saint's service and offered him liberation, but the saint replied, "Service is my duty."

Ep 11अध्यापनं मम धर्मः
कश्चन राजा स्वपुत्रान् शिक्षयितुम् आचार्यं नियुक्तवान् । आचार्येण नानाविधैः उपायैः राजपुत्राणां शिक्षणं कृतं, किन्तु ते शीघ्रं विस्मरन्ति स्म । ततः आचार्यः तान् शिष्यान् घटस्य उदाहरणेन मननस्य महत्त्वं अबोधयत् । एतत् श्रुत्वा राजकुमाराः मननेन बुद्धिमन्तः अभवन् । तेषां बुद्धिमत्तां दृष्ट्वा सन्तुष्टः राजा आचार्याय अर्धराज्यं दातुम् ऐच्छत् । परं आचार्येण उक्तं यत् "अध्यापनमेव मम धर्मः, न प्रतिफलम् ।"(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king appointed a teacher to educate his sons. The teacher tried to teach them in various ways, but they would forget quickly. Then, the teacher explained to them the importance of reflection, just as a pot must be repeatedly dipped to collect water. Hearing this, the princes began reflecting on their learning and became wise. Seeing their wisdom, the king was pleased and wished to grant the teacher half his kingdom. However, the teacher said, "Teaching is my duty, not receiving rewards."

Ep 4समाजऋणम्
ईश्वरचन्द्रविद्यासागरः कस्याश्चित् निर्धनायाः विधवायाः कृते “भवत्याः पत्युः सकाशात् मया ऋणं स्वीकृतम्, तत् प्रत्यर्पयन् अस्मि” इति वदन् प्रतिमासं धनं यच्छति स्म । सा विधवा यदा सः ईश्वरचन्द्रविद्यासगरः, साहाय्यार्थमेव धनं प्रेषयति, इति ज्ञातवती तदा विस्मिता हर्षिता च अभवत् । Ishwar Chandra Vidyasagar pretended to repay a loan to a widow, donating money monthly. When she discovered his kindness, she was overwhelmed with gratitude and amazement at his selfless deception.

Ep 2राज्ञः औदार्यम्
राजा यस्य अधिकम् ऋणम् अस्ति, तम् “अधिकारिणं व्यये भवतः नियन्त्रणं नास्ति” इत्युक्त्वा कार्यात् च्यावितवान् । परन्तु अग्रिमदिने दूतहस्तेन धनं प्रेषयित्वा “आश्रितस्य रक्षणं मम कर्तव्यम् । भवान् यथापूर्वं कार्यालयम् आगच्छतु” इति उक्तवान् । King dismisses employee citing excessive debt, but reverses decision next day, sending money and ordering his come back to the job, saying "it's my duty to protect my people's well-being."

Ep 1माया
माया नाम का इति सुदामदेवः श्रीकृष्णं अपृच्छत् । कृष्णस्य सूचनानुगुणं नद्यां स्नातवान् सुदामा एवं दृष्टवान् यत् सः हठात् राजा भूत्वा काञ्चित् ऊढवान् । पत्न्यां मृतायां सत्यां तेन अपि चिताप्रवेशः करणीयः इति स्थितिः आपतिता । तदा सः नद्यां गत्वा कृष्णं प्रार्थितवान् । सर्वं कृष्णस्य माया इति सः अवगतावान् । Once Sudamadeva asked Krishna what is Maya? As per Krishnas order Sudama took a bath in river and saw his accidental kingship leads to marriage, but after wife's death, ministers cite ritual requiring self-sacrifice. Praying to Krishna in the river, Sudama realizes it's Krishna's divine play.

Ep 9ईश्वरदर्शनम्
कश्चन देवं दर्शयतु इति गुरुम् अपृच्छत् । गुरुः अवदत्- “भवान् स्वस्य एव प्रमुखम् अङ्गं मुखं द्रष्टुं दर्पणं यथा अपेक्षते तथैव देवस्य दर्शनार्थम् ईश्वरकृपा आवश्यकी इति । Guru tells disciple, "You can't see your own face without a mirror, similarly, God's presence is within, but divine grace is needed to realize and see the God."

Ep 3परोपकाराय बुद्धेः उपयोगः
काचित् वृद्धा सचक्रासन्दे उद्याने अटन्ती आसीत् । अपरिचितः जार्जः लोहचक्रासनदेन अग्रे गन्तुं कष्टम् अनुभवन्तीं तां दृष्ट्वा आसन्दानां चक्रयोः रबर् योजयति । अग्रे सः एव प्रसिद्धः डनलप् चक्रसंस्थानिर्माणकर्ता भवति । George helps an elderly lady struggling with her steel-wheeled wheelchair in the garden. He innovates by adding rubber to the wheels, leading to the founding of his successful tyre company Dunlop.

Ep 6अतिनिद्रायाः कारणम्
कुम्भकर्णः जिह्वास्खलनकारणतः निद्रावत्त्वं वररूपेण प्राप्य चिरं निद्राति स्म । रावणः पुनरपि ब्रह्मदेवम् उपसृत्य कुम्भकर्णस्य अर्धवर्षं यावत् निद्रा इति वरं परिवर्तितवान् । Kumbhakarna's tongue slipped, while seeking boon, led to eternal sleep. Ravana intervened, praying Brahma to modify it to six month’s sleep and six months' wakefulness of Kumbhakarna.

Ep 7देवमन्दिरे न स्थानमानादयः
यदा कश्चन धनिकः अक्षरधाम गतवान् तदा तेन सह कोऽपि गौरवेण न सम्भाषते इति खिन्नः । तत्रत्यः कश्चन स्वामी तम् उक्तवान्, यदा राष्ट्रपतये भवान् उपायनं ददाति तदा सः भवन्तं स्मरेत् इति अपेक्षा भवति वा? न खलु? तथैव देवमन्दिरे स्थानमानादयः न भवन्ति इति । A devotee felt neglected at Akshardham Temple. A swami consoled, "Just as the President receives many bouquets, yet can't acknowledge each giver, God's presence is beyond individual recognition."

Ep 10सूक्ष्मदृष्टिः
कश्चित् गुरुः शिष्यत्रयं परीक्षितुं घृतघटं नीत्वा विपण्यां स्थापयित्वा सायम् आनयन्तु इति आदिष्टवान् । घृतघटः निर्बाधः स्यात् इति अवदत् च । द्वौ शिष्यौ तथा कर्तुं विफलौ । तृतीयः विपण्यां क्षणमेकं घटं स्थापयित्वा ततः गृहे घटं रक्षयित्वा सायङ्काले आनीय गुरोः परीक्षायाम् उत्तीर्णः । Guru tasks three disciples to keep a ghee-filled pot in the market and return it intact. Two failed, but the intelligent third keeps it briefly in market, then safely at home, and returns it unchanged. It lead in qualifying the test.

Ep 8परोपकारचक्रम्
कश्चित् कृषकः पङ्के निमग्नम् आढ्यं बालं रक्षितवान् । तत्प्रतीकाररूपेण आढ्यस्य पिता कृषकस्य पुत्रस्य विद्याभ्यासं कारितवान् । सः एव कृषकस्य पुत्रः अग्रे पेन्सिलिन् इत्यस्य औषधस्य आविष्कारम् अकरोत् येन धनिकस्य पुत्रः मृत्योः रक्षितः । A poor farmer rescues a rich boy from mud. In gratitude, the boy's father educates the farmer's son, who becomes a scientist and discovers penicillin, transforming lives forever. His invention Penicillin only saved the life of rich boy.

Ep 5धर्मस्य प्रभावः
राजगृहं गच्छन् कश्चन मुनिं अपृच्छत्, किमर्थं भवान् धर्मं बोधयति चेदपि लोके धर्मः न दृश्यते इति । मुनिः अवदत् । राजगृहम् इतः 20 किलोमीटर् दूरे अस्ति इति भवान् जानाति । परन्तु प्रवृत्तिं विना तत्र गन्तुं न शक्नोति । धर्मस्यापि एषा एव व्यवस्था इति । A sage tells a disillusioned man, "Just as you must take steps to reach the palace 20 km away, effort is required to achieve goodness in life, it won't come automatically."