
बालमोदिनी
558 episodes — Page 6 of 12

Ep 308स्थानस्य प्रभावः
कस्मिंश्चित् वने चोराः एकस्मिन् कुटीरे वसन्ति स्म । कदाचित् राजभटैः चोराः गृहीताः, कारागारे स्थापिताः च । कदाचित् एकः साधुः वने अटन् तमेव कुटीरम् आश्रितवान् । एकदा वर्षाकाले कश्चन युवकः पत्न्या सह वृष्टितः रक्षणं प्राप्तुं तस्मिन् कुटीरे स्थितवान् । साधोः मनसि दुर्भावना उत्पन्ना । दम्पती गन्तुम् उद्युक्तौ तदा साधुः छुरिकां गृहीत्वा यदा तयोः समीपम् आगतवान् तदा मनसः दुर्भावना अपगता । पुनः यदा कुटीरं प्राविशत् दुर्भावना उत्पन्ना । किमर्थम् एतादृशः व्यवहारः इति चिन्तयन् आसीत् साधुः तावता कुटीरस्य इतिहासं जानन् युवकः उक्तवान् 'चोराणां भवनाभिः एषः कुटीरः कलुषितः अस्ति' इति । अनुक्षणम् एव साधुः तं कुटीरं त्यक्त्वा अन्यत्र गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a forest, thieves lived in a cottage until royal guards captured and imprisoned them. Later, a sage took shelter there. One rainy day, a young couple sought refuge in the cottage. The sage developed evil thoughts but lost them when he approached them with a knife. However, upon re-entering, his wicked thoughts returned. Confused, he wondered why. The young man, knowing the cottage’s history, said, "This place is tainted by the thieves who lived here." Realizing this, the sage immediately left the cottage.

Ep 307भक्तः दामाजी पन्तः
पुरा मङ्गलवेढाग्रामे दामाजीपन्तः नाम परमदयालुः दैवभक्तः दानशीलश्च आसीत् । यवनराजस्य शासनाधिकारिरूपेण कार्यं करोति स्म । कदाचित् पण्ढरपुरतः आगवद्भ्यः जनेभ्यः धान्यागारतः यथेष्टं धान्यं वितीर्णवान् । एतेन कुपितः यवनराजः पान्थम् आनाययति । मार्गमध्ये सः पण्ढरिनाथस्य मदिरं गत्वा भक्त्या प्रार्थितवान् । भक्तवत्सलः पण्ढरिनाथः दामाजीपन्तस्य सेवकरूपं धृत्वा सपादलक्षमुद्रायुक्तं स्यूतं यवनराजाय दत्त्वा प्राप्तिपत्रं च स्वीकृत्य ततः अन्तर्हितः अभवत् । तदनु प्रवृत्तं सर्वं ज्ञात्वा पण्ढरिनाथः एव एवं कृतवान् स्यात् इति पान्थः साश्रुलोचनः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Long ago, in the village of Mangalvedha, there lived a kind and devout man named Damajipant, known for his generosity. He served as an officer under the Yavana king. Once, he freely distributed grain from the royal granary to pilgrims from Pandharpur. Angered by this, the king summoned him. On his way, Damajipant visited the temple of Pandharinath and prayed with devotion. Moved by his devotion, Lord Pandharinath, disguised as a servant, delivered a bag containing 1.25 lakh gold coins to the king along with a receipt, then disappeared. Realizing the divine intervention, Damajipant was overwhelmed with tears of gratitude.

Ep 306चरति चरतो भगः
कश्चित् श्रान्तः पथिकः अग्रे गन्तुम् अनिच्छन् वृक्षस्य अधः उपविष्टं वृद्धं 'ग्रामः कियत् दूरे अस्ति?’ इति अपृच्छत् । किन्तु सः वृद्धः किमपि न उक्तवान् । कुपितः पथिकः मनसा एव वृद्धं निन्दन् यदा अग्रे गन्तुम् उद्युक्तः तदा वृद्धः उच्चस्वरेण तम् आहूय अवदत् 'ग्रामः क्रोशमितदूरे अस्ति' इति । उत्तरं दत्त्वा अपि भवान् अग्रे न चलति चेत्, मम उत्तरं व्यर्थं स्यात् । अतः पूर्वम् उत्तरं न दत्तवान् । यदा भवान् अग्रे गन्तुं निर्णयम् अकरोत् तदा उत्तरं दत्तवान् । यः चलति सः एव गन्तव्यं स्थानं प्राप्नोति । अतः एव उच्यते 'चरति चरतो भगः' इति । यत्नशीलस्य जनस्य भाग्यं फलति इति तात्पर्यम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A weary traveler sat under a tree and asked an old man, "How far is the village?" The old man remained silent. Annoyed, the traveler mentally criticized him and prepared to move forward. At that moment, the old man called out, "The village is a mile away". He explained, "If you do not move forward, my answer is meaningless. I waited until you decided to walk before responding. Only those who move forward reach their destination". Thus, it is said, "Fortune favors those who strive". The meaning is that effort leads to success.

Ep 305गन्तव्यः मार्गः
कस्मिंश्चित् गृहे द्वौ मृद्घटौ दुग्धेन पूर्णौ आस्ताम् । प्रथमघटस्थं दुग्धं 'सुवर्णकुम्भे मां स्थापयतु इति गृहस्वामिने' अवदत् । तथैव अकरोत् स्वामी । 'उष्णीकरणं मास्तु, आतञ्चनं मास्तु' इत्यादि अवदत् प्रथमघटस्थं दुग्धम् । किन्तु मृद्घटस्थेन दुग्धेन किमपि नोक्तम् । अतः स्वामी तम् उष्णीकृत्य तस्मिन् आतञ्चनमपि कृतवान् । एतत् सर्वं दृष्ट्वा प्रथमघटस्थं दुग्धं मृद्घटस्य दुग्धस्य उपहासं करोति 'भवतः वर्णः नास्ति, रुचिः नास्ति .....’ इति । अनन्तरदिने स्वामी मृद्घटस्थस्य दुग्धस्य मथनम् अकरोत् । मथनात् आगतं नवनीतं स्वीकृत्य मन्दिरं गत्वा ईश्वरस्य अलङ्कारम् अकरोत् । दुर्गन्धपूर्णं सुवर्णकुम्भस्थं दुग्धं बहिः अक्षिपत् च ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a house, two clay pots were filled with milk. The milk in the first pot demanded to be placed in a golden vessel and refused heating or churning. The milk in the clay pot remained silent, allowing the owner to heat and churn it. The milk in the golden vessel mocked the other for lacking color and taste. The next day, the owner churned the milk from the clay pot, extracting fresh butter, which was used to adorn the deity in the temple. The foul-smelling milk in the golden vessel was discarded.

Ep 304मूल्यं दुधस्य
प्रतिदिनं काचित् गोपिका साधोः आश्रमम् आगत्य अर्धलीटर्मितं दुग्धं मापकेन मापयित्वा साधोः भाण्डे स्थापयति । किन्तु आश्रमस्य पार्श्वे वसते ब्रह्माचरिणे दुग्धपात्रे अवशिष्टं समग्रं दुग्धं समर्पयति । वस्तुतः ब्रह्मचारिणे अपि अर्धलीटर्मितं दुग्धम् एव दातव्यम् । एतत् निरीक्ष्य साधुः पृष्ट्वान् किमर्थम् एषा प्रतारणा इति । तदा गोपिका अवदत् 'भवान् जपमालां गृहीत्वा मणिभिः गणनां कुर्वन् जपं करोति । अतः भवते मापकेन मापनं कृत्वा दुग्धं यच्छामि । किन्तु ब्रह्मचारी विना जपमालां सदा मुखेन नामस्मरणं करोति । अतः तस्मै मापनम् अकृत्वा दुधं यच्छामि' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Every day, a cowherd woman visited a sage's hermitage and measured half a liter of milk using a measuring vessel before placing it in the sage's container. However, she would give the remaining milk in the vessel to a young celibate monk living nearby. In reality, the brahmachari was also supposed to receive only half a liter of milk. Observing this, the sage questioned why she was deceiving him. The cowherd woman replied, "You chant using a japamala, counting the beads as you recite. So, I measure the milk precisely for you. But the brahmachari chants continuously with his mouth without using a japamala, remembering the divine name at all times. Therefore, I do not measure the milk for him and give it freely".

Ep 303कः महामूर्खः ?
कस्मिंश्चित् ग्रामे दामोदरः नाम कश्चन महामूर्खः दरिद्रः च आसीत् । कस्यचित् संन्यासिनः वचनानुसारं तस्य भाग्यान्वेषणार्थं पूर्वाभिमुखं प्रयाणम् आरब्धवान् । मार्गमध्ये एकः सिंहः, एकः उद्यानपालः, एकः राजा च तेषां समस्यायाः समाधानं भाग्यदेवतां पृष्ट्वा वदतु इति निवेदितवन्तः । चतुर्दशदिनानि यावत् प्रयाणं कृत्वा संन्यासिना उक्तं पर्वतं प्राप्य गुहायां कश्चन निद्रितवान् आसीत् । भवान् कः ? इति पृष्टे सः उक्तवान् 'अहमेव भवतः भाग्यम्' इति । ततः सः प्रश्नत्रयस्य समाधानं पृष्ट्वा ततः निर्गतवान् । ततः सः राज्ञः, उद्यानपालस्य, सिंहस्य च कृते समाधानं वदति वा ? तर्हि सः महामूर्खः कथं जातः ? भ्रमनिवारणार्थं संपूर्णतया कथां शृण्वन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain village, there was a poor and foolish man named Damodara. Following the advice of a sage, he set out eastward in search of his fortune. On his journey, he encountered a lion, a gardener, and a king, who each asked him to inquire about solutions to their problems from the deity of fortune. After traveling for fourteen days, he reached a mountain where a mysterious person was sleeping in a cave. Upon asking who he was, the person replied, "I am your fate." Damodara then asked his three questions and left with the answers. Did he later provide solutions to the king, the gardener, and the lion? And how did he become known as a great fool? Listen to the full story to clear any doubts.

Ep 302रामसेवाचूडामणिः हनूमान्
यदा श्रीरामः रावणं निहत्य प्रत्यागत्य सिंहासने अभिषिक्तः तदा सीतालक्ष्मणभरतशत्रुघ्नाः रामस्य समीपं गत्वा 'एतावत्पर्यन्तं हनूमान् एव सकलां सेवां करोति स्म । अतः अस्मभ्यं भवतः सेवाभाग्यं ददातु' इति अयाचन्त । रामः वदति 'भवन्तः कार्याणाम् आवलींं लिखन्तु । किमपि कार्यम् अवशिष्टं चेत् तत् हनूमान् करोति' इति । सीतादयः सुसूक्ष्मतया आवलीं सज्जीकृतवन्तः । हनूमान् यदा आवलीम् अपश्यत् तदा सर्वाणि कार्याणि तैः अपहृतानि आसन् । विषण्णः सन् किञ्चित् कालानन्तरम् आनन्देन नर्तनं कृतवान् । जृम्भणसमये दोषनिवारणाय मुखस्य पुरतः अङ्गुलेः स्फोटनकार्यम् अवशिष्टम् अस्ति इति यदा हनूमान् उक्तवान् तदा सीतादयः हनूमतः भक्तेः माहात्म्यं ज्ञात्वा लज्जाम् अनुभूतवन्तः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)After Lord Rama defeated Ravana and was crowned king, Sita, Lakshmana, Bharata, and Shatrughna approached him. They requested the privilege of serving him, as Hanuman had been the sole devotee performing all services. Rama instructed them to list all tasks, stating that if anything remained, Hanuman would do it. Sita and others meticulously created the list. When Hanuman saw it, he realized that they had taken away all his duties, leaving him disheartened. However, after a moment, he joyfully danced, declaring that one task remained—snapping his fingers near his mouth to prevent drowsiness while yawning. Realizing Hanuman’s deep devotion, Sita and the others felt humbled.

Ep 301एतत् भवदीयम् ..
कश्चन नितरां धर्मनिष्ठः दानशीलः च आसीत् । कदाचित् राजभवनम् आगतवते तापसाय राजा अवदत् 'अहं भवते अत्यमूल्यं कमपि उपहारं ददामि' इति । तापसः 'आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु' इति अवदत् । राजा राज्यकोषं, राजभवनं, रथादिकं ददामि इति यदा वदत् तदा तत्सर्वं प्रजाजनानम् इति अवदत् तापसः । शरीरमपि मातापितृभ्यां दत्तम्, अतः तदपि भवतः न इत्युक्तं तापसेन । यदा राजा विस्मयेन मूढः जातः तदा तापसः अवदत् 'भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव, तस्य दानं करोतु' इति । अनन्तरदिनतः राजा अनासक्तः योगी इव शासनं कृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A deeply righteous and generous ascetic visited the king, who offered him a precious gift. The ascetic requested the king’s most beloved possession. The king offered his treasury, palace, and chariot, but the ascetic reminded him these belonged to the people. Even his body was a gift from his parents. Perplexed, the king asked what he could give. The ascetic replied, “Your ego is entirely your own. Offer that”. From that day, the king ruled with detachment, like a true yogi.

Ep 300विश्वासः नास्ति किम् ?
कदाचित् कश्चित् दरिद्रः मन्दिरे गणेशं प्रार्थयते यत् गृहगमनसमये मार्गे यथा धनं प्राप्नुयां तथा माम् अनुगृह्णातु इति । यत् प्राप्नोमि तस्य अर्धभागं भवते अर्पयामि इति । आश्चर्यम्! मार्गमध्ये किञ्चित् धनं दृष्टिगोचरम् अभवत् । तत्र पञ्चाशत् रूप्यकाणि आसन् । मन्दिरं गत्वा गणेशस्य पुरतः स्थित्वा 'किं भवतः मयि विश्वासः नास्ति ? यद् लभ्यते तत्र अर्धभागं निश्चयेन भवते समर्पयामि इति अहम् उक्तवान् खलु? तर्हि भवान् किमर्थं पूर्वमेव पञ्चाशत् रूप्यकाणि स्वीकृत्य अवशिष्टानि पञ्चाशत् रूप्यकाणि तत्र स्थापितवान्' इति उक्त्वा गणेशाय किमपि समर्पणम् अकृत्वा सः ततः गृहं प्रति गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A poor man prayed to Lord Ganesha at a temple, asking for a blessing to find money on his way home. He promised to offer half of whatever he received to Ganesha. Miraculously, he found fifty coins on the road. Returning to the temple, he stood before Ganesha and said, “Do you not trust me? I promised to offer half of whatever I find. But why have you already taken fifty coins and left only fifty for me?” Thinking this way, he left without making any offering to Ganesha.

Ep 299अयि, मयेदं किं कृतम् !
मृगयाव्यसनः कश्चन युवा भुषुण्डिम् आदाय अश्वम् आरुह्य मृगयार्थं वनम् अगच्छत् । तत्र च हंसयूथं रममाणं दृष्ट्वा तेन स्वभुषुण्डितः गोलिका मुक्ता । गोलिकया एकः हंसः विद्धः सन् चीत्कारं कृतवान् । सः युवा अश्वात् अवतीर्य तत्पार्श्वे गतः । तीव्रव्यथया चीत्कुर्वन्तं हंसं च दृष्टवान् । किञ्चित्कालनन्तरं सः हंसः प्राणैः विमुक्तः जातः । मृतं स्वप्रियतमं विज्ञाय तत्प्रियतमा हंसी करुणं विलपति स्म । सर्वं दृश्यं दृष्टवतः तस्य यूनः हृदयम् आर्द्रं जातम् - 'मया न सुष्ठु कृतम् । अद्यारभ्य अहं कदापि मृगयां निरर्थिकां हिंसां वा न आचरिष्यामि' इति अवदत् । सः एव अग्रे अमेरिकायाम् अब्राहमलिङ्कननामकः प्रसिद्धः प्रमुखः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A young man, passionate about hunting, rode into the forest with his firearm. There, he saw two swans enjoying and fired a shot, wounding one. Hearing its cries of pain, he dismounted and approached the injured bird. Shortly after, the swan succumbed to its wounds. Seeing its mate mourn deeply, the young man's heart softened. Overcome with regret, he vowed never to engage in hunting or senseless violence again. That young man would later become Abraham Lincoln, the renowned leader of America.

Ep 298सत्सङ्गस्य श्रेष्ठत्वम्
कदाचित् विश्वामित्रस्य तपोबलं श्रेष्ठम् उत वसिष्ठस्य सत्सङ्गफलं श्रेष्ठम् इति प्रश्नः उद्भूतः । तद्विषये निर्णयं कर्तुं तौ ब्रह्मणः समीपं गतवन्तौ किन्तु ब्रह्मा विष्णोः समीपं प्रेषयति । विष्णुः शिवस्य समीपं, शिवः आदिशेषस्य समीपं प्रेषयति च । विश्वामित्रवसिष्ठयोः विवादं श्रुत्वा आदिशेषः अवदत् 'भवतोः कोऽपि स्वप्रभावेण मम मस्तकस्थां पृथिवीं क्षणकालं यावत् आकाशे निरालम्बां धारयतु' इति । महर्षिः विश्वामित्रः हस्तेन जलं गृहीत्वा सङ्कल्पं कृतवान् 'मया कृतस्य एकसहस्रवर्षात्मकस्य तपसः बलेन एषा पृथिवी अन्तरिक्षे निरालम्बा तिष्ठतु' इति । किन्तु पृथिवी किञ्चिदपि उपरि न स्थिता । ततः वसिष्ठः 'मया कृतस्य अर्धघटिकात्मस्य सत्सङ्गस्य बलेन पृथिवी अन्तरिक्षे तिष्ठतु' इति । आश्चर्यम्! पृथिवी अन्तराले निरालम्बा अतिष्ठत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A debate arose about whether Vishvamitra’s power of penance or Vasishtha’s spiritual wisdom was superior. Seeking a decision, they approached Brahma, who directed them to Vishnu, then to Shiva, and finally to Adishesha. Adishesha challenged them, saying, “With your own abilities, hold the Earth, resting on my head, suspended in the sky for a moment”. Vishvamitra declared, “By the strength of my thousand-year-long penance, let the Earth remain suspended!” But nothing happened. Then Vasishtha proclaimed, “By the power of just half an hour of spiritual wisdom, let the Earth stay in space!” Miraculously, the Earth floated effortlessly. Thus, Vasishtha’s wisdom proved stronger than Vishvamitra’s penance.

Ep 297सा मञ्जुला कोकिला
किं भवद्भिः ज्ञायते यत् अमृतात् जातः वृक्षः आम्रवृक्षः इति ? किन्तु कथं स्वर्णकुम्भात् अमृतबिन्दुः पतितः? गरुडेन कथम् अमृतबिन्दुः पातितः ? गानविद्याविलासिनी गन्धर्वकन्या मञ्जुला गरुडं यदा अनुसृतवती तदा किं जातम् ? विष्णोः शापेन मञ्जुला का अभवत् ? इति सर्वं कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Do you know that the mango tree originated from ‘nectar of Gods’? But how did a drop of nectar fall from the golden vessel? How did Garuda cause the nectar drop to spill? When Manjula, the Gandharva maiden skilled in music and dance, followed Garuda, what happened? And what did she become due to Vishnu’s curse? Listen to the entire story to uncover these mysteries!

Ep 296पात्रताम् अनुसृत्य
उद्यानपालकेन श्रावितेन पद्येन सन्तुष्टः राजा 'मनोभिलषितं याचतु' इति अवदत् । तदा उद्यानपालकः सहस्रं सुवर्णनाणकानि अयाचत् । किञ्चित् 'न्यूनं याचतु' इति यदा राजा अवदत् तदा एकं नाणकं ददातु इति अवदत् उद्यानपालकः । आश्चर्यस्तब्धः राजा अपृच्छत् 'किमर्थम् अनयोः मध्ये एकां संख्यां न उक्तवान्' इति । तदा सः अवदत् 'पुत्र्याः विवाहार्थं धनम् अपेक्षितम् । प्रथमवारम् अहं भवतः स्थानं, पात्रतां व्यक्तित्वं च दृष्ट्वा सहस्रं नाणकानि अयाचम् । 'न्यूनं याचतु' इति यदा उक्तवान् तदा तु अहं मम स्थानं पात्रतां च परिगणय्य एकं नाणकम् अयाचम्' इति । लज्जितः राजा तस्मै स्वस्थान-व्यक्तित्व-पात्रतानुगुणं सहस्रं नाणकानि एव दत्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A gardener pleased the king with his poetry. Delighted, the king told him to ask for anything he desired. The gardener requested a thousand gold coins. The king, suggesting he ask for less, was surprised when the gardener then asked for just one coin. Curious, the king inquired about the drastic change. The gardener explained, “I initially considered your status, worthiness, and generosity, so I asked for a thousand coins. When you told me to ask for less, I reassessed my own status and worthiness, leading me to ask for just one”. Humbled, the king gave him the full thousand, recognizing the depth of his reasoning.

Ep 295काकः चलति हंसगत्या
कदाचित् गर्विष्ठः काकः हंसेन सह स्पर्धार्थं सन्नद्धः जातः । हंसः काकश्च उड्डयनम् आरब्धवन्तौ । काकः स्वसामर्थस्य कौशलस्य च प्रदर्शनाय भिन्नप्रकारेण उड्डयनम् अकरोत् । हंसः तु समानगत्या उड्डयते स्म । ततः हंसः सागराभिमुखः जातः । किञ्चित्कालाभ्यन्तरे अनभ्यासेन उड्डयनेन च तस्य शरीरे स्वेदः जातः । परन्तु परितः सम्पूर्णतया जलराशिः । तस्मात् भीतः काकः मम मरणं निश्चितम् इति विचिन्त्य प्राणान् रक्षितुं हंसं प्रार्थितवान् । करुणालुः हंसः काकं स्वस्कन्धयोः उपरि संस्थाप्य प्रत्यागच्छत् । ततः आरभ्यः काकः न कदापि अहङ्कारं प्रादर्शयत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A proud crow challenged a swan to a flying contest. The crow showcased its skills with varied flight maneuvers, while the swan maintained a steady course. As they approached the ocean, the crow, unaccustomed to prolonged flight, began sweating and grew exhausted. Surrounded by endless water, fear gripped the crow, realizing its fate was sealed. In desperation, it pleaded with the swan for help. Compassionate by nature, the swan carried the crow on its back and returned safely. From that day, the crow never displayed arrogance again.

Ep 294अहङ्कारी मशकः
कस्मिंश्चित् वने कश्चित् मशकः खलबुद्ध्या विनाकारणं कस्यचित् कर्णयोः कस्यचित् नासिकारन्ध्रे वा प्रविश्य तान् पशून् विचलितान् करोति स्म । सर्वे पशवः मिलित्वा मशकस्य अत्याचारविषयम् अवदन् । किन्तु सिंहः गजः च किमपि कर्तुम् अशक्तौ जातौ । सः मशकः अहङ्कारी भूत्वा पशून् अवदत् 'प्रतिदिनं भवत्सु अन्यतमः मम रुधिरपिपासां पूरयन्तु' इति । सर्वे पशवः अङ्गीकृतवन्तः । प्रथमः पर्यायः कस्यचित् कच्छपस्य आसीत् । सः कञ्चन उपायं कृत्वा अहङ्कारिणं मशकं मारितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a forest, a mischievous mosquito harassed animals by buzzing into their ears and nostrils. Frustrated, the animals gathered to complain, but even the mighty lion and elephant were powerless against it. Growing arrogant, the mosquito demanded that one of them daily satisfy its thirst for blood. The animals reluctantly agreed, and the first turn fell to a tortoise. Using a clever trick, the tortoise managed to kill the mosquito, ending its tyranny.

Ep 293क्षणस्थायि सौन्दर्यम्
कश्चन अतीवसुन्दरः विवाहयोग्यः च राजकुमारः अश्वारूढः सन् वनमार्गेण गच्छन् आसीत् । तदा एका सुन्दरी युवतिः दृष्टा यां सः परिणेतुम् इष्टवान् । राजा तां सुन्दरीम् आनाय्य यदा विवाहस्य प्रस्तावं कृतवान् तदा सा सुन्दरी निराकृतवती । पुनः पुनः रजकुमारेण निवेदिते सति सा अङ्गीकृतवती । किन्तु सप्ताहं यावत् प्रतीक्षां करोतु इति अवदत् सा । अनतरं तया या परीक्षा कृता तेन राजकुमारस्य ज्ञानोदयः जातः । सः प्रतिज्ञाम् अकरोत् यत् कदापि जीवने शारीरकाकर्षणेन इन्द्रियाकर्षणेन वा प्रलोभितः न भविष्यामि इति । तत्पश्चात् सः संसारे वैराग्यं प्राप्य विरक्तः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A handsome prince, ready for marriage, was traveling through a forest on horseback when he saw a beautiful young woman he wished to marry. The king brought her to the palace, but she initially rejected the proposal. After repeated requests from the prince, she eventually agreed but asked him to wait for a week. During that time, she subjected him to a test, leading to his profound realization. Upon gaining wisdom, the prince vowed never to be tempted by physical or sensory attractions again. He renounced worldly life and embraced detachment.

Ep 292मातुः उपदेशः
मातुः उपदेशानुसारं सुप्रसिद्धः राजा गोपीचन्दः राज्यस्य त्यागं कृत्वा गोरखनाथस्य शिष्यः जातः । प्रथमदिने एव गुरुः गोपीचन्दं भिक्षायाचनार्थं प्रेषितवान् । ततः भिक्षाटनार्थं गतवान् । सः मातुः समीपम् अपि गत्वा भिक्षाम् अयाचत । माता त्रीणि गूढवचनानि भिक्षारूपेण अवदत् - ‘सर्वदा सुरक्षिते दुर्गे तिष्ठतु । स्वादिष्टं भोजनं एव खादतु । सुखमये सुगन्धिते तल्पे एव शयनं करोतु' इति। तेषां अर्थः च - 'गुरुसन्निधिः एव सुरक्षितः दुर्गः । यदा बुभुक्षा भवति तदा एव भोजनं स्वादिष्टं भवति । अतः यदा बुभुक्षितः अस्ति तदा एव भोजनं करोतु । यदा यत्र निद्रा बाधते तदा तत्रैव शयनं करोतु' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Following his mother’s advice, the renowned King Gopichand renounced his throne and became a disciple of Gorakhnath. On the first day, his guru sent him to beg for alms. During his journey, Gopichand also approached his mother for alms. Instead, she gave him three symbolic teachings: ‘Always stay in a secure fort. Eat only delicious food. Sleep in a comfortable and fragrant bed’. She then explained their deeper meaning: ‘The guru’s presence is the true fortress of safety. When one is truly hungry, even simple food tastes delicious. Sleep should come naturally, wherever the body feels at rest’. Through these lessons, she guided him toward detachment and wisdom.

Ep 291कतमः योग्यः ?
कस्यचित् देशस्य राज्ञः त्रयः पुत्राः आसन् । ते च युवकाः जाताः । एकदा राजा चिन्तामग्नः आसीत् यत् तस्य अनन्तरं कतमः पुत्रः राज्यपालनं कुर्यात् इति । कारणं ज्ञातवता मन्त्रिणा कश्चन उपायः सूचितः – पुत्राः यं कमपि जनं तोषयित्वा आगच्छन्तु । ते तत् कार्यं कथं सम्पादयन्ति इति आधारेण कतमः योग्यः इति निर्णायं कुर्मः' इति । तदनु राजा पुत्रान् आहूय मन्त्रिणा यदुक्तं तथैव अवदत् । ततः पुत्राः गतवन्तः । त्रयः अपि एकैकं प्रजाजनम् आत्मना सह राजसभाम् आनीतवन्तः । तर्हि राजा कस्मै राज्यं ददाति ? कः विजयी जातः ?(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The king, seeking a successor among his three sons, devised a test based on the minister’s suggestion: each prince had to win over a citizen and present them in the royal court. The son who did so most effectively would prove his worthiness to rule. Each prince returned with a person, but the decisive factor lay in how they had won them over. The one who did so through genuine compassion, wisdom, and leadership—rather than mere persuasion or material offerings—was deemed the rightful heir. The king rewarded the prince who embodied true governance qualities, ensuring a prosperous future for the kingdom.

Ep 290महावीरस्य धैर्यम्
जैनधर्मस्य अन्तिमः तीर्थङ्करः महावीरः । सः शुद्धोदनमहाराजस्य त्रिशलायाः च पुत्रः । तस्य जन्मानन्तरं महाराजस्य प्रासादे राज्ये च धनधान्यादीनाम् अतीव वृद्धिः जाता इति कारणेन तस्य 'वर्धमानः' इति नाम कृतं मातापितृभ्याम् । सः बाल्यतः एव धैर्यवान् आसीत् । इयं तस्य बाल्यकाले प्रवृत्ता कथा अस्ति । एतस्याः घटनायाः अनतरं सः वर्धमानतः महावीरः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Mahavira, the final Tirthankara of Jainism, was the son of King Shuddhodana and Queen Trishala. After his birth, prosperity flourished in the palace and the kingdom, leading his parents to name him "Vardhamana," meaning "one who grows". From childhood, he displayed immense courage. An event from his early years marked a significant transformation in his life. Following this, Vardhamana became known as Mahavira.

Ep 289सर्वमेव भवतः विधानम्
कदाचित् सुप्रसिद्धस्य साधुश्रेष्ठस्य चैतन्यदेवस्य भक्तः श्रीवासपण्डितः स्वस्य गृहे चैतन्यदेवस्य सङ्कीर्तनसभाम् आयोजितवान् आसीत् यत्र सर्वे अत्यन्तं भक्त्या भागं वहन्तः आसन् । तन्मध्ये अकस्मात् श्रीवासस्य पुत्रः मृतः । नितरां दुःखितः अपि सः सभायाः भङ्गं कर्तुं न इष्टवान् । अत्रान्तरे चैतन्यदेवेन अत्र किमपि अशुभं घटितं स्यात् इति अनुभूतम् । चैतन्यदेवः अवदत् 'भवान् पुत्रशोकं परित्यज्य मम सेवासुखमेव श्रेष्ठं मतवान् । इतः परम् अहं भवतः पुत्ररूपेण स्थास्यामि' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, the devoted follower of Chaitanya Deva, Shrivasa Pandita, organized a devotional gathering at his home where all participated with great reverence. During the event, his son suddenly passed away. Though deeply grieved, Shrivasa did not wish to disrupt the sacred assembly. Sensing an unfortunate event, Chaitanya Deva spoke, “You have forsaken sorrow for the joy of my service. From now on, I shall remain as your son”. Such was Shrivasa’s unwavering devotion.

Ep 288सुविचार्य हि कर्तव्यम्
कस्यचिदपि उपदेशस्य कण्ठस्थीकरणे न किमपि प्रयोजनम्, अपि तु तस्मिन् निहितं तथ्यं सम्यक् विचारणीयं भवति । ये तत् न कुर्वन्ति ते पुनः सङ्कटे पतन्ति, कष्टानि च अनुभवन्ति । तादृशी एव परिस्थितिः कथायाम् अस्याम् अभवत् शुकानाम् । यत् ऋषिः पाठितवान् तत् केवलं कण्ठस्थीकृतवन्तः । किन्तु व्याधेन एकः प्रयोगः कृतः येन ते शुकाः जाले आगत्य निपतिताः । सद्य एव आगतवता ऋषिणा शुकानां मूर्खता अवगता । सः व्याधं प्रतिबोध्य शुकान् जालात् विमुक्तान् कारितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Memorizing teachings without understanding their true meaning serves no purpose. Those who fail to reflect on wisdom often face hardships. Such was the fate of a group of parrots in this story. They merely memorized the sage’s lessons but never grasped their essence. When a hunter devised a trick, they were caught in his net. Realizing their ignorance, the sage intervened, enlightened the hunter and freed the parrots.

Ep 287सर्वे चोराः
नागार्जुनः प्राचीनभारतस्य सुप्रसिद्धः गुरुः । सः कदाचित् कस्यचित् नगरस्य मध्यभागे सञ्चरन् आसीत् । तस्य राज्यस्य राज्ञी तं सुवर्णमयं भिक्षापात्रम् अयच्छत् । तत् पात्रं स्वीकृत्य गच्छन्तं नागार्जुनम् एकः चोरः दृष्ट्वा तं पात्रं चोरयितुं नागार्जुनम् अनुसृतवान् । एतत् अवलोक्य नागार्जुनः भिक्षापात्रम् अक्षिपत् । तदा आश्चर्यान्वितः चोरः नागार्जुनस्य समीपं गत्वा 'एतादृशं बहुमूल्यं वस्तु क्षेप्तुं यथा शक्नुयाम् तादृशं माम् उपदिशतु' इति अवदत् । तदनन्तरं नागार्जुनः तस्मै कानिचन हितोपदेशवचनानि, कांश्चन अभ्यासान् च कर्तुम् अवदत् । दिनत्रयाभ्यन्तरे सः चोरः चौर्यकार्यं त्यक्त्वा नागार्जुनस्य शिष्यः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Nagarjuna, a renowned teacher of ancient India, was once walking through a city when the queen presented him with a golden begging bowl. A thief spotted him and followed, intending to steal the bowl. Seeing this, Nagarjuna simply discarded it. Astonished, the thief approached him and asked, “Teach me how to let go of valuable things as easily as you do”. Nagarjuna then shared words of wisdom and guided him through certain practices. Within three days, the thief abandoned his life of crime and became Nagarjuna’s disciple.

Ep 286ज्ञानोदयः
कदाचित् कश्चन संन्यासी दूरयात्रां कुर्वन् रात्रिः जातः इति कारणेन नर्तक्याः कलावत्याः गृहस्य अङ्गणं प्रविश्य वितर्दिकायां शयनम् अकरोत् । अनन्तरदिने उषसि कञ्चन कोलाहलं श्रुत्वा संन्यासी जागरितः अभवत् । कोऽपि जनः मृतः आसीत् । कलावती षड्वर्षीयां पुत्रीम् आहूय 'भवती गत्वा ज्ञात्वा आगच्छतु यत् इदानीं मृतः स्वर्गं गतः उत नरकम्' इति । संन्यासी आश्चर्येण कलावत्यां पृच्छति कथं एतत् ज्ञातुं शक्यते इति । तदा कलावती अवदत् 'यदि जनैः मृतस्य जनस्य विषये उत्तमः अभिप्रायः प्रकट्यते तर्हि मृतः स्वर्गं गतः इति निर्णयः । यदि जनाः नीचवचनैः तं निन्दन्ति तर्हि सः नरकं गतः इति निर्णयः' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)One night, a wandering sage stopped at the courtyard of a dancer named Kalavati to rest. At dawn, he woke to a commotion—someone had passed away. Kalavati called her six-year-old daughter and asked her to find out whether the deceased had gone to heaven or hell. Curious, the sage asked how such a thing could be known. Kalavati explained, “If people speak well of the deceased, it means they have gone to heaven. If they criticize them with harsh words, it means they have gone to hell”. Hearing this, the sage reflected deeply on her wisdom.

Ep 285बुद्धिर्यस्य धनं तस्य
कस्मिंश्चित् न्यायप्रियराजस्य देशे सर्वेऽपि कर्मकराः मनोयोगपूर्वकं राज्यकार्यं निर्वहन्ति स्म । कदाचित् वैरिणः अस्य देशस्य कर्मकराणां मनसि असन्तोषं जनयित्वा आन्दोलनं कारितवन्तः । ते महाराजम् उक्तवन्तः 'अस्माभिः अहोरात्रं परिश्रमः क्रियते, तथापि अस्माकं वेतनम् अतीव न्यूनं वर्तते । किन्तु एषः मन्त्री किमपि न करोति, तथापि तस्य वेतनं महत् अस्ति' इति । ततः सः राजा कर्मकराणां मन्त्रिणः च परीक्षामेकां कृत्वा कर्मकरेभ्यः दर्शयति यत् मन्त्रिणः तेषां च कर्मकौशले कियत् अन्तरम् अस्ति इति । वेतनस्य निर्धारणे बुद्धिमत्ता अपि गण्यते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a kingdom ruled by a just king, all workers diligently carried out their duties. One day, enemies stirred dissatisfaction among them, leading to a protest. The workers complained to the king, saying, “We toil day and night, yet our wages are minimal. Meanwhile, the minister does nothing but receives a high salary”. To address this, the king conducted a test to demonstrate the difference in skill and responsibility between the minister and the workers. Through this, they realized that intelligence also plays a role in determining wages.

Ep 284आदिमः ऋषिः
एषा आदिमानवकाले प्रवृत्ता कथा कथयति 'कथं शनैः शनैः मानवः ज्ञातुं प्रारभते यत् एकः एव ईश्वरः भिन्नैः भिन्नैः रूपैः अवतरति । एषा सृष्टिः तु ईशमयूरस्य अद्भुतकरः अनन्तः अनादिः पिच्छकलापः एव । एकः एव शुभ्रकिरणः सप्तवर्णेषु परिवर्तितः । एकः एव प्रणवः सप्तस्वरेषु प्रकटितः । एका एव उदकस्य रुचिः भिन्नासु रुचिषु अभिव्यक्ता । एकः एव मृद्गन्धः यस्मात् अवतीर्णा विविधा गन्धमाला । एवम् ईश्वरः गोचरः भवति, श्रुतः भवति, रुचितः भवति, इन्द्रियसंवेद्यः भवति च' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This ancient story illustrates how, over time, humans come to realize that the one divine being manifests in various forms. The universe is like the magnificent and infinite plume of the divine peacock. A single pure ray transforms into seven colors, just as one sacred sound unfolds into seven musical notes. The taste of water expresses itself in many flavors, and from the essence of earth arises a variety of fragrances. Thus, the divine is perceived, heard, experienced, and sensed through countless manifestations.

Ep 283परिहासपरिणामः
सकलगुणोपेतः अपि ऋषिकुमारः सहस्रपादः अन्येषाम् उपाहासं करोति स्म । एकदा शुष्कतृणैः सर्पं कृत्वा सः सहपाठिनः स्वगमस्य उपरि अक्षिपत् । अकस्मात् पतितात् सर्पात् स्वगमः भीतः मूर्छितः च जातः । यदा मूर्छाभङ्गः जातः तदा स्वगमः सहस्रपादं शप्तवान् 'भवान् निर्विषसर्पयोनिं प्राप्स्यति' इति । क्षमां याचितवन्तं सहस्रपादं स्वगमः अवदत् 'भविष्यत्काले भृगुवंशे प्रमतेः पुत्रः यदा भवता मेलिष्यति तदा भवान् तम् उपदिश्य मम शापात् विमुक्तः भविष्यति' इति । ततः सहस्रपादः 'डुण्डुभ:’ नाम निर्विषः सर्पः जातः । अग्रे रुरोः मेलनेन तस्य शापविमोचनम् अपि जातम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Sahasrapada, a gifted sage's son, often mocked others. One day, he crafted a snake from dry grass and threw it onto his classmate Svagama, startling him into unconsciousness. Upon awakening, Svagama cursed Sahasrapada, declaring he would be reborn as a non-venomous snake. When Sahasrapada pleaded for forgiveness, Svagama foretold that in the future, he would meet the son of Pramata from the Bhrigu lineage, who would guide him to freedom from the curse. Thus, Sahasrapada was reborn as a harmless snake named Dundubha. Later, meeting Ruru, he was finally released from the curse.

Ep 282सत्सङ्गतिः सुखाय
कस्मिंश्चित् ग्रामे मुकुन्दः गोविन्दः च मित्रद्वयम् आसीत् । गोविन्दः बुद्धिमान् परन्तु मुकुन्दः मन्दबुद्धिः । गोविन्दः स्वबुद्धेः उपयोगः स्वार्थलाभाय करोति स्म । सः द्विवारं मुकुन्दं वञ्चयति । किन्तु मुकुन्दः किमपि कर्तुम् अशक्तः । कदाचित् ग्रामम् आगतः महापुरुषः एतयोः वृत्तान्तं ज्ञात्वा मुकुन्दं कमपि उपायं सूचितवान् । अनन्तरदिने मुकुन्दः तम् उपायम् उपयुज्य गोविन्दं पाठितवान् । तदनन्तरं गोविन्दः मुकुन्दं क्षमाम् अयाचत । एवं सत्पुरुषस्य मार्गदर्शनेन मुकुन्दः अपि सुखी अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a village, Mukunda and Govinda were friends. While Govinda was intelligent, Mukunda was simple-minded. Govinda often used his wit for personal gain and deceived Mukunda twice, leaving him helpless. One day, a wise man visited the village and, upon learning of their story, advised Mukunda on a solution. The next day, Mukunda followed the advice and taught Govinda a lesson. Realizing his mistake, Govinda apologized. Thus, with the guidance of a noble person, Mukunda also found happiness.

Ep 281आत्मश्लाघा नैव श्रेयसे
कदाचित् कबीरपुत्रः कमालः गङ्गातटे कञ्चित् श्वेतकुष्ठरोगेण पीडितम् आत्महत्यार्थम् उद्युक्तं च पुरुषम् अपश्यत् । सः श्रेष्ठिनः शिरसि स्वहस्तं संस्थाप्य रामनाम जपित्वा गङ्गायां निमज्जितुम् अवदत् । सः श्रेष्ठी यदा बहिः आगतवान् तदा श्वेतकुष्ठः न्यूनतरः जातः । गृहमागत्य प्रवृत्तं सर्वम् उक्त्वा 'अहं सिद्धिं प्राप्तवान्' इति कमालः यदा अकथयत् तदा कबीरः एतस्य अहङ्कारः कथमपि निवारणीयः इति विचिन्त्य तुलसीदासाय एकं पत्रं विलिख्य पुत्रेण सह प्रेषितवान् । पत्रं पठित्वा तुलसीदासः नगरे श्वेतकुष्ठरोगेण पीडितान् सर्वान् अत्र आहूय जलपूर्णे कुम्भे रामनाम लिखित्वा कानिचन तुलसीपत्राणि प्रक्षिप्य सर्वेषां रोगग्रस्तानाम् उपरि जलं सेचितवान् । झटिति सर्वे रोगमुक्ताः जाताः । एतत् दृष्ट्वा कमालः क्षमाम् अयाचत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)One day, Kabir’s son Kamal saw a leprosy-stricken man preparing to end his life by the Ganges. Kamal placed his hand on the man's head, chanted Lord Rama’s name, and asked him to immerse himself in the river. Upon emerging, the man found his leprosy had diminished. Feeling accomplished, Kamal declared his success. Sensing his son's pride, Kabir sought to humble him and sent a letter to Tulsidas. Tulsidas gathered all the leprosy-afflicted people in the city, wrote Rama’s name on a pot filled with water, added sacred basil leaves, and sprinkled the water over them. Instantly, they were cured. Witnessing this, Kamal realized his mistake and sought forgiveness.

Ep 280जठरे धराम्यहम्
कदाचित् यमुनानद्याः अन्यत् तीरं गन्तुम् इष्टवान् महामुनिः व्यासः बुभुक्षां निवारयितुं तत्रत्याः गोपीः नवनीतं दुग्धं च अपृच्छत् । खादनानन्तरं व्यासदेवः करौ संयोज्य 'हे यमुने! यदि अहं अद्य किमपि न खादितवान्, तर्हि भवती नदीजलस्य विभागद्वयं करोतु येन वयं सुखेन अन्यत् तीरं गन्तुं शक्नुयाम' इति प्रार्थयते । यदा यमुना भागद्वयेन विभक्ता जाता तदा गोपीनां महत् आश्चर्यं सञ्जातम् । तदनन्तरं व्यासः अवदत् 'मनुष्यः यं कर्म करोति तत् ब्रह्मार्पणबुद्ध्या न करोति । तदा कर्मणः बन्धः न भवति .......’ इति । एतत् श्रुत्वा गोप्यः विस्मिताः अभवन् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Sage Vyasa wished to cross the Yamuna River. To satisfy his hunger, he asked the local cowherd women for butter and milk, which they offered him. After eating, he folded his hands and prayed, “O Yamuna! If I have not eaten anything today, then divide your waters so we may cross with ease”. Miraculously, the river split into two, leaving the cowherd women in astonishment. Vyasa then explained, “When one dedicates all actions to the Divine, they are freed from bondage”. Hearing this, the women were left in awe.

Ep 279चमत्कारः
'पुत्रस्य मस्तिष्कस्य चिकित्सार्थं प्रभूतं धनम् अपेक्षितम् । कश्चन चमत्कारः एव पुत्रं रक्षितुं शक्नोति' इति पितुः वचनं श्रुत्वा काचन अष्टवर्षीया पुत्री एकस्मिन् करण्डके स्थापितानि नाणकानि स्वीकृत्य अनुजस्य कृते चमत्कारं क्रेतुम् औषधापणम् अगच्छत् । तत्रैव स्थितः कश्चन बालिकया सह सम्भषणं कृत्वा ज्ञातवान् यत् तस्याः अनुजाय शस्त्रक्रिया आवश्यकी इति । सः आसीत् विख्यातः मस्तिष्कशल्यक्रियाविशारदः । शीघ्रमेव सः बालस्य शस्त्रक्रियां निश्शुल्कं कृत्वा प्राणान् रक्षितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Hearing her father say that a miracle was needed to save her younger brother, an eight-year-old girl took the coins stored in a box and went to a pharmacy to buy a miracle. There, she unknowingly spoke to a renowned neurosurgeon, who learned that her brother required brain surgery. Moved by her innocence, he performed the operation free of charge and saved the boy’s life.

Ep 278घटस्य मौनम्
विसनामके नगरे कश्चन कुम्भकारः आसीत् । कदाचित् मङ्गलगीतानि गायन्त्यः स्त्रियः तस्य आपणम् आगत्य विवाहनिमित्तं कञ्चन घटं सपादरूप्यकं दत्त्वा नीतवत्यः । किञ्चित्कालानन्तरं द्वित्राः जनाः आगत्य बन्धोः अन्त्येष्टिकर्मनिमित्तम् आवश्यकमिति यदा उक्तवन्तः तदा कुम्भकारः एकं घटं विना मूल्यम् अयच्छत् । सर्वं पश्यन् आपणे स्थितः घटः स्वजातिबान्धवयोः भिन्ना भिन्ना गतिः जाता इति समीपस्थं घटं स्वाभिप्रायम् असूचयत् । तदा सः कर्तव्यनिष्ठः घटः जीवनस्य मूल्यं कर्तव्यम् अधिकृत्य निर्धारितं भवति इति उपदिशति । कर्तव्यनिष्ठस्य घटस्य वचनं श्रुत्वा सः घटः मौनम् असेवत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the city of Visanama, there was a potter. One day, women singing auspicious songs visited his shop and bought a pot for a wedding, paying a small sum. Later, a few people came seeking a pot for a funeral. The potter gave it to them for free. Observing this, a nearby pot remarked that two pots of the same kind had met entirely different fates. Another pot, wise and dutiful, explained that the value of life is determined by its purpose and duties. Hearing this, the questioning pot fell silent in realization.

Ep 277लोकज्ञानमेव वरम्
रामस्य एकः विशेषगुणः आसीत् यत् श्रुतां लोकोक्तिं सूक्तिं वा सर्वदा स्मरति स्म । सन्दर्भानुसारं सः स्वानुभावेन पुरजनेभ्यः मार्गदर्शनं करोति स्म । ग्रामजनाः तस्य समीपं मार्गदर्शनार्थं गच्छन्ति स्म । एकदा तस्य देशस्य राजा अल्पसैन्येन सामन्तान् विरुद्ध्य युद्धार्थं प्रस्थितः । मार्गमध्ये ज्ञातवान् यत् एषः रामः वयसा कनिष्ठः चेदपि अस्य महान् अनुभवः अस्तीति । राजा युद्धस्य विषये यदा अभिप्रायम् अपृच्छत् तदा रामः अवदत् 'लघुः अपि सर्पः बृहता दण्डेन प्रहर्तव्यः । अतः इतोऽपि अधिकं सैन्यं नियोज्यताम्' इति अवदत् । अधिकेन सैन्येन सह राजा सामन्तम् अजयत् । रामं मन्त्रिमण्डले नियोजितवान् च ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Rama had a remarkable ability to recall proverbs and wise sayings, using them to guide people according to the situation. Villagers often sought his advice. One day, the king of his land set out to battle the feudal lords with a small army. On the way, he realized that although Rama was young, he possessed great wisdom. When asked for his opinion, Rama advised, “Even a small snake must be struck with a large stick. Deploy more troops”. Following his advice, the king expanded his army and won the battle. Impressed, he appointed Rama to his council of ministers.

Ep 276भगवद्भक्तः कुलशेखरः
'मुकुन्दमाला' नामकस्य उत्कृष्टस्य स्तोत्रस्य रचयिता अस्ति भगवद्भक्तः कुलशेखरः । केरलदेशस्य राज्ञः दृढव्रतस्य पुत्रः अयं राज्ये सुसमृद्धिं सम्पाद्य सदा रामध्याने निरतः भवति स्म । कदाचित् रामकथाश्रवणसमये कथाकारः वदति '.....श्रीरामः एकाकितया खरदूषणाभ्यां सह युद्धाय गतवान्’ इति । कुलशेखरः कथाश्रवणे तावत् तन्मयः आसीत् यत् मया श्रूयमाणा कथा इत्यपि विस्मृत्य झटिति उत्थाय प्रासादं गत्वा श्रीरामस्य साहाय्यार्थं सेनां सज्जीकृतवान् । यदा ते ततः गन्तुम् उद्युक्ताः तदा कथाकारः अवदत् 'श्रीरामः खरदूषणादिसहितां राक्षससेनां संहृतवान्' इति । तत् श्रुत्वा निश्चिन्ततां प्राप्य राजा कुलशेखरः प्रत्यावर्तनाय सेनाम् आदिष्टवान् । एवम् आसीत् तस्य रामभक्तिः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Kulasekhara, having brought great prosperity to his kingdom, was deeply devoted to Lord Rama. One day, during a recitation of Rama’s story, he became so engrossed that he forgot it was just a narration. Hearing that Rama had gone alone to battle against Khara and Dushana, he immediately prepared his army to assist. Just as they were about to march, the narrator revealed that Rama had already defeated the demons. Relieved, the king called off his troops. Such was his unwavering devotion.

Ep 275बुद्धिवन्तः पशुपक्षिणः
कस्मिंश्चित् वने सर्पाः निवसन्ति इति कारणेन तत्र मानवाः न गच्छन्ति स्म । किन्तु कदाचित् कश्चन शशशावकः केनचित् व्याधेन नीतः । तम् अन्विश्य यदा पिता अगच्छत् तदा एकः वानरः मिलितः । वानरः सर्वान् पशुपक्षिणः आहूय एतं विचारम् अकथयत् । तदा ते सर्वे मिलित्वा एकम् उपायम् अकुर्वन् । ते मिलित्वा लतादिभिः आच्छन्नस्य कूपस्य उपरि बहूनि तृणानि प्रसार्य, तन्मध्ये वानरेण आनीतां शशप्रकृतिं स्थापितवन्तः च । पुनः सः व्याधः यदा मृगयार्थम् आगतः तदा शशं ग्रहीतुं पादं स्थापितवान् । तत्रत्यैः तृणैः सह कूपे पतित्वा मरणं प्राप्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a forest inhabited by snakes, humans never ventured. One day, a hunter captured a young rabbit. When its father set out to find it, a monkey joined in and gathered all the animals and birds to discuss a plan. Together, they devised a clever trick. They spread grass over a well covered with vines and placed a rabbit figure in the middle. When the hunter returned for another hunt and stepped forward to seize the rabbit, he fell into the well along with the grass and met his end.

Ep 274नम्रस्वभावः एव श्रेष्ठः
नद्याः तीरे एकः बलिष्ठः शाल्मलीवृक्षः स्थितः आसीत्, यः जलेन सिक्तः महाबलवान् अभवत् । तस्य समीपे अन्ये वृक्षाः अपि आसन्, किन्तु ते नम्राः आसन्, अर्धशरीरं जले निमग्नम् आसीत् । एकदा तीव्रेण प्रचण्डेन च वायुना बलवान् अपि शाल्मलीवृक्षः भूमौ अपतत् । परम् अन्येषां वृक्षाणां काऽपि हानिः न अभवत् । शाल्मलीवृक्षः आश्चर्यम् अनुभवन् अन्यान् वृक्षान् अपृच्छत् "कथं भवतां हानिः न अभवत्?" इति । ते अवदन् "भवान् अहङ्कारी अस्ति यः वायोः प्रभुतां न स्व्यकरोत् । अतः वायुः भवन्तम् अपातयत् । परं वयं नम्राः भूत्वा वायोः प्रभुतां स्वीकृतवन्तः । अतः सुरक्षिताः स्मः" इति । एतत् श्रुत्वा शाल्मलीवृक्षस्य ग्रीवा अवनता अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)By the riverbank stood a mighty silk cotton tree, strengthened by the water that nourished it. Nearby, other trees grew, but they were humble, with half their trunks submerged in the water. One day, a fierce storm struck, toppling the powerful silk cotton tree. However, the other trees remained unharmed. Astonished, the fallen tree asked them, “How did you survive?”. They replied, “You were arrogant and refused to yield to the wind’s force, so it brought you down. We, however, bowed humbly before its power, and thus, we remained safe”. Hearing this, the fallen tree lowered its head in realization.

Ep 273अश्रुतपूर्वः श्लोकः
शाकडालः पाटलीपुत्रस्य नन्दनृपस्य सुशीलः सदाचारी च मन्त्री आसीत् । तस्य सप्त पुत्र्यः आसन् । नन्दराजः नूतनश्लोकान् श्रावयद्भ्यः प्रभूतं पारितोषिकं ददाति स्म । एतेन राजकोषागारमेव रिक्तं भवति इति विचिन्त्य शाकडालः कञ्चन उपायं करोति । कदाचित् कश्चन कविः यदा नूतनश्लोकं श्रावितवान् तदा शाकडालः 'सः नूतनश्लोकः न, मम पुत्रीणां मुखात् श्रुतवान् अस्मि' इति अवदत् । यदा ताः पुत्र्यः राजसभां प्रति आनीताः, तदा कविमुखतः श्लोकम् एकवारं श्रुत्वा झटिति एका तीक्ष्णमती पुत्री तं श्लोकम् उच्चारितवती । द्वितीया च कविना भगिन्या चेति द्विवारम् उक्तं तं श्लोकं श्रुत्वा विनालोपम् अश्रावयत् । एवमेव अन्याः अपि पुत्र्यः पुनरुच्चारितवत्यः । राजा तं कविं रिक्तहस्तेन प्रेषितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Shakadala was a wise and virtuous minister of King Nanda of Pataliputra who had seven daughters. King Nanda used to generously reward poets who recited new verses, which eventually led to the depletion of the royal treasury. Concerned about this, Shakadala devised a plan. One day, when a poet recited a newly composed verse, Shakadala claimed, “This is not a new verse; I have heard it from my daughters”. When his daughters were summoned to the royal court, one of them, who had a sharp intellect, quickly recited the verse after hearing it just once from the poet. The second daughter, upon hearing the verse twice, repeated it flawlessly. Similarly, the other daughters also recited the verse perfectly. As a result, the king sent the poet away empty-handed.

Ep 272विवेकोदयः
संस्कृतपुरे गौतमनामा कश्चन दरिद्रः कृषकः तर्कनामानं वणिजं ऋणं प्रार्थयते । किन्तु वणिक् निराकरोति । कथञ्चिदपि तर्कात् ऋणं स्वीकरणीयमेव इति विचिन्त्य केनचित् उपायेन पञ्चाशत् रूप्यकाणि स्वीकृतानि गौतमेन । यदा धनं प्राप्तं तदा गौतमः उच्चैः हसित्वा पञ्चविंशतिं रूप्यकाणि प्रत्यर्पयन् अवदत् 'भवन्तं पाठयितुम् अहम् एवम् अभिनयं कृतवान् । अवशिष्टं पञ्चविंशतिं रूप्यकाणि ऋणरूपेण दत्तम् इति भावयतु' इति । एतेन प्रसङ्गेन तर्कः अतीव लज्जितः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the city of Samskritapura, a poor farmer named Gautama requested a loan from a merchant named Tarka, who refused. Determined, Gautama cleverly secured fifty coins through an ingenious method. Upon receiving the money, he laughed aloud, returned twenty-five coins, and said, "I staged this act to teach you a lesson. Consider the remaining twenty-five coins as a loan". Ashamed, Tarka realized the deeper message behind Gautama’s actions.

Ep 271गुरुदक्षिणा
पूर्वकाले गुरवः शिष्यान् बोधयितु, तेभ्यः गुरुदक्षिणां स्वीकर्तुं वा बहुधा परीक्षाः कुर्वन्ति स्म । गुरुतः चतस्रः विद्याः प्राप्तवान् कश्चन शिष्यः गुरुदक्षिणा का इति पृष्टे, गुरुः अवदत् 'उच्छिष्टं, वान्तं, काकविष्ठातः आगतं, शवस्योपरि आच्छादितं वस्त्रं चेति चत्वारि वस्तूनि आनीय ददातु' इति । गुरुणा पृष्टानि वस्तूनि अपवित्राणि सन्ति चेदपि अन्तरार्थः कोऽपि स्यात् इति विचिन्त्य वस्तूनाम् अन्वेषणाय ततः निर्गतवान् । गच्छता कालेन तेन ज्ञातं यत् गुरुणा पृष्टाणि चत्वारि वस्तूनि एवं सन्ति इति - गोक्षीरमेव उच्छिष्टम्, मधुमक्षिकाभिः वान्तं मधु, काकविष्ठातः आगतम् अश्वत्थबीजं, कौशेयवस्त्रमेव शववस्त्रम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In ancient times, teachers often tested their disciples before accepting guru dakshina. One such disciple was asked to bring four impure objects—leftovers, vomit, crow droppings, and a cloth from a corpse. Though puzzled, the disciple believed there was a deeper meaning and set out to find these items. Over time, he realized their symbolic significance: Leftovers represented cow’s milk, Vomit referred to honey, regurgitated by bees. Something from crow droppings symbolized the sacred Ashwattha (peepal) seed. Cloth from a corpse meant fine silk.

Ep 270नन्दीश्वरः
आसीत् कश्चन शिलादनामा धर्मात्मा मुनिः यः अयोनिजस्य मरणरहितस्य पुत्रस्य प्राप्त्यर्थं तपः तेपे । प्रसन्नः महादेवः प्रकटीभूय 'वरं वृणीष्व' इति अकथयत् । यदा मुनिः 'भवत्समम् अयोनिजपुत्रम् इच्छामि' इति अवदत् तदा शिवः 'अचिरात् एव कञ्चित् अवतारं ग्रहीष्यामि । अहं तव अयोनिजपुत्रः भविष्यामि । तदा मम नाम नन्दी इति भविष्यति' इति उक्त्वा अन्तर्हितः जातः । कदाचित् मुनयः यज्ञाय यज्ञक्षेत्रं तर्पयन्ति स्म तदा यज्ञात् पूर्वमेव शम्भोः आज्ञया कश्चन जटामुकुटत्रिशूलधारी बालकः उत्पन्नः जातः । शिवादेशानुसारं बालकस्य नाम नन्दी इति निश्चितम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)There was a virtuous sage named Shilada who performed intense penance to obtain an unborn and immortal son. Pleased, Lord Shiva appeared and granted him a boon. When Shilada wished for a son like Shiva himself, the Lord promised to incarnate as his child, naming him Nandi. Later, during a sacrificial ritual performed by sages, a divine child with matted hair and a trident emerged before the yajna was completed—manifested by Shiva’s will. As per the Lord’s decree, the child was named Nandi, destined to be a great devotee and Shiva’s mount.

Ep 269पातिव्रत्यप्रभावः
प्रतिष्ठानपुरे सुदती पतिव्रतपरा स्वं कुष्ठरोगपीडितं पतिं कौशिकं श्रद्धया असेवत । एकदा तं स्कन्धे आरोप्य रात्रौ अनयत् । तदा प्रमादवशात् राजभटाः माण्डव्यमुनिं चोरत्वेन शूलारोपणाय नीतवन्तः । कौशिकस्य पादस्पर्शात् माण्डव्यमुनिः क्रुद्धः भूत्वा तम् अशपत् 'सूर्योदयात् पूर्वं पञ्चत्वम् आप्नोतु' इति । व्याकुला सुदती सूर्यदेवं प्रार्थितवती, परन्तु कौशिकः सपदि मृतः अभवत् । सूर्यदेवः शापग्रस्तः उदयं प्राप्तुम् असमर्थः जातः। दुर्दशां परिहर्तुं सुराः अनसूयादेवीं सम्प्राप्य तां प्रार्थितवन्तः । अनसूया सुदतीं सम्प्राप्य अवदत् 'यदि भवतीं सूर्योदयं साधयितुं शक्नोति, तर्हि पतिदेवं पुनर्जीवितं करिष्यामि' इति । सुदती आत्मदत्तं शापं प्रतिस्वीकृतवती, ततः सूर्यः उदितः। अनसूयादेव्याः पातिव्रत्यप्रभावेण कौशिकः पुनर्जीवितः अभवत् । इन्द्रादयः अनसूयां स्तुतवन्तः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Sudati, a devoted wife, cared for her ailing husband, Kaushika. One night, as she carried him, Kaushika's feet touched Mandavya sage who was mistakenly taken by royal guards as a thief. The enraged sage cursed him to die before sunrise. Though Sudati prayed to the Sun God, Kaushika perished, and the Sun couldn't rise. To restore balance, the gods sought Anasuya’s help. She told Sudati that if she ensured sunrise, Kaushika would be revived. Sudati accepted the curse, allowing the Sun to rise, and Anasuya restored Kaushika. The gods then praised Anasuya’s virtue.

Ep 268गुरुतरं कार्यम्
राजसूययज्ञे श्रीकृष्णः समागतः । सर्वे पाण्डवाः तस्य स्वागते संलग्नाः सञ्जाताः । श्रीकृष्णः युधिष्ठिरम् अकथयत् 'मया किं कार्यं करणीयम्?’ इति । युधिष्ठिरः तम् आदरपूर्वकम् आसनग्रहणाय आमन्त्रितवान्, किन्तु श्रीकृष्णः कार्यं कर्तुम् दृढसङ्कल्पं कृतवान् । पाण्डवानां प्रतिरोधेऽपि श्रीकृष्णः ततः गत्वा अतिथीनां भोजनपत्राणाम् अपनयने संलग्नः सञ्जातः । एतत् दृष्ट्वा कश्चन अतिथिः अकथयत् 'श्रेष्ठः जनः स्वकीयं गौरवं रक्षितुं लघुतरमपि कार्यं महत्तरं भावयति' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During the Rajasuya Yajna, Lord Krishna arrived, and all the Pandavas eagerly welcomed him. When Krishna asked Yudhishthira what task he should perform, Yudhishthira respectfully invited him to take a seat. However, Krishna was determined to contribute through action. Despite the Pandavas' insistence, Krishna went ahead and engaged himself in clearing the guests' food plates after their meals. Witnessing this, one of the guests remarked, "A truly great person upholds their dignity by valuing even the smallest task as significant".

Ep 267देवसृष्टिः
कदाचित् काचित् काकमाता शुकस्य इव मम रूपैश्वर्यं नास्ति इति हीनभावनया सर्वदा खिद्यते स्म । अथ कदाचित् पञ्चवर्णशुकः आगत्य वृक्षशाखायाम् उपविष्टवान् । तं दृष्ट्वा एतादृशं सौन्दर्यं मम नास्ति इति काकमाता चिन्तयन्ती आसीत् तावता कुतश्चित् आगतः कश्चन बाणः शुकस्य कण्ठे लग्नः । एतत् दृष्ट्वा काकमाता भीतवती । चिन्तयति च 'देवस्य सृष्टिः व्यवस्थिता वर्तते । अव्यवस्थितं तु अस्माकं मनः एव' इति । एतेन सत्यज्ञानेन काकमाता हीनभावनां विमुच्य आनन्देन शावकैः सह अजीवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a mother crow was constantly troubled by feelings of inferiority, believing she lacked the beauty of a parrot. One day, a vibrant five-colored parrot perched on a tree branch nearby. Seeing its dazzling appearance, the mother crow felt even more disheartened. Suddenly, an arrow struck the parrot’s neck. Witnessing this, the mother crow was terrified and realized a profound truth: ‘The divine creation is well-ordered, it is only our minds that remain unsettled’. With this newfound wisdom, she let go of her complex and lived happily with her young ones.

Ep 266पश्य मे रूपाणि ....
महाभारते विद्यते अयं श्लोकः - 'न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ।। ' कथायाम् अस्यां श्रीपतिः नाम कश्चित् कृषिवलः यद्यपि श्रीविठ्ठलस्य परमभक्तः तथापि तस्य साहाय्यार्थम् आगतवन्तं देवं न परिज्ञातवान् । अतिवृष्टेः कारणतः समीपवर्तिनी नदी मर्यादाम् उल्लङ्घ्य ग्रामं प्राविशत् । सर्वे ततः पलायितवन्तः श्रीपतिं विहाय । ' श्रीविठ्ठलः मां रक्षति' इति तस्य चिन्तनम् । एकदा जीप्यानं गृहीत्वा, पश्चात् नौकाम् आनीय, अनन्तरं लघुवातयानेन च सह रूपान्तरं धृत्वा देवः स्वयं तस्य रक्षणार्थम् आगतः । किन्तु तस्य साहाय्यं तिरस्कृतवान्, मरणं च प्राप्तवान् । देवः केनापि रूपेण आगच्छति । अस्माभिः एव ज्ञातव्यः, द्रष्टव्यः, श्रोतव्यः च सः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In this story, a farmer named Shripati was a devoted follower of Lord Vitthala, yet he failed to recognize the divine presence when help arrived. Due to heavy rainfall, the nearby river overflowed and flooded the village. Everyone fled, leaving Shripati behind, as he firmly believed, "Lord Vitthala will save me". To rescue him, the Lord appeared in different forms—first as a jeepman, then as a boatman, and finally as a pilot in small aircraft. But Shripati refused all aid, rejecting them as unnecessary. Ultimately, he perished in the flood. The lesson: Divinity comes in many forms; it is up to us to recognize, see, and hear it.

Ep 265प्रकृतिं यान्ति भूतानि
कदाचित् अकबर-बीरबलयोः संवादसमये बीरबलः अवदत् यत् मार्जारस्य शिक्षणं कष्टम् इति । किन्तु अकबरः प्रयत्नेन सर्वं साधयितुं शक्यं इति विचिन्त्य षड् मासान् यावत् षड् मार्जारान् शिक्षितवान् । भोजनसमये तेषां मार्जाराणां मस्तकेषु दीपं संस्थाप्य अकबरः तद्दीपप्रकाशे भोजनं करोति स्म । कदाचित् स्वीयभोजनसमये बीरबलः समाहूतः । एतत् सर्वं दृष्ट्वा बीरबलः अपि विस्मितः । बीरबलः परेद्युः अपि भोजनसमये अगच्छत् । यदा राज्ञा भोजनम् आरब्धं तदा बीरबलेन एकः मूषकः कोषात् निष्कास्य मुक्तः । तं दृष्ट्वा झटिति सर्वे मार्जाराः उत्प्लुत्य अधावन् । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति इत्येतत् सत्यं गीतावचनम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, during a conversation between Akbar and Birbal, Birbal remarked that training cats is difficult. Akbar, believing that anything could be achieved with effort, spent six months training six cats. At mealtime, he placed lamps on their heads and dined by their light. One day, Birbal was invited to witness this spectacle and was amazed. The next day, during mealtime, Birbal returned and, at the right moment, released a mouse from a hidden pouch. Upon seeing it, all the cats immediately leapt and ran after it. This event illustrated an important truth from the Bhagavad Gita: "Beings follow their nature; restraint alone cannot change it".

Ep 264न नीयते सूची अपि
लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । कदाचित् दर्शनार्थं आगतवन्तं दुलीचन्दं दृष्ट्वा गुरुनानकः अवगतवान् यत् एतस्य धनमदः अधिकः अस्ति इति । अतः सः एकां सूचीं दुलीचन्दाय दत्त्वा अग्रिमजन्मनि प्रत्यर्पणीया इति अवदत् । किञ्चित्कालानन्तरं दुलीचन्दः अवदत् यत् कथं सूचीम् अग्रिमजन्मनि प्रत्यर्पयितुं शक्यते इति । तदा गुरुनानकः अवदत् 'मरणसमये येन एका सूची अपि नेतुम् अशक्या, भवान् स्वस्य समग्रां सम्पत्तिं किं नेतुं शक्नुयात्?’ इति । एतेन ज्ञानोदयं प्राप्य दुलीचन्दः स्वस्य सम्पत्तेः दानम् आरब्धवान् । गुरुनानकस्य परमभक्तः जातः च ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Lahore, the wealthy Duli Chand visited Guru Nanak, who immediately sensed his arrogance. To teach him a lesson, the Guru gave him a needle, saying it must be returned in his next life. Confused, Duli Chand asked how that was possible. Guru Nanak responded, "If you can't take even a needle with you after death, how can you carry your wealth?". Realizing the truth, Duli Chand began donating his riches and became a devoted disciple.

Ep 263नीलमाधवः
भारतस्य पूर्वतटे 'जगन्नाथपुरी' नाम महत् पवित्रं क्षेत्रमस्ति इति तु वयं जानीमः एव । राजा इन्द्रद्युम्नः एव तस्य मन्दिरस्य निर्माणं कृतवान् । जगन्नाथस्य मूर्तिः नेत्रमात्रयुक्ता अस्ति । किमर्थं हस्तपादविरहिता मस्तकयुक्ता मूर्तिः तत्र दृश्यते इति जानन्ति वा ? सा मूर्तिः अधुना अपि भक्तान् 'यः प्रभुकार्यं कर्तुम् इच्छति, सः अहङ्कारं त्यजेत् एव' इति उपदिशति । एवं किमर्थम् इति सर्वम् इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)On the eastern coast of India lies the sacred site known as 'Jagannath Puri', a place well known to many. It was King Indradyumna who constructed the temple there. The idol of Lord Jagannath is unique, as it has only eyes. Do you know why the idol lacks hands and feet but has a head? Even today, this idol conveys a profound message to devotees: "One who wishes to serve the Lord must first relinquish pride". To understand why this is so, one must listen to the intriguing story behind it.

Ep 262जनप्रीतिः
कश्चन अविवेकी, उद्धतः, कोपशीलः, विलासी च राजा प्रजाभ्यः अधिकं करं स्वीकरोति स्म । अथ कदाचित् सञ्चरन्तौ राजपुत्रौ अश्वाभ्याम् पतितवन्तौ । राजपुत्रौ इति ज्ञात्वा जनाः तयोः साहाय्यं न कृतवन्तः । 'भवतोः पिता अस्मान् पीडयन् अस्ति । निर्गच्छताम् इतः' इति अवदन् । अग्रे गच्छन्तौ तौ वृषभेन तुम्फनं प्राप्य व्रणितं निर्धनं बालकमेकं शुश्रूषया सत्कृत्य गृहं प्रापितवतः जनान् दृष्टवन्तौ । प्रासादम् आगतौ पुत्रौ राजानं प्रवृत्तं सर्वं विदितवन्तौ । एतत् श्रुत्वा राजा जनानां प्रीतेः सम्पादनार्थं प्रयत्नम् आरब्धवान् । विवेकेन शासनपरिष्कारं कृत्वा सः श्रेष्ठः राजा इति ख्यातः जातः । स एव चालुक्यचक्रवर्ती षष्ठः विक्रमादित्यः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A foolish, arrogant, short-tempered, and indulgent king imposed heavy taxes on his subjects. One day, his two sons, while riding, fell off their horses. Seeing them, people refused to help them, saying, ‘Your father oppresses us. Leave this place!’. As the two continued on their journey, they came across a wounded, impoverished boy struck by a bull. The people compassionately treated his injuries and brought him home. Upon returning to the palace, they informed the king of what had transpired. Hearing this, the king realized his mistakes and began efforts to earn his people's goodwill. Reforming his governance with wisdom, he became a revered ruler, known as Chalukya Emperor Vikramaditya VI.

Ep 261अत्याज्या जन्मभूमिः
पुरा कौशिकीनद्याः जलौघकारणात् बहवः ग्रामाः जनशून्याः जाताः । कस्यचन वृद्धकृषकस्य कुटुम्बजनाः अपि कष्टम् अनुभूतवन्तः । ग्रामम् अपि त्यक्तुम् इच्छन्ति स्म । कदाचित् शौचार्थं गतेन वृद्धेन पत्रविहीने शुष्के आम्रवृक्षे एकः काकः दृष्टः । तत् दृष्ट्वा वृद्धः अचिन्तयत् यत् शुष्केऽपि वृक्षे अयं काकः वृक्षमेतं परित्यज्य अन्यत्र न गतः । किं वयं काकादपि अधमाः जाताः?’ इति । एतत् सर्वं ज्ञात्वा गृहजनाः ग्रामत्यागस्य विचारं त्यक्तवन्तः । अनन्तरं तस्मिन् ग्रामे एव कृषिकार्यं सम्यक् सम्पाद्य सः वृद्धकृषकः पुनः धनाढ्यः सन् महत् सुखम् अनुभूतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Long ago, due to the overflowing waters of the Kaushiki River, many villages became deserted. A poor farmer and his family also suffered hardships and considered leaving their village. One day, while going out for his morning routine, the farmer spotted a crow perched on a barren mango tree. He wondered, ‘Even this crow refuses to abandon the dry tree. Are we, as humans, weaker than a mere bird?’. Realizing this, his family abandoned their plan to leave. They stayed back, worked diligently on their land, and over time, their efforts bore fruit. The farmer regained prosperity and lived a life of contentment in the same village.

Ep 260अमृतं प्राप्तुम् अर्हति सः एव
आसीत् रामदासः नाम कश्चित् गुरुः यः शिष्याणां परीक्षां कर्तुम् ऐच्छत् । तदर्थं सः एकं फलं पादे संस्थाप्य, तं वस्त्रपट्टिकया बद्धवान् च । वेदनायाः शान्त्यर्थं तस्मात् पिटकात् स्वमुखेन पूयं चूषणीयम् इति यदा गुरुः शिष्येभ्यः वदति तदा शिष्याः स्तब्धाः अभवन् । 'गुरुः प्राणरक्षणार्थं किं भवत्सु कोऽपि नास्ति किम्?’ इति गुरुः यदा पृच्छति तदा सहसा एव कश्चन शिष्यः पिटकात् मुखेन पूयस्य चूषणम् आरब्धवान् । आश्चर्यम्! पिटकात् न पूयं निर्गतम्, अपि तु अतिमधुरः आम्ररसः । आनन्दितः गुरुः वदति 'विषं पातुं महत् धैर्यम् आवश्यकम् । एषः न सामान्यः । भाविनि काले जगत्प्रसिद्धः नृपः भवति' इति । एषः एव बालकः भाविनि काले 'छत्रपतिः शिवाजिः’ इति ख्यातिं गतः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)There was a guru named Ramdas who wished to test his disciples. To do so, he placed a fruit on his foot and tied it with a cloth strip. He then told his disciples that to relieve his pain, someone must suck out the pus from the wound. Shocked, the disciples remained silent. The guru asked, ‘Is there no one among you who can save me?’. Suddenly, one disciple stepped forward and began sucking from the wound. To everyone's surprise, instead of pus, sweet mango juice emerged. Delighted, the guru declared, ‘Drinking poison requires great courage. This boy is no ordinary person—one day, he will become a renowned ruler’. That very boy later became the legendary ‘Chhatrapati Shivaji’.

Ep 259यथा सूचितं तथैव कृतम्
कदाचित् ज्वरेण ग्रस्तः कश्चन मूर्खः पण्डितः वैद्यसमीपम् अगच्छत् । 'भवता लङ्घनं करणीयम्' इति वैद्यः उक्तवान् । मूर्खः पण्डितः गृहस्य पुरतः स्थितायाः कुल्यायाः उल्लङ्घनम् अकरोत् । ज्वरः अधिकः जातः । पुनः सैन्धवलवणं सेवनीयम् इति वैद्यः अवदत् । कोषे तस्य अर्थः आसीत् अश्वमलम् इति । सः तम् असेवत । पुनः वैद्यः अवदत् कण्टकारिकषायः सेवनीयः इति । कोषे तस्य अर्थः पादरक्षा इति आसीत् । जीर्णया पादरक्षया कषायं सज्जीकृत्य अपिबत् । यदा वैद्यः सर्वं ज्ञातवान् तदा अवदत् 'अहो मूर्खता भवता! लङ्घनं नाम उपवासः, सैन्धवलवणं नाम लवणविशेषः, कण्टकारिः कश्चन मूलविशेषः' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a foolish scholar suffering from fever visited a physician. The doctor advised him to undergo langhana. Misunderstanding the term, the scholar jumped over a nearby canal, worsening his condition. Later, the doctor recommended Saindhava lavana, but the scholar interpreted it as horse dung and consumed it. The physician then prescribed Kantakari kashaya, which the scholar misunderstood as worn-out footwear. He prepared a decoction using an old shoe and drank it. When the doctor learned of this, he exclaimed, ‘What foolishness! Langhana means fasting, Saindhava lavana is a special salt, and Kantakari is a medicinal root!’. This story highlights the dangers of ignorance and misinterpretation.