PLAY PODCASTS
अपरिवर्तनीयः‌ विधिनियमः
Episode 339

अपरिवर्तनीयः‌ विधिनियमः

बालमोदिनी · सम्भाषणसन्देशः

October 6, 20255m 53s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

कदाचित् सर्वे देवताः स्ववाहनेन कैलासम् आगताः । गोष्ठी च आरब्धा । अत्रान्तरे बहिः महिषारूढः  यमधर्मराजः पुरतः‌ वृक्षस्य उपरि उपविष्टं कपोतं तीक्ष्णदृष्ट्या दृष्ट्वा अन्तः गतवान् । गरुडः एतत् सर्वं दृष्ट्वा कथञ्चिदपि एषः कपोतः यमधर्मराजतः रक्षणीयः इति विचिन्त्य कपोतं गृहीत्वा रामेश्वरक्षेत्रम् आनीय वटवृक्षस्य उपरि उपवेश्य वेगेन कैलासं प्रत्यागतवान् । सभातः‌ निष्क्रामन् यमराजः रामेश्वरक्षेत्रे कपोतस्य मरणं कथं सम्पाद्यते इति जिज्ञासां यदा गरुडाय प्रकटयति तदा गरुडः प्रवृत्तं सर्वम् अकथयत् ।  यमदेवः अकथयत् 'विधेः नियमः न केनापि परिवर्तयितुं शक्यः' इति । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

One day, all the gods arrived at Kailash in their respective vehicles and began a gathering. Meanwhile, outside, Yama, riding his buffalo, intensely gazed at a pigeon sitting on a tree and then entered the assembly. Seeing this, Garuda thought the pigeon must be protected from Yama. He swiftly took the pigeon to Rameshwaram, placed it on a banyan tree, and returned to Kailash. As Yama was leaving, he wondered how the pigeon’s death would occur in Rameshwaram. When he expressed this to Garuda, Garuda recounted everything. Yama then said, "No one can alter the laws of fate".

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories