PLAY PODCASTS
फलं परनिन्दायाः
Episode 346

फलं परनिन्दायाः

बालमोदिनी · सम्भाषणसन्देशः

October 13, 20255m 14s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

पुरा काशीनगरे कश्चन धर्मात्मा प्रजावत्सलः च राजा आसीत् । कदाचित् मृगयार्थं गच्छतं राजानं कश्चन देवदूतः आकाशात् अवतीर्य 'भवतः कृते स्वर्गलोके सुवर्णप्रासादः सज्जीकृतः अस्ति' इत्युक्त्वा अन्तर्हितः अभवत् । पुनः कदाचित् राजा वने स्थितं कञ्चन तपस्विनं द्रष्टुं गतः । ध्यानमग्नः‌ तपस्वी नेत्रे न उद्घाटितवान् । क्रुद्धः राजा पार्श्वे पतितम् अश्वपुरीषं तपस्विनः शिरसि क्षिप्त्वा ततः निर्गतवान् । एकदा रात्रौ सः देवदूतः पुनः आगत्य 'स्वर्गलोके भवतः प्रासादः अश्वपुरीषैः पूर्णः अस्ति' इति अवदत्। यः परनिन्दकः सः तस्य पापानि भुङ्क्ते । अतः कथञ्चित् सः पापानि क्षालितवान् । अनन्तरं सः बहुः जागरूकतया राज्यं कृतवान् । स्वर्गं च प्राप्तवान् । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Long ago, in Kashi, there was a righteous and compassionate king. One day, while hunting, a divine messenger appeared and told him, "A golden palace has been prepared for you in heaven" before disappearing. Later, the king visited a meditating sage in the forest. When the sage did not open his eyes, the angry king threw horse dung on his head and left. One night, the messenger returned and said, "Your palace in heaven is now filled with horse dung". Realizing the consequences of his actions, the king repented, ruled wisely, and ultimately attained heaven.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories