
बालमोदिनी
558 episodes — Page 3 of 12

Ep 458प्राप्तानां परिष्कारः एव धर्मः
कश्चन धान्यवणिक् किञ्चन गुरुकुलं गतवान् । गुरुकुलं धनयुक्तं तु न । व्यवस्था अपि सामान्या । अतः सः वणिक् अवदत् 'नूतनानि परिवर्तनानि, व्यवस्थायां परिवर्तनानि अपेक्ष्यन्ते अत्र । तदा गुरुकुलस्य ख्यातिः वर्धते' इति । किन्तु गुरुकुलस्य आचार्यः प्रत्यवदत् 'ख्यातिप्राप्त्युद्देशः न अस्माकम् । सर्वविधाः छात्राः प्राप्यन्ते अत्र । सर्वान् सम्यक् अध्याप्य उत्तमविद्यावतः कर्तुं प्रयासं कुर्मः वयम् । वयं स्म शिक्षकाः, न तु वणिजः......’ इति । तद् वचनम् अङ्गीकुर्वन् वणिक् आचार्यं नमस्कृत्य प्रभूतं धनं गुरुकुलाय दत्त्वा ततः गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A grain merchant once visited a gurukula. The institution was poor and its arrangements simple. The merchant suggested: ‘Introduce new changes and improvements; then the gurukula’s fame will grow’. But the teacher replied: ‘Our aim is not fame. Students of all kinds come here, and we strive to educate them well and make them truly learned. We are teachers, not merchants’. Accepting these words, the merchant bowed to the teacher, donated a large sum of money to the gurukula, and departed.

Ep 457अपूर्वम् उपायानम्
इमर्सनः कश्चन क्रैस्तधर्मगुरुः । भगवद्गीतया आकृष्टः सः स्वस्य धर्मगुरुत्वं परित्यज्य भगवद्गीतायाः प्रचारे मग्नः अभवत् । कदाचित् सः इङ्ग्लेण्ड्-देशं गतः तत्रत्यं कञ्चन महादार्शनिकं कार्यायिलं द्रष्टुम् । सम्भाषणावसरे कार्यायिलः अपृच्छत् 'मह्यं कीदृशम् उपायनम् आनीतम्?’ इति । 'मम देशे महती सम्पत्तिः चेदपि सांस्कृतिकदृष्ट्या तु वयम् अकिञ्चनाः । मया अपूर्वम् उपायनं दीयते किन्तु तत् न मद्देशीयम् , अपि तु भारतीयम्' इत्युक्त्वा इमर्सनः भगवद्गीतां कार्यायिलाय अयच्छत् । एतत् उपायनं प्रीत्या स्वीकृत्य कार्यायिलः अपि तस्मै उपायनत्वे भगवद्गीताम् एव आनीतवान् आसीत् । एकः अमेरिकीयः अपरः इङ्ग्लेण्ड्-देशीयः च । किन्तु उभौ अपि उपायनीकुरुतः भारतीयां भगवद्गीताम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Emerson, once a Christian preacher, was deeply drawn to the Bhagavad Gita. He gave up his priesthood and devoted himself to spreading its message. On a visit to England, he met the great philosopher Carlyle. During their conversation, Carlyle asked what gift Emerson had brought him. Emerson replied: ‘Though my country is wealthy, culturally we are poor. I bring you a unique gift, not from my land but from India.’ He then presented Carlyle with the Bhagavad Gita. Carlyle accepted it with joy and, in return, gifted Emerson the same — the Bhagavad Gita. Thus, one was American, the other English, yet both chose an Indian scripture as their highest offering.

Ep 456भगवत्तत्त्वम्
आत्मानं नास्तिकं मन्यमानं कञ्चन राजानं द्रष्टुं कश्चन संन्यासी आगतवान् । तम् आशिषा अनुगृह्य मन्दहासपूर्वकम् अपृच्छत् संन्यासी 'भगवतः कृपया भवतः देशे सर्वं कुशलं ननु?’ इति । तत् श्रुत्वा राजा असन्तोषेण अवदत् 'देशे सर्वं कुशलम् एव । किन्तु अत्र न भगवतः दयायाः पात्रता कापि' इति । ततः संन्यासी मन्दहासं प्रकटयन् तं कांश्चन प्रश्नान् अपृच्छत् । राज्ञः मुखात् आगतैः उत्तरैः एव प्रतिपादयति संन्यासी यत् राजा भगवतः सत्ताम् इच्छति इति । तदनन्तरं भगवत्तत्त्वं अपि विवृणोति । तस्मात् प्रभावितः राजा भगवत्तत्त्वविषये बहून् प्रश्नान् अपृच्छत् । संन्यासिनः बोधनस्य कारणतः अल्पे एव काले सः भगवति श्रद्धावान् जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A monk once visited a king who considered himself an atheist. With a gentle smile, the monk blessed him and asked: ‘By God’s grace, is everything well in your kingdom?’. Annoyed, the king replied: ‘All is well here, but there is no place for God’s grace’. The monk, still smiling, asked him a series of questions. From the king’s own answers, the monk showed that the king indeed desired the existence of God. He then explained the nature of the Divine. Deeply moved, the king asked many questions about God, and through the monk’s teaching, soon developed faith in the Divine.

Ep 455योग्यं प्रशासनम्
उत्तमस्य प्रशासनस्य परिणामः कः इति अनया कथया ज्ञातुं शक्नुमः । कदाचित् केनचन संन्यासिना स्वशिष्यैः सह काचित् रुदती महिला दृष्टा । कारणे पृष्टे ज्ञातं यत् केनचन नरभक्षकेन व्याघ्रेण तस्याः परिवारसदस्याः, अन्ये केचन ग्रामजनाः च निष्ठुरतया भक्षिताः इति । शिष्येषु कश्चन अवदत् यत् एतं प्रदेशं परित्यज्य अन्यत् स्थानं गच्छेयुः इति । किन्तु तन्नीराकृत्य महिला अवदत् 'एतस्य प्रदेशस्य राजा सज्जनः धर्मनिष्ठः प्रजानुरागी च । देशे द्रोहः, वञ्चना, उत्कोचः, अन्याय्यं वा न दृश्यते । उत्तमे राजशासने सति वयम् अन्यत्र क्व वा गच्छेम?’ इति । तत् श्रुत्वा संन्यासी अवदत् 'बहूनि कष्टानि आपतेयुः चेदपि योग्ये प्रशासके सति जनाः तानि सहन्ते एव । तेनैव भूमिः नन्दनवनायते' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This tale shows the result of good governance. Once, a monk with his disciples saw a weeping woman. On asking, they learned that her family and some villagers had been cruelly devoured by a man-eating tiger. One disciple suggested leaving the region. But the woman refused, saying: ‘The king here is virtuous, righteous, and devoted to his people. In this land there is no treachery, deceit, bribery, or injustice. With such noble rule, where else could we go?’. Hearing this, the monk said: ‘Even if many hardships arise, people endure them under a worthy ruler. By his governance, the land itself becomes like a paradise.’

Ep 454उपायचतुरः सङ्कनायकः
षोडशशतके प्रवृत्ता घटना एषा । अन्यमतीयानां दुराक्रमणकारणतः विश्वनाथमन्दिरम् उध्वस्तं, विश्वनाथस्य पूजा स्थगिता च इति विषयः सङ्कनायकं तुदति स्म । सः काषायवस्त्रं धृत्वा देहलीम् अगच्छत् । देहल्याम् अकबरस्य सेनापतिः अङ्कुशाखानः दुर्गद्वारे उद्घोषितवान् - यः आत्मानं खड्गयुद्धनिपुणं मन्यते सः मया सह युद्धं कुर्यात् इति । सङ्कनायकः महत् कौशलं दर्शयन् अल्पे एव काले अङ्कुशाखानस्य शिरश्छेदनम् अकरोत् । तस्य धैर्यं युद्धकौशलं च दृष्ट्वा सन्तोषं प्रकटयन् अकबरः तस्मै उपायनानि दातुम् उद्युक्तः । तत् निराकुर्वन् सङ्कनायकः अवदत् 'काश्यां विश्वनाथस्य पूजां व्यवस्थापयितुम् अनुज्ञा देया' इति । अकबरः सहर्षम् अनुज्ञां दत्तवान् । काशीतः सुदूरे स्थित्वा अपि स्थगितायाः विश्वनाथपूजायाः पुनरपि आरम्भम् उपायेन साधितवतः सङ्कनायकस्य प्रयासः नितरां स्तुत्यः एव ननु ?(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the 16th century, the Visvanatha temple’s worship was halted after invasions. Distressed, Sankanayaka went to Delhi, where he defeated Akbar’s general Ankush Khān in a sword duel. Impressed, Akbar offered him gifts, but Sankanayaka instead requested permission to restore Visvanatha’s worship in Kashi. Akbar agreed, and the temple rituals resumed — a noble act of devotion achieved through courage and selflessness.

Ep 453परतत्त्वम् एकमेव
ब्रह्म सत्यं जगन्मिथ्या । परतत्त्वं तु एकमेव । यत् सर्वत्र सर्वदा तिष्ठति तदेव पारमार्थिकं सत्यम् । यत्र यत् नास्ति तत्र तस्य रूपस्य आरोपणम् एव उच्यते 'प्रातिभासिकं सत्यम्' इति । यत् लोके व्यवहारे सत्यतया स्वीक्रियते, तत् व्यावहारिकं सत्यम् इति कथ्यते। यः ब्रह्मज्ञानं प्राप्तवान् सः सर्वं परब्रह्ममयं पश्यति । प्रातिभासिकं, व्यावहारिकं वा सत्यम् अतिक्राम्य पारमार्थिकं सत्यं प्रति गमनम् एव ज्ञानार्थिनां लक्ष्यम् । एतत् सर्वम् अनया कथया दृष्टान्तरूपेण कश्चन साधुः शिष्यौ पाठयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Brahman alone is truth; the world is illusory. The ultimate reality is one, ever-present everywhere. That which is superimposed where it does not truly exist is called apparent truth (prātibhāsika satya). That which is accepted as real in worldly dealings is called practical truth (vyāvahārika satya). One who attains knowledge of Brahman perceives everything as permeated by the Supreme. For seekers of wisdom, the goal is to transcend both apparent and practical truths and realize the absolute truth (pāramārthika satya). A saint once taught this to his disciples through a parable.

Ep 452प्रत्युत्पन्नमतित्वम्
काचित् विधवा पुत्रेण सह दारिद्र्यमयं जीवनं यापयति स्म । कदाचित् चुल्ल्याम् अग्निः सर्वथा निर्विण्णः आसीत् । पार्श्वस्थधनिकगृहं गत्वा तप्ताङ्गारान् आनय इति पुत्रं प्रेषितवती माता। पुत्रः गत्वा सेवकं तप्ताङ्गारान् अयाचत । किन्तु सः सेवकः बालकम् उपेक्षया पश्यन् अवदत् 'किं युतकेन तप्ताङ्गाराः नीयेरन् ? त्वया युतकमपि न धृतम्' इति । क्षणं विचिन्त्य सः बालः समीपे स्थितेन जलेन हस्तौ आर्द्रीकृत्य काष्ठभस्म अञ्जलौ धृत्वा 'तप्ताङ्गारान् अञ्जलौ निक्षिपतु' इति सेवकम् अवदत् । एतत् सर्वं दृष्टवता धनिकेन बालकास्य गृहं गत्वा 'पुत्रः बुद्धिमान् अस्ति । अस्य शिक्षणव्यवस्था मया करिष्यते' इति उक्त्म् । सः बालः एव गच्छता कालेन न्यायशास्त्रे महत् ज्ञानं सम्पाद्य ख्यातिं प्राप्तवान् । तस्य नाम अस्ति 'रघुनाथशिरोमणिः' ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A poor widow sent her son to fetch burning embers from a wealthy neighbor. The servant mocked him for not carrying a vessel. The boy cleverly moistened his hands, filled them with ash, and asked the servant to place the embers there. Impressed by his ingenuity, the wealthy man sponsored his education. In time, he boy became a renowned scholar of law, known as Raghunātha Śiromaṇi.

Ep 451बोधनम्
कदाचित् गुरुकुले मगधराजकुमारं गुरुः विना कारणं दण्डेन ताडितवान् आसीत् । वेदनाम् अनुभवन् 'किमर्थम् एवं मम दण्डनं क्रियते ?’ इति राजकुमारेण पृष्टे गुरुः गाम्भीर्येण अवदत् 'कालान्तरेण स्वयं ज्ञास्यते त्वया' इति । कालान्तरेण राजकुमारः सिंहासनम् आरूढवान् । कदाचित् गुरुः तं द्रष्टुम् आगतः । राजा तं यथोचितं सत्कृत्य सम्भाषणावसरे गुरुकुले विना कारणं दण्डनस्य कारणम् अपृच्छत् । गुरुः हसन् अवदत् 'तस्मिन् दिने मया न प्रहृतम्, अपि तु बोधितम् । अकृतापराधाः यदा दण्ड्येरन् तर्हि तैः कीदृशी वेदना प्राप्येत इति मया ज्ञापनीयम् आसीत् । सम्यक् विचार्य एव त्वया दण्ड्याः दण्डनीयाः....’ इति । 'आजीवनं भवतः उपदेशस्य अनुगुणम् एव व्यवहरिष्यामि अहम्' इति विनयेन अवदत् राजा ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once in a gurukula, the teacher struck the prince of Magadha with a punishment, seemingly without reason. Feeling the pain, the prince asked: ‘Why am I being punished in this way?’ The teacher, with gravity, replied: ‘In time, you will understand for yourself’. Later, the prince ascended the throne. One day, the teacher came to see him. The king welcomed him with due honor, and during their conversation asked about the reason for that punishment in the gurukula. The teacher smiled and said: ‘On that day, I did not strike you, but rather taught you. I wished to show you what kind of suffering is felt when the innocent are punished. So that when you judge, you may punish only after proper consideration’. The king humbly replied: ‘Throughout my life, I shall act in accordance with your teaching’.

Ep 450समस्याः मण्डूकाः इव
कस्मिंश्चित् प्रवचने कश्चन पुरुषः महात्मानम् अपृच्छत् यत् जीवने कथं सर्वाः समास्याः निवार्य तृप्त्या जीवनं यापयितुं शक्यम् इति । तदा माहात्मना कांश्चन सजीवान् मण्डूकान् आनाय्य काञ्चित् तुलाम् अपि आनाय्य तेषां मण्डूकाननां भारं ज्ञात्वा वद इति उक्तम् । अल्पे एव काले तेन पुरुषेण ज्ञातं यत् मण्डूकानां तोलनं कियते क्लेशाय इति । तदा महात्मा अवदत् 'यथा मण्डूकाः एकत्र स्थापयितुं न शक्याः तथैव समस्यानां सर्वासां निवारणम् अपि न शक्यम् । उद्यमः, साहसः, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः इत्येते षट् गुणाः यदा अस्मासु स्युः तर्हि सर्वान् क्लेशान् निवार्य अग्रे गन्तुं शक्नुयाम वयम्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain discourse, a man once asked a great soul: ‘In life, how is it possible to overcome all difficulties and live with contentment?’. Then the Mahatma brought some living frogs and a weighing scale, and asked the man to measure their weight. Within a short time, the man realized that weighing the frogs was troublesome. The Mahatma then said: ‘Just as frogs cannot be kept together in one place, in the same way, it is not possible to eliminate all problems at once. But when we possess six qualities—effort, courage, patience, intelligence, strength, and valor—then we can overcome all difficulties and move forward’.
Ep 449अध्यापनव्रतम्
कश्चन तरुणः विद्याभ्यासं समाप्य स्वग्रामं गत्वा अध्ययन् कुर्वन् यथाशक्ति अध्यापनम् अपि आरब्धवान् । तस्य उत्कृष्टेन अध्यापनेन दिने दिने तस्य कक्ष्यायां छात्रसङ्ख्या प्रवृद्धा । तेन अन्ये अध्यापकाः असूयां प्राप्य छात्राणां मातापितरौ मिथ्या उक्त्वा छात्राः यथा कक्ष्यां न गच्छेयुः तथा कृतवन्तः । एतत् कुतन्त्रं जानन् अपि सः तरुणः अधीरः न जातः । कांश्चन शङ्कून् पुरतः संस्थाप्य सः अध्यापनम् आरब्धवान् । द्वित्राणां दिनानाम् अनन्तरं ग्रामीणाः तस्य अध्यापनश्रद्धाम् असूयग्रस्तानां कुतन्त्रं च ज्ञात्वा तं तरुणं क्षमां याचित्वा 'भवता एव अस्मदीयाः बालाः पाठनीयाः' इति प्रार्थितवन्तः । शङ्कून् पाठयन् पाठनव्रतं रक्षितवतः तस्य तरुणस्य नाम 'शङ्कुकः' इत्येव ख्यातम् अभवत् । साहित्यशास्त्रक्षेत्रे तदीयं नाम प्रसिद्धम् अस्ति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A young man returned to his village after completing his studies. He began teaching, and his classes grew popular. Jealous teachers spread false rumors to keep students away. Unshaken, he taught wooden poles as if they were pupils. Soon, the villagers realized his dedication and the deceit of others. They asked him to teach their children, and his name Shankuka (“the one who taught stakes”) became famous in the world of literature.

Ep 448चत्वारः प्रहरिणः
कस्यचन लघुदेशस्य राजा सुशर्मा प्रजानां सुखं कथं स्यात् इति सर्वदा चिन्तयति स्म । अथ कदाचित् इन्धुधरः इति राजा यदा तस्य देशम् आगतः तदा सुशर्माणम् अपृच्छत् 'सुविशाले अपि भवतः देशे कथं शान्तिसुखादयः अधिकाः । मम राज्ये सान्तिसुखादिकं वर्धयितुं मया किं करणीयम् ?’ इति । तदा राजा इन्दुधरः अवदत् 'मम राज्ये सत्यप्रेमन्यायत्यागाः इति चत्वारः प्रहरिणः सन्ति । ते असत्यात्, घृणातः, अन्यायात्, स्वार्थात् च मम मद्देशस्य च रक्षणं कुर्वन्ति' इति । तदा इन्धुधरः 'मम देशे अपि तेषां पोषणाय योग्यां व्यवस्थां करिष्यामि' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain small kingdom, the king named Susharma always pondered how his people might live happily. One day, when King Indudhara came to his land, Susharma asked him: "In your vast kingdom, how is it that peace and happiness are greater? What should I do to increase peace and happiness in my own realm?". Then King Indudhara replied: "In my kingdom, there are four guardians—Truth, Love, Justice, and Renunciation. They protect me and my land from falsehood, hatred, injustice, and selfishness". Hearing this, Susharma said: "I too shall establish a proper system in my country to nurture these guardians".

Ep 447मम अनुत्तीर्णता भवितुं न अर्हति
कस्मिंश्चित् विद्यालये परीक्षापरिणामस्य घोषणस्य अनन्तरं कश्चन छात्रः उत्थाय 'मम परीक्षापरिणामः भवता न उक्तः' इति अवदत् । तदा शिक्षकः अवदत् 'त्वं ज्वरादिकारणम् उक्त्वा दीर्घकालं यावत् कक्ष्यायाम् अनुपस्थितः आसीः । अतः त्वम् अनुत्तीर्णः स्याः । तस्मात् एव आवल्यां तव नाम नास्ति' इति । 'मम अनुत्तीर्णता भवितुं न अर्हति, श्रीमन्' इति सः छात्रः आत्मविश्वासेन अवदत् । एवं वादः प्रतिवादः च प्राचलत् तयोः मध्ये । छात्रः यदा यदा उत्तीर्णताविषये वादम् अनुवर्तितवान् तदा तदा शिक्षकः तस्य दण्डं वर्धितवान् । तावता लिपिकारः आगत्य 'एतस्य छात्रस्य नाम प्रथमश्रेणीं प्राप्य उत्तीर्णानाम् आवल्याम् आसीत् । अनवधानात् अस्माभिः न लक्षितम्' इति अवदत् । आत्मविश्वासस्य खनी इव स्थितस्य बालकस्य नाम 'राजेन्द्रप्रसादः' यः भाविनि काले भारतस्य प्रथमराष्ट्रपतिः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain school, after the announcement of the examination results, a student stood up and said, “My examination result has not been declared by you”. Then the teacher replied, “You had remained absent from the class for a long time, giving the reason for fever and other ailments. Therefore, you must have failed. That is why your name is not in the list”. The student, with confidence, said, “My failure is not justified, Sir”. Thus, an argument and counter-argument continued between the two. Whenever the student insisted on his success, the teacher increased his punishment. Meanwhile, the clerk came and said, “This student’s name was actually in the list of those who passed with first class. We failed to notice it due to oversight.” The boy, who stood firm like a mine of self-confidence, was named Rajendra Prasad, who in the future became the first President of India.

Ep 446कर्मयोगः नाम कः?
कदाचित् पर्वतारोहणसमये कश्चन शिष्यः रमणमहर्षिम् अपृच्छत् 'कर्माचरणस्य कर्मयोगस्य च कः भेद:?’ इति । तदा महर्षिः केनचित् दृष्टान्तमाध्यमेन विवृणोति यत् 'भारभावः यतः अनुभूयेत तत् कर्म । भारवहने लाघवता अनुभूयेत यत् सः कर्मयोगः । जीवने बहूनि श्रमत्यागसेवादीनि कार्याणि करणीयानि भवन्ति । तानि भवन्ति अपरिहार्याणि । तस्मात् वयं खेदेन, अनिच्छया, अप्रसन्नमनसा वा तेषाम् अनुष्ठानं चिन्तयामः । यत् कार्यं क्रियते तदेव यदि प्रीत्या क्रियते तर्हि सः भवति 'कर्मयोगः' । कर्मसु कौशलम् एव कर्मयोगः' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Perhaps during a mountain climb, a disciple once asked Ramana Maharshi: ‘What is the difference between mere action and Karma Yoga?’. Then Maharshi explained through an example: ‘Where a sense of burden is felt, that is mere action. Where lightness is experienced in carrying the burden, that is Karma Yoga. In life, many tasks such as labor, renunciation, service, and duties must be performed. They are unavoidable. Therefore, we often think of performing them with fatigue, reluctance, or an unhappy mind. But if the same work is done with joy, then it becomes Karma Yoga. Skill in action itself is Karma Yoga’.6. मम अनुत्तीर्णता भवितुं न अर्हति

Ep 445दृष्ट्यनुगुणा भावना
रामरावणयोः युद्धस्य अनन्तरं कदाचित् सभायां चर्चा जाता 'अशोकवने स्थितानां पुष्पाणां वर्णाः अनेकविधाः आसन् ननु ?’ इति । 'तत्र सर्वाणि अपि पुष्पाणि श्वेतवर्णानि आसन्' इति अवदत् सीता । 'श्वेतपुष्पाणि क्व? सर्वाणि रक्तवर्णानि ननु आसन् ?’ इति अवदत् आञ्जनेयः । 'उभौ अपि परस्परविरुद्धम् अभिप्रायं वदतः । कस्य कथनं वास्तविकम् ?’ इति केनचन सभासदेन पृष्टे श्रीरामः अवदत् 'उभयोः अपि कथनं युक्तम् एव । तत्तस्य दृष्टिम् अवलम्ब्य तादृशी भावना भवति । अशोकवने अपि स्थिता सीता सर्वदा शान्ता भवति स्म । अतः एव सा सर्वत्र श्वेतवर्णतां पश्यति स्म । रावणस्य विषये, स्वस्य असहायकतायाः विषये, रावणस्य कृतस्य कार्यस्य विषये आञ्जनेयस्य महान् क्रोधः भवति स्म । अतः सः सर्वत्र रक्तवर्णताम् अनुभवति स्म' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)After the war between Rama and Ravana, a discussion once arose in an assembly: “Were there not many colors of flowers in the Ashoka grove?” Sita said, “All the flowers there were white”. Hanuman objected, “Where were white flowers? All of them were red!” When the assembly members asked whose statement was true, Rama explained, “Both are correct. It depends on one’s perspective. Sita, who remained calm and peaceful in the Ashoka grove, perceived everything as white, a symbol of serenity. Hanuman, filled with anger against Ravana, his deeds, and his helpless condition, experienced everything as red, a symbol of fury. Thus, both views are valid, shaped by the feelings within”.

Ep 444आर्तिनाशनं मुख्यम्
जपान्देशे यदा भगवतः बुद्धस्य महान् प्रभावः आसीत् तदा प्रवृत्ता घटना एषा । सर्वत्र शान्तिः प्रवृत्ता आसीत् इति कारणतः युद्धं क्वापि न प्रवर्तते स्म । अतः बहवः भटाः वृत्तिहीनाः जाताः । कश्चन भटः वृत्त्यभावात् नितरां परितपति स्म । तस्य गृहे एकवारमपि भोजनं प्राप्तुम् असमर्थं जातम् । सः बुद्धमन्दिरं गत्वा तत्र स्थितौ भिक्षू नमस्कृत्य स्वस्य दैन्यस्थितिं विवृत्य 'कापि वृत्तिः परिकल्प्यताम्' इति प्रार्थितवान् । तस्य दैन्यस्थितिं द्रष्टुम् अशक्नुवन् तयोः एकः भिक्षुः बुद्धमूर्तेः प्रभावलीम् अपनीय भटाय दत्त्वा 'एतत् विक्रीय प्राप्तेन धनेन स्वस्य कष्टं परिहर' इति अवदत् । तेन कुपितम् अन्यं भिक्षुम् उद्दिश्य अवदत् 'मूर्तेः अलकरणस्य रक्षणात् अपि आर्तिनाशनम् एव परमं प्रमुखम्' ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This story took place in Japan when the influence of Lord Buddha was very strong. Because peace prevailed everywhere, wars did not occur, and many soldiers became unemployed. One such soldier suffered greatly due to the lack of livelihood, and his family could not even get food once a day. In despair, he went to a Buddhist temple, bowed to the monks there, and explained his miserable condition, requesting them to find some means of livelihood for him. Seeing his suffering, one of the monks removed a precious ornament from the statue of Buddha and gave it to the soldier, saying, “Sell this and use the money to overcome your hardship.” Also addressed his companion, “More important than protecting the ornament of the statue is relieving the suffering of a distressed person”.

Ep 443आत्मविश्वासः
कदाचित् कक्ष्यायाम् एकैकशः आगत्य श्लोककथनम् आरब्धवन्तः छात्राः । आदौ एकः छात्रः भीत्या आगत्य श्लोककथनम् आरब्धवान् । अर्धं यावत् श्रावितं तावता शिक्षकः 'अलम्! स्थगय !’ इति असूचयत । सः म्लानमुखः सन् प्रत्यागतवान् । एवमेव दशाधिकाः छात्राः अपि अध्यापकस्य 'स्थगय' इति आदेशं श्रुत्वा श्लोककथनं स्थगयित्वा स्वस्थानं गतवन्तः । यदा धीरजः इति छात्रः आगत्य कथनम् आरब्धवान् तदा 'स्थगय' इति अध्यापकेन उक्तं चेदपि सः समग्रं श्लोकं श्रावयित्वा अगच्छत् । अध्यापकः अवदत् 'श्लोकं समग्रतया श्रावयितुम् यद्यपि सर्वे अपि शक्ताः तथापि न्यूनेन आत्मविश्वासकारणेन कथनं स्थगयित्वा स्वस्थानम् अगच्छन् । आत्मविश्वासपरीक्षणाय एव मया भवन्तः श्लोककथनाय प्रेरिताः । तत्र धीरजः एकः एव उत्तीर्णः' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a classroom, students were called one by one to recite a verse. The first student, trembling with fear, began his recitation, but before he could complete it, the teacher interrupted saying, “Enough, stop!” The boy, with a sad face, returned to his seat. In the same way, more than ten students attempted, but each was stopped midway by the teacher’s command and went back to their places. Finally, when a student named Dheeraj came forward and began his recitation, the teacher again said “Stop!” Yet Dheeraj, with confidence, continued and completed the entire verse before returning. The teacher then explained that although all the students were capable of reciting the verse fully, most lacked self-confidence. He had arranged this exercise only to test their inner courage. Among all, only Dheeraj passed the test by showing confidence and determination.

Ep 442महावीरः इति ख्यातिः
'लोके वीरेषु कः श्रेष्ठः?’ इति विषये प्रवृत्ता काचित् चर्चा कदाचित् देवलोके इन्द्रसभां प्राप्ता । तदवसरे 'वर्धमाननामा यः भूलोके तिष्ठति सः एव वीरेषु श्रेष्ठः' इति इन्द्रः अवदत् । 'सः तु बालः' इति उपेक्षया अवदत् कश्चन सङ्गमनामकः देवपुरुषः । इन्द्रः तं बालं परीक्षितुम् अर्हन्ति इति यदा अवदत् तदा सङ्गमः सर्परूपं धृत्वा यत्र वर्धमानः मित्रैः सह क्रीडन् आसीत् तत् उद्यानम् अगच्छत् । तं सर्पं दृष्ट्वा सर्वे भीताः किन्तु वर्धमानः दक्षिणहस्तेन फणायाः अधोभागं गृहीत्वा पादं तस्य पुच्छे संस्थाप्य बलात् तस्य कण्ठभागं निपीडितवान् । दंष्टुं पुच्छेन प्रहर्तुं वा न शक्तं सर्पेण । स्वस्य पराजयम् अङ्गीकृत्य सङ्गमः सर्परूपं परित्यज्य नैजरूपेण प्रत्यक्षीभूय महावीम् आशिषा अनुगृहीतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, in the heavenly court of Indra, a discussion arose about who was the greatest among heroes in the world. Indra declared that a boy named Vardhamana, living on earth, was indeed the greatest. A divine being named Sangama dismissed this, saying that Vardhamana was only a child. Indra then suggested that even as a child, his courage was extraordinary and worthy of being tested. Sangama agreed and took the form of a serpent, descending to the garden where Vardhamana was playing with his friends. Seeing the serpent, all the children fled in fear, but Vardhamana stood firm with courage. He seized the lower part of the serpent’s hood with his right hand, pressed its tail with his foot, and tightly held its neck. The serpent tried to bite or strike with its tail but could not escape. Accepting defeat, Sangama abandoned his serpent form, appeared in his true divine form, and blessed Vardhamana for his unmatched bravery.

Ep 441शोभते दुग्धे शर्करा
इस्लामिकैः पारसदेशः यदा आक्रान्तः तदा ३०० परिवारजनाः स्वदेशत्यागं कृत्वा जलमार्गेण भारत्वर्षं प्राप्नुवन् । समुद्रतटे स्थितं सञ्जाणनगरं समागत्य प्रधानपुरोहितस्य नेतृत्वे ते तत्रत्यं राजानम् अग्निप्रतिष्ठापनार्थं देवालयं, निवासार्थं साधारणगृहाणि, उदरम्भरणाय कृषिभूमिं प्रार्थितवन्तः । राजा अवदत् 'सर्वविधानाम् अपेक्षाणां पूरणम् अपि प्रतिज्ञातम् । प्रतिफलरूपेण भवन्तः अस्मै देशाय किं दातुम् इच्छन्ति?’ इति । तदा प्रधानपुरोहितः 'एतादृशसमाजे दुग्धे शर्करावत् वयं सम्मिलिताः भविष्यामः' इति । तदनन्तरं शतकानि यावत् पारसिकाः भारतीयसमाजे पूर्णरूपेण विलीनाः अभवन् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When Persia was invaded by the Islamic forces, three hundred families left their homeland and reached India by sea. Arriving at the coastal town of Sanjan, under the leadership of their chief priest, they requested the local king to grant them land for building a temple to consecrate fire, houses for residence, and fields for cultivation to sustain themselves. The king said: “I promise to fulfill all your requests. But in return, what will you give to this land?” Then the chief priest replied: “We shall blend into this society like sugar in milk”. From that time onward, for centuries, the Persians (Parsis) became completely integrated into Indian society.

Ep 440रोदनस्य कारणम्
गुरोः विरजानन्दस्य उटजस्य स्वच्छता दयानन्दस्य दायित्वम् आसीत् । एकदा यदा दयानन्दः उटजं सम्मार्जयन् अवकरान् द्वारसमीपे राशीकृतवान् आसीत् तदा कश्चित् तम् आहूतवान् इति कारणतः अवकरान् अक्षिप्त्वा एव ततः निर्गतवान् । तावता तत्र आगतवतः क्षीणदृष्टिशक्तेः विरजानन्दस्य अवकरस्पर्शतः महान् कोपः जातः । सः दयानन्दम् आनाय्य दण्डेन निरन्तरं ताडितवान् । यदा दयानन्दः उच्चैः रोदनं कृतवान् तदा त्यक्तकोपः सन् गुरुः 'वत्स! महती वेदना जाता किम्?’ इति पृष्टे दयानन्दः अवदत् 'गुरो ! दण्डप्रहारजनितवेदनाकारणतः अहं न रोदिमि । प्रहारसमये कुसुमकोमलः भवतः हस्तः कियतीं वेदनाम् अनुभूतवान् स्यात् इति स्मरतः मम नेत्राभ्याम् अश्रूणि निर्गतानि' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The cleaning of Guru Virjananda’s hut was the responsibility of Dayananda. One day, while Dayananda was sweeping, he gathered the refuse near the doorway. Just then, someone called him, so he left without throwing it away. Soon after, Guru Virjananda, whose eyesight was weak, came and accidentally touched the refuse. Greatly angered, he called Dayananda and beat him repeatedly with a stick. When Dayananda cried aloud, the Guru, calming down, asked: “My child, did you suffer great pain?” Dayananda replied: “O Guru! I did not cry because of the pain from your blows. I wept because I thought of how much pain your tender, flower-like hand must have felt while striking me”.

Ep 439दरिद्रतायाः भ्रान्तिः
कदाचित् कश्चन दरिद्रः अब्राहंलिङ्कन्-महोदयस्य समीपम् आगत्य 'किमपि ददातु' इति अपृच्छत् । तदा लिङ्कनवर्यः 'भवतः हस्तद्वयं मह्यं ददातु । अहं लक्षडालर्-परिमितं धनं दास्यामि' इति उक्तवान् । 'मम अमूल्यहस्तौ भवते दत्त्वा अहं किं करिष्यामि?’ इति अवदत् दरिद्रः । ततः पादद्वयं, नेत्रद्वयं ददातु इति यदा लिङ्कनवर्यः अवदत् तदा कोपेन दरिद्रः 'अहं अत्यमूल्यानि अङ्गानि कदापि न ददामि' इति अवदत् । अन्ते लिङ्कवर्यः वदति 'भवान् कश्चन सुदृढकायः आरोग्यवान् जनः । तस्य सदुपयोगं करोतु' इति । एतत् श्रुत्वा दरिद्रः अवदत् 'भवता अङ्गानाम् अमूल्यता दर्शिता । अहं परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a poor man came to Abraham Lincoln and asked him for something. Lincoln said: “Give me your two hands, and I will give you one hundred thousand dollars”. The poor man replied: “If I give you my priceless hands, what will I do then?” Lincoln then said: “Give me your feet, give me your eyes.” The poor man, now angry, answered: “I will never give away my invaluable limbs”. Finally, Lincoln said: “You are a strong and healthy person. Make good use of that”. Hearing this, the poor man said: “You have shown me the priceless value of my body. I will work hard and make my life meaningful”.

Ep 438वृक्षादपि न हीनोsहम्
आसीत् पुरा रणजितसिंहनामकः कश्चन प्रजानुरक्तः राजा यः न्यायेन धर्मेण च राज्यं परिपालयति स्म । कदाचित् वनविहारार्थं गच्छतः राज्ञः ललाटे कुतश्चित् कश्चन शिलाखण्डः पतितः । तस्य कारणान्वेषणे कृते ज्ञातं यत् काचित् वृद्धा बुभुक्षिताय पुत्राय वृक्षे विद्यमानं बहुबीजफलं प्राप्तुम् एकं शिलाखण्डम् अक्षिपत् । दौर्भाग्यवशात् सः शिलाखण्डः राज्ञः ललाटे पतितः । जडः वृक्षः अपि पाषाणघातं प्राप्य फलं ददाति, सचेतनः अहं कथं वा एतां दण्डयेयम् ? इति विचिन्त्य राजा तस्यै वृद्धायै आहारसामग्रीं, सहस्रं सुवर्णनाणकानि च दत्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Long ago, there was a king named Ranjit Singh, beloved by his people, who ruled with justice and righteousness. One day, while going for a walk in the forest, a stone suddenly fell on his forehead. On investigating the cause, it was discovered that an old woman, in order to feed her hungry son, had thrown a stone at a tree to obtain its fruit. By misfortune, the stone struck the king’s forehead. The king reflected: “Even an insentient tree gives fruit only after being struck by a stone. How then can I, a conscious being, punish this poor woman?” With this thought, the king gave her food supplies and a thousand gold coins.

Ep 437सत्यनिष्ठा
श्रीमतः गोपालकृष्णगोखलेवर्यस्य बाल्ये प्रवृता घटना एषा । कदाचित् शिक्षकः कांश्चन प्रश्नान् दत्तवान् । यद्यपि सर्वे छात्राः प्रश्नानाम् उत्तराणि अलिखन् तथापि गोखलेवर्यस्य एव सर्वेषां प्रश्नानाम् उत्तराणि उत्तमरीत्या अलिखत् । एतेन सन्तुष्टः शिक्षकः भूरि प्रशंसां कृत्वा तस्मै पुरस्कारं दातुं यदा उद्युक्तः तदा रोदनम् आरब्धं गोखलवर्येण । 'किमर्थं रोदिति ?’ इति शिक्षकेण पृष्टे अवदत् गोखलेवर्यः 'एतेषु उत्तरेषु एकस्य प्रश्नस्य उत्तरं मम मित्रं पृष्ट्वा अलिखम् । भवन्तं वञ्चितवान् अस्मि । अतः अहं न पुरस्कारार्हः, अपि तु दण्डनार्हः' इति । तस्य सत्यवचेन सन्तुष्टः शिक्षकः 'भवतः सत्यप्रियतायै पुरस्कारः दीयते' इति उक्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This is an incident from the childhood of the revered Gopal Krishna Gokhale. Once, a teacher gave some questions to the students. Although all the students wrote answers, only Gokhale wrote all of them in the best manner. The teacher, pleased with him, praised him greatly and was about to give him a reward. But Gokhale began to cry. When the teacher asked the reason, Gokhale said: “For one of these answers, I asked my friend and wrote it down. I have deceived you. Therefore, I am not worthy of a reward, but rather of punishment”. Hearing his truthful words, the teacher was deeply satisfied and said: “This reward is given to you for your love of truth”.

Ep 436श्रीदेव्याः कौशलम्
केरले पूर्वं कश्चन नम्पूतरिः दरिद्रः चेदपि अतिथिसत्कारप्रियः । सः प्रतिदिनं कमपि जनं भोजनार्थम् आह्वयति स्म । किन्तु पत्न्यै श्रीदेव्यै पत्युः एषः स्वभावः दारिद्र्यकारणात् न रोचते स्म । एकस्मिन् दिने यदा नम्पूतरिः त्रिभिः अथितिभिः साकं गृहम् आगच्छत् तदा पत्युः एतादृशस्य शीलस्य अन्त्यं कर्तुम् ऐच्छत् श्रीदेवी । पतिः स्नानार्थम् अगच्छत् अतिथयः च बुभुक्षिताः सन्तः उपविष्टवन्तः आसन् । पाकशालायां मुसलं पूजयन्तीं श्रीदेवीं दृष्ट्वा अतिथयः तस्य कारणम् अपृच्छन् । तदा श्रीदेवी अवदत् 'भोजनानन्तरं मम पतिः मुसलेन अतिथीन् प्रहरति' इति । एतत् श्रुत्वा अतिथयः अधावन् । तदनन्तरं न कोSपि तस्य गृहं प्रति भोजनार्थम् आगतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Kerala, there once lived a Namboodiri who, though poor, was very fond of hospitality. Every day he would invite someone home for a meal. His wife, Sridevi, however, disliked this habit because of their poverty. One day, the Namboodiri returned home with three guests. Wishing to put an end to her husband’s practice, Sridevi devised a plan. While her husband went to bathe, the hungry guests sat waiting. In the kitchen, they saw Sridevi worshipping a pestle and asked her the reason. She replied: “After meals, my husband strikes the guests with this pestle”. Hearing this, the frightened guests ran away. From then on, no one came to their house for food.

Ep 435क्षुल्लकम् अपि न त्याज्यम्
कदाचित् गान्धिवर्यः स्वस्य आश्रमे कस्मिंश्चित् कार्ये व्यस्तः आसीत् । तस्य लेखन्याः मषी समाप्तप्राया जाता । अन्येद्युः सः लेखनार्थम् आगत्य यदा उपाविशत् तदा सा लेखनी तत्र न असीत् । सहोद्योगिनं यदा अपृच्छत् तदा सः अवदत् यत् यतः सा लेखनी अतिप्राचीना जाता अतः तां बहिः अक्षिपम् इति । तत्क्षणे एव गान्धिवर्यः अतीवक्रुद्धः जातः । आश्रमे सर्वे अपि लेखन्याः अन्वेषणम् आरब्धवन्तः । अन्ते आश्रमस्य पुरतः केदारखण्डे पतिता लेखनी प्राप्ता । तां प्राप्य गान्धिवर्यः अवदत् 'क्षुद्रवस्तुनः अपि मूल्यं न कदापि न्यूनम् । अल्पमूल्यकानाम् अपि वस्तुनां महत्त्वं वर्तते अस्माकं जीवने' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Gandhi was busy with some work in his ashram. His pen had nearly run out of ink. The next day, when he came to write, the pen was missing. On asking a co-worker, he was told: “Since the pen had become very old, I threw it away”. Immediately, Gandhi became very upset. Everyone in the ashram began searching for the pen, and at last it was found lying in a field outside. Holding it, Gandhi said: “Even the smallest object should never be undervalued. Things of little cost still hold great importance in our lives”.

Ep 434वृषभयोः स्पर्धा
सरयूनद्याः उत्तरभागः गङ्गोली इति नाम्ना ख्यातः । दक्षिणभागश्च कुमू इति नाम्ना प्रसिद्धः । गङ्गोलीक्षेत्रवासिनः अतीव चतुराः कुमूक्षेत्रस्य जनाः सरलाः विनीताश्च भवन्ति । कदाचित् सरयूनद्याः तटे द्वयोः क्षेत्रयोः वृषभौ सम्मिलितौ । परिचयानन्तरं तयोः स्पर्धा प्रवृता यत् कः वृषभः सरयूनद्याः जलम् अधिकं पातुं समर्थः इति । कुमूक्षेत्रस्य वृषभस्तु जलं पीत्वा पीत्वा किञ्चित्कालानन्तरम् अचेतनत्वं गतः । गङ्गोलीकक्षेत्रस्य वृषभः चतुरः आसीत् । सः जलं न अपिबत् । केवलं जलधारायां मुखं कृत्वा पानमुद्रायाम् अतिष्ठत् । सहसा तयोः रक्षकौ आगत्य तौ नीतवन्तौ ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)On the northern bank of the Sarayu River lies Gangoli, and on the southern bank lies Kumoo. The people of Gangoli are known for their cleverness, while those of Kumoo are simple and humble. Once, two bulls from these regions met at the riverbank. They began a contest to see which bull could drink more water from the Sarayu. The bull from Kumoo drank continuously until he collapsed unconscious. The bull from Gangoli, being clever, did not drink at all—he merely placed his mouth in the stream and pretended to drink. Soon, the keepers of the bulls arrived and took them away.

Ep 433यानपेटिका पाचकश्च
बेङ्गलूरुनगरे कस्मिंश्चित् पञ्चतारापेते उपहारमन्दिरे केनचन युवकपाचकेन अनुजायाः विवाहनिमित्तं उपहारमन्दिरस्य स्वामिने दशसहस्ररूप्यकाणि ऋणरूपेण प्रार्थितानि। किन्तु तस्य प्रार्थना निराशतायां पर्यवसिता । कदाचित् सुखासने त्यक्ता यानपेटिका दृष्टा युवकेन । ताम् उपहारमन्दिरस्य स्वामिनः समीपे अनयत् । सप्ताहः अतीतः चेदपि पेटिकायाः विचारणार्थं कोऽपि न आगतः इत्यतः स्वामी यानपेटिकातः दशसहस्ररूप्यकाणि निष्कास्य पाचकाय अयच्छत् । किन्तु तन्निराकरोति पाचकः । नवमे दिने पेटिकायाः स्वामी आगत्य 'धनपेटिकायाः रक्षणे करणीभूतः अयं पाचकः' इति ज्ञात्वा दशसहस्ररूप्यकाणि दातुं यदा उद्युक्तः तदा सः पाचकः ऋणरूपेण ददातु इति प्रार्थितवान् । तथैव अकरोत् पेटिकायाः स्वामी ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Bengaluru, at a five-star restaurant, a young cook requested a loan of ten thousand rupees from the owner for his younger sister’s wedding. The request was denied. Later, the cook found a suitcase left behind on a sofa and brought it to the owner. A week passed, but no one came to claim it. The owner then took out ten thousand rupees from the suitcase and offered it to the cook. The cook refused. On the ninth day, the true owner of the suitcase arrived. Realizing that the cook had safeguarded the suitcase, the restaurant owner again wished to give him ten thousand rupees. This time, the cook requested it as a loan, and the owner agreed.

Ep 432पितृभक्तिः
१८५७ तमे वर्षे कोलकाताविश्वविद्यालयतः बि.ए परीक्षायाम् अधिकान् अङ्कान् प्राप्तवन्तं बङ्किमचन्द्रवर्यं तदानीन्तनः राज्यपालः हालेण्ड्-वर्यः स्वगृहम् आहूतवान् । ततः 'भवान् अद्य आरभ्य उपदण्डाधिकारिरूपेण कार्यारम्भं करोतु' इति बङ्किमचन्द्रम् उक्तवान् । परन्तु बङ्किमचन्द्रः राज्यपालाय धन्यवादान् समर्प्य अवद्त् 'उद्योगस्वीकारविषये मया मम पिता प्रष्टव्यः । तस्य विचारानुसारम् एव निर्णयं करिष्यामि' इति । पुत्रस्य मुखात् एव प्रवृत्तं समग्रं श्रुत्वा नितरां सन्तुष्टः पिता, उपदण्डाधिकारिपदस्य स्वीकाराय पुत्राय अनुमतिं दत्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In 1857, Bankim Chandra, having secured high marks in the B.A. examination from Calcutta University, was invited by the then Governor, Halliday, to his residence. The Governor said to him: “From today, you shall begin work as a Deputy Magistrate”. Bankim Chandra, offering thanks, replied: “Before accepting any appointment, I must consult my father. I will decide according to his advice”. Hearing such words directly from his son, the father was deeply pleased and gave his consent for Bankim Chandra to accept the post of Deputy Magistrate.

Ep 431धनं तु तव पार्श्वे अस्ति
कदाचित् मोहननामकः कश्चित् यदा धनार्जनं कृत्वा स्वग्रामं प्रति आगच्छन् आसीत् तदा कश्चन वञ्चकः तम् अनुसृतवान् । रात्रौ कस्यांचन धर्मशालायांं भोजनं कृत्वा शयनम् अकुरुताम् । मध्यरात्रे वञ्चकः मोहनस्य पोटलीवस्त्रम् उद्घाट्य ज्ञातवान् यत् तत्र धनं नास्ति इति । एवमेव अग्रिमदिने अन्यस्यां धर्मशालायाम् अपि वञ्चकेन मोहनस्य धनं न प्राप्तम् । एतस्य समीपे धनमेव नास्ति इति मत्वा यदा वञ्चकः अन्यस्मिन् मार्गे गमनाय उद्युक्तः तदा मोहनः तं स्वगृहं भोजनार्थम् आहूतवान् । सम्भाषणावसरे मोहनः अवदत् 'धनं तु तव पार्श्वे एव असीत् । रात्रौ भवतः कटस्य अधः पोटलीवस्त्रं स्थापयामि स्म । तव समीपे पुरुषार्थरूपि धनम् अस्ति एव' इति उक्त्वा तस्मै सहस्ररूप्यकाणि दत्त्वा 'तेन कमपि व्यवसायं कुरु' इति अवदत् । वञ्चकः मोहनस्य चरणयोः अपतत्, क्षमां च अयाचत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a man named Mohan, after earning some money, was returning to his village. A trickster followed him. At night, both stayed in a rest-house, ate, and slept. At midnight, the trickster opened Mohan’s bundle but found no money. The next day, in another rest-house, he again searched but found nothing. Thinking Mohan had no wealth, the trickster prepared to leave by another road. Mohan then invited him home for a meal. During their conversation, Mohan said: “The real wealth was always with you. At night I placed my bundle under your waistcloth. True wealth lies in human effort”. Saying this, Mohan gave him a thousand rupees and advised: “Use this to start some honest work”. The trickster fell at Mohan’s feet, begged forgiveness, and was transformed.

Ep 430भगवद्दर्शनम्
महाविद्यालयस्य कश्चन अध्यापकः देवदत्तः ईश्वरदर्शनं कर्तुं वाञ्च्छन् कस्यचन साधोः समीपं गच्छति । साधुः देवदत्तस्य सहनाशक्तेः परीक्षां करोति । यतः सहनां विना किमपि सिद्ध्यति न लोके । अन्ते महात्मना 'भगवान् बहिः कुत्रापि नास्ति । स तु निर्धनानां रुग्णानां पीडितानां च हृदये निवसति.....’ इत्यादि वचनैः देवदत्तः बोधितः । तस्मात् क्षणात् देवदत्ते विवेकः समुद्भूतः। सर्वां सम्पत्तिं निर्धनेषु वितीर्य रुग्णानां चिकित्सायां संलग्नः अभवत्। । तेषु सः ईश्वरस्य दर्शनं कृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A college teacher named Devadatta wished to see God and went to a saint. The saint tested his patience, saying that without endurance nothing can be achieved in life. Finally, the saint explained: “God is not outside anywhere. He dwells in the hearts of the poor, the sick, and the suffering”. At that moment, Devadatta gained true understanding. He gave away all his wealth to the needy and devoted himself to serving the sick. In them, he experienced the vision of God.

Ep 429प्रसादात्तु प्रसन्नता
कस्यचन धनिकस्य गृहे विवाहप्रसङ्गे कश्चन लघुः बालकः रोदिति स्म । रोदनं कुर्वतः बालस्कय कर्मकरी माता पात्राणि प्रक्षालन्ती आसीत् । केचन आगत्य तस्य समाधानं कर्तुं प्रायतन्त । किन्तु तस्य बालकस्य रोदनं न समाप्तम् । तदनन्तरं तस्य माता आगत्य पुत्रम् उन्नीय तस्य केशेषु हस्तं प्रसार्य 'हुलुलुलु' इति उक्तवती येन सः शीघ्रमेव प्रसन्नः जातः । तदा तत्र स्तिथः कश्चन यदा 'हुलुलुलु' इत्यस्य अर्थम् अपृच्छत् तदा तया उक्तम् ''हुलुलुलु' इत्यस्य अर्थं ज्ञातुम् इष्यते चेत् भवान् मम पुत्रो भूत्वा आगच्छेत् । मातुः शब्दप्रसादेन एव शिशोः प्रसन्नता भवति' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During a wedding in a wealthy man’s house, a small child began to cry. His mother, a servant busy washing dishes, could not attend to him at once. Others tried to comfort the child, but his crying did not stop. Later, the mother came, lifted her son, gently ran her hand through his hair, and said “hulululu.” Immediately, the child became cheerful. Someone present asked her the meaning of “hulululu”. She replied: “If you wish to know its meaning, you must become my son. A mother’s soothing words alone bring joy to her child”.

Ep 428सत्यं चैव परं वदेत्
कदाचित् राजसभायां मरणदण्डं प्राप्तवता बन्धिना राजा अवाच्यशब्दैः निन्दितः । तस्य वचनानि अनवगच्छन् राजा पार्श्वस्थान् अपृच्छत् 'किं वदन्नस्ति सः?’ इति । कश्चन चतुरः मन्त्री अवदत् 'स्वस्य आक्रोशम् असमाधनञ्च निगृह्य अन्येषां दोषं यः क्षामयति स एव श्रेष्ठः' इति । राज्ञि करुणा उत्पन्ना । मरणदण्डनम् अपाकृतवान् च । अपरः मन्त्री अवदत् 'राज्ञः सन्निधौ असत्यं न वक्तव्यम् । सः बन्धी अवाच्यैः शब्दैः अनिन्दत्' इति । तदा राजा अवदत् 'भवता उक्तस्य सत्यस्य अपेक्षया तेन उक्तम् असत्यमेव श्रेष्ठम् । यतः तेन उक्तम् असत्यं मानवहितोद्देशेन' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, in a royal court, a prisoner condemned to death insulted the king with abusive words. The king could not understand them and asked his ministers what the prisoner had said. One wise minister replied: “He who restrains his own anger and forgives the faults of others is truly great.” Hearing this, compassion arose in the king’s heart, and he canceled the death sentence. Another minister then said: “One must not speak falsehood before the king. The prisoner indeed used abusive words”. The king responded: “The false words spoken by my minister are better than the truth, for they were spoken with the intention of human welfare”.

Ep 427अन्तर्भागे क्रियाशक्तिः
कदाचित् किञ्चन विशालम् उद्यानं वातगोलकविक्रेता आगच्छत् । विविधवर्णीयानि चित्रयुतानि अनिलगोलकानि बालकाः क्रीत्वा, उड्डीयमानानि तानि दृष्ट्वा हसन्ति नृत्यन्ति च । तत्रत्याः बालकाः, वृद्धा, विक्रेता इत्यादयः सर्वे जनाः श्वेतवर्णीयाः एव । तस्मिन्नेव उद्याने कश्चन कृष्णवर्णीयः सप्तवर्षीयः निग्रोबालकः दूरतः एव वातगोलकानि पश्यति । अमेरिकादेशे गौरवर्णीयाः निग्रोजनानाम् अवलेहनां कुर्वन्ति स्म । सः विक्रेतुः समीपम् आगत्य अपृच्छत् 'किं कृष्णगोलकम् अपि आकाशे उड्डयितुं शक्नोति? कृष्णगोलकम् अपि उदानवायुं धर्तुं शक्नुयात्?’ इति । 'गोलकस्य अन्तर्भागे वर्तते उदानवायुः यः उड्डयनं कारयति एव' इति प्रत्यवदत् विक्रेता । सः बालकः विचारमग्नः सन् ग्रीवां हिनोति । शनैः शनैः दूरं गच्छति । तस्य कृष्णकपोले स्मितरेखा प्रस्फुटति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a balloon-seller came to a large garden. Children bought colorful balloons, laughed, and danced as they watched them rise into the sky. All the people there—the children, elders, and the seller—were white. In the same garden, a seven-year-old Black boy stood at a distance, watching the balloons. In America, white people often looked down upon Black people. The boy approached the seller and asked: “Will a black balloon also fly in the sky? Can it also hold the air that makes it rise?” The seller replied: “It is the air inside the balloon that makes it rise.” The boy, deep in thought, slowly walked away, a smile appearing on his dark cheeks.

Ep 426याचकः नृपः
कदाचित् आखेटाय गतवता चन्दनपुरस्य दयावता राज्ञा उसमानेन किञ्चिदपि न लब्धम् । पिपासया व्याकुलेन तेन कुत्रापि जलं न प्राप्तम् । सः भूमौ पतितः । कश्चन कृषिकः राजानं गृहम् आनाय्य जलभोजनादिकम् अयच्छत् । कृषकस्य सेवातः सन्तुष्टः राजा तस्मै किमपि दातुम् ऐच्छत् । यदि किमपि आवश्यकं भविष्यति तर्हि भवतः प्रासादम् आगमिष्यामि इति उक्तवान् कृषकः । अग्रे कदाचित् राजा हस्तौ उपरि गगनदिशि प्रसार्य 'कुरान' नामकस्य धर्मग्रन्थस्य पठनं करोति स्म, तदा कृषकः आगच्छत् । भगवन्तं सुखशान्त्यादिकं याचन्तं राजानं दृष्ट्वा कृषकः अवदत् 'भवान् अपि मत्सदृशः कश्चन याचकः एव । याचकः याचकं न याचेत् । अतः अहं किमपि भवन्तं न याचामि' इत्युक्त्वा ततः निर्गतः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, the compassionate king Usman of Chandanapura went hunting but found nothing. Overcome with thirst, he collapsed, unable to find water. A farmer brought him home and offered food and drink. Grateful, the king wished to reward him. The farmer replied, “If ever I need something, I will come to your palace”. Later, when the king was reading the holy book Qur’an, raising his hands to the sky and praying for peace and happiness, the farmer arrived. Seeing the king himself as a supplicant before God, the farmer said: “You are also a beggar like me. A beggar should not beg from another beggar. Therefore, I will not ask you for anything.” Saying this, he departed.

Ep 425सहसा विदधीत न क्रियताम्
कदाचित् किञ्चन यात्रिकदलं मरुस्थलम् अतिक्रामत् आसीत् । तस्मिन् मरुस्थले जलं, भोजनादिकं किमपि न असीत् तस्य दलस्य सदस्यानां निकटे । एकस्मिन् स्थले ते बहूनि फलानि धारयतः वृक्षान् दृष्ट्वा सर्वे अपि वृक्षं प्रति अधावन् । तदा दलनायकः तान् निरुद्ध्य तानि फलानि उपयोगयोग्यानि वा न वा इति परीक्षां कृतवान् । तदा तैः ज्ञातं यत् तानि फलानि विषयुक्तानि इति । एवंप्रकारेण दलनायकस्य योग्यताकारणतः दलस्य रक्षणम् अभवत् । अतः अस्माभिः अनायासेन प्राप्तस्य वस्तुनः उपयोगितायाः परीक्षणं कृत्वा एव उपयोगः करणीया ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a group of travellers was crossing a desert. They had no water or food with them. At one place, they saw a tree bearing many fruits and rushed toward it. The leader of the group stopped them and tested whether the fruits were safe to eat. It was then discovered that the fruits were poisonous. Because of the leader’s wisdom, the entire group was saved. Before using anything obtained easily, one must test its usefulness and safety.

Ep 424अनुकम्पः
कदाचित् लुण्ठाकाः कञ्चित् बौद्धभिक्षुम् आक्रम्य दण्डेन विध्यन्तः कर्णम् आकर्षन्तः विचित्रं मनोरञ्जनं प्राप्नुवन्ति स्म । तद् दृष्टवतः भिक्षोः नेत्रे अश्रुधारापूर्णे जाते । रोदनशीलं भिक्षुं दृष्ट्वा ते उपहासं कृतवन्तः । तदा भिक्षुः अवदत् 'अहं भवतः निमित्तीकृत्य रोदिमि । आरोग्यवन्तः बुद्धिमन्तः अस्य देशस्य निर्मातारः भवन्तः । तत्कार्यं विहाय ईदृशेषु दुष्कार्येषु मग्नाः सन्तः जीवनं व्यर्थं कुर्वन्तः सन्ति खलु इति रोदिमि' इति । एतादृश्यां वेदनामय्यां स्थित्यामपि अयं भिक्षुः अस्मद्विषये चिन्तयति इति लुण्ठकानां नेत्रेषु अश्रुधाराप्रवाहः जातः । ते भिक्षुं क्षमां सम्प्रार्थ्य तदीयाः शिष्याः जाताः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, some ruffians attacked a Buddhist monk, beating him and pulling his ears for amusement. Seeing this, tears filled the monk’s eyes. The ruffians mocked him, but the monk said: “I weep not for myself, but for you. Healthy and intelligent, you are the builders of this land. Yet, instead of noble work, you waste your lives in such misdeeds”. Hearing this, the ruffians were moved. Realizing that even in pain the monk cared for them, tears flowed from their eyes. They begged his forgiveness and became his disciples.

Ep 423यथा चिन्तनं तथा फलम्
कस्यचन वृद्धस्य एकः पुत्रः अलसः अपरः च श्रमजीवी असीत् । मरणात् पूर्वमेव गृहक्षेत्रादीनां विभागं कृत्वा पुत्रौ आहूय यथाशक्ति बोधितवान् - छायायां चैव गन्तव्यम् आगन्तव्यमं तथैव च । मिष्टान्नं भक्षयेन्नित्यं ततो लक्ष्मीकृपा भवेत् ।। पित्रा बोधिता नीतिः एका एव । उभौ अपि पुत्रौ स्वमत्यनुगुणं तस्य अर्थम् अवगत्य तदनुगुणम् एव फलं प्राप्तवन्तौ । यः उत्तमं जीवनं करोति सः उत्तममेव फलं प्राप्नोति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)An old man had two sons—one lazy, the other hardworking. Before his death, he divided his property and advised them: “Stay in the shade, come and go wisely, and eat sweet food daily—then fortune will favor you”. Both sons interpreted this teaching in their own way. The lazy son took it literally, seeking comfort and indulgence, while the hardworking son understood it as guidance for living a virtuous, diligent life. Each received results according to his understanding.

Ep 422अनपेक्षिता सेवा
चीनादेशस्य कैसाकनामकस्य श्रेष्ठचर्मकारस्य एकमात्रपुत्रः चुवाङ्गः कुलवृत्तिम् उपेक्ष्य स्वच्छन्दं मित्रैः सह अटति स्म । तेनैव मनोरोगेण पीडितः सन् अल्पेषु एव दिनेषु कैसाकः दिवं गतः । स्वेच्छाचारी चुवाङ्गः कैसाकस्य अर्जितं सर्वं धनं व्ययीकृतवान् । कदाचित् राजा तम् आनाय्य 'राज्ञीवासजनेभ्यः सुन्दरीः पादरक्षाः सीवयित्वा ददातु' इति अवदत् । पितृवाक्यस्य उपेक्षा या कृता तदर्थं पश्चात्तापम् अनुभवन् अञ्जलिं बद्ध्वा पितरं रक्षणार्थं प्रार्थितवान् । प्रातः उत्थाय चुवाङ्गः अपश्यत् यत् पादरक्षाः निर्मिताः आसन् । राजा बहुधा प्रशंसन् तस्मै भूरि धनम् अयच्छत् । एकस्मिन् दिने मध्यरात्रे पादसीवनस्थले काचित् अप्सरस्स्त्री दृष्टा चुवाङ्गेन । यतः सा आलस्येन कुलवृत्तिम् उपेक्षितवती अतः देवेन्द्रः ये स्ववृत्तेः उपेक्षां कुर्वन्ति तेषां सेवा करणीया इति तां भूलोकं प्रेषितवान् आसीत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In China lived Kaisak, a master shoemaker, whose son Chuwang ignored the family trade and wasted his father’s wealth. When the king ordered him to make fine shoes, Chuwang regretted neglecting his duty and prayed for help. Miraculously, the shoes appeared, earning him praise and riches. Later, he saw a celestial maiden sent by Indra to serve him, as she too had neglected her own duty.

Ep 421सङ्घे शक्तिः कलौ युगे
कदाचित् निर्धनः देवदत्तः धनार्जनाय पत्नीपुत्रैः सह वनं गत्वा एकस्य वृक्षस्य अधः उपविश्य रज्जुनिर्माणम् आरब्धवान् । पत्नी पुत्रौ च विविधानां वृक्षाणां त्वचः सङ्गृह्य आनीतवन्तः। स्वकार्ये दत्तचित्तान् जनान् दृष्ट्वा तस्मात् वृक्षात् एकः यक्षः प्रत्यक्षीभूय अपृच्छत् 'भवन्तः अत्र किं कुर्वन्ति?’ इति । यद्यपि देवदत्तः भीतः तथापि धैर्येण अवदत् 'भवतः पादबन्धनार्थं रज्जुनिर्माणं कुर्वन्तः स्मः' इति । भीतः यक्षः 'मां रक्षतु । वृक्षस्य दशपाददूरे बह्व्यः सुवर्णमुद्रिकाः सन्ति' इति अवदत् । देवदत्तः धनं गृहीत्वा पत्नीपुत्रैः सह स्वगृहम् आगतवान् । तस्य दारिद्र्यचिह्नानि लुप्तानि अभवत् । यत्र सुमेलनं भवति तत्र बहुसम्पदा भवति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a poor man named Devadatta went to the forest with his wife and son to earn a living. Sitting beneath a tree, he began making ropes, while his wife and son collected bark from various trees. Seeing them absorbed in their work, a yaksha appeared and asked, “What are you doing here?” Though frightened, Devadatta bravely replied, “We are making ropes to bind your feet”. Terrified, the yaksha pleaded, “Spare me! Ten steps from this tree lies a treasure of gold coins—take them”. Devadatta gathered the wealth and returned home with his family. From then on, his poverty vanished.

Ep 420अतिलोभः विनाशाय भवति
भगवान् बुद्धः पूर्वस्मिन् जन्मनि बोधिसत्त्वनामकः क्रीडनकविक्रेता आसीत् । अन्यः अपि विक्रेता आसीत् यः स्वभावेन दुष्टः वञ्चकः च । कदाचित् दुष्टः क्रीडनकविक्रेता एकस्य गृहस्य पुरतः आगतः तदा काचित् बाला 'क्रीडनकं दापयतु' इति वृद्धाम् अपृच्छत् । वृद्धा एकां पुरातनीं स्थालिकाम् आनीय स्थालिकायाः विनिमयेन एकं क्रीडनकं यच्छ इति क्रीडनकविक्रेतारम् अयाचत । 'तुच्छम् अपि क्रीडनकं न प्राप्यते अनेन स्थालिकाविनिमयेन । अन्यत् पात्रं वा धनं वा आनयतु' इति उक्त्वा ततः गतः । परेद्युः यदा बोधिसत्त्वः क्रीडनविक्रयणार्थम् आगतः सा वृद्धा तम् अपि अहूय स्थालिकां दर्शितवती । सुर्वर्णमयीं स्थालिकां दृष्ट्वा बोधिसत्त्वः सर्वाणि अपि क्रीडनकानि, स्वसमीपस्थं सर्वमपि धनं च दत्त्वा गतः । वञ्चकः विक्रेता प्रवृत्तं सर्वं ज्ञात्वा शोकमग्नः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a previous birth, the Buddha was a toy-seller named Bodhisattva. Another seller was wicked and deceitful. One day, the deceitful seller came before a house where a little girl asked her grandmother for a toy. The grandmother brought out an old bowl and requested a toy in exchange. The wicked seller scoffed, saying, “Not even a worthless toy can be given for this. Bring another vessel or money,” and left. The next day, Bodhisattva came selling toys. The grandmother showed him the same bowl. Seeing that it was made of gold, Bodhisattva gave her all his toys and all his money, then departed. When the deceitful seller later learned what had happened, he was overcome with grief.

Ep 419सद्भक्तः अम्बरीषः
कदाचित् महान्-विष्णुभक्तः राजा अम्बरीषः साधनद्वादशीव्रतम् आरब्धवान् । इन्द्रः तस्य व्रतस्य भङ्गार्थं महातपस्विनं दूर्वासमुनिं नियोजितवान् । सप्तसहस्रेण शिष्यैः सह आगतस्य मुनिवरस्य विशेषसत्कारं कृतवान् अम्बरीषः । दूर्वासमुनिः शिष्यैः सह आह्निकादिकं कर्तुं नदीं गत्वा सोद्देशम् एव शीघ्रं न आगतः । द्वादश्याः सूर्योदयसमयः आसन्नः आसीत् । व्रतभङ्गः न भवेदिति कारणतः अम्बरीषः देवाय नैवेद्यम् अर्पयित्वा स्वयं च तीर्थं सेवमानः पारणां समापितवान् । नदीतः प्रत्यागतः दूर्वासः क्रुद्धः सन् अम्बरीषस्य हननार्थं तपोबलेन काञ्चित् राक्षसीं सृष्टवान् । भक्तस्य रक्षणाय विष्णोः सुदर्शनचक्रं राक्षस्याः संहारं कृत्वा दूर्वासस्य संहराय उद्युक्तम् अभवत् । अनन्तरं विष्णोः आदेशानुसारं दूर्वासः अम्बरीषस्य शरणं गतवान् । सुदर्शनचक्रं ततः प्रत्यागच्छत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Ambarisha, a devoted follower of Vishnu, observed the Dvadashi fast. To disrupt it, Indra sent Sage Durvasa. Ambarisha honored him, but when Durvasa delayed at the river and sunrise neared, Ambarisha completed the ritual by offering food to the deity and sipping holy water. Angered, Durvasa created a demoness to kill him. To protect his devotee, Vishnu’s Sudarshana Chakra destroyed the demoness and turned against Durvasa himself. Terrified, Durvasa sought refuge in Vishnu, who directed him to Ambarisha. When Durvasa bowed before the king, the Chakra withdrew.

Ep 418सहकारस्य महिमा
कदाचित् प्रसीदः प्रजापतिः सहभोजम् आयोजितवान् यत्र देवाः दानवाः चा निमन्त्रिताः । परस्परं कलहादिकं कुर्युः इति भीत्या तेषां पृथक्-पृथक् भोजनव्यवस्था कृता । प्रासादस्य प्रवेशद्वारे आगन्तुकानां द्वावपि हस्तौ एकैकेन काष्ठपट्टकेन हस्तं वस्त्ररज्जुभिः च बद्धवा तेषां तेषां भोजनस्थलस्य मार्गं दर्शितवन्तः । प्रथमं दानवभोजनकक्षं गतवान् प्रजापतिः । स्वमुखे ग्रासम् अर्पयितुम् असमर्थाः दानवाः तारस्वरेण प्रजापतेः इमां धूर्ततां निन्दन्तः आसन् । ततः देवानां भोजनागारं यदा प्रविष्टवान् तदा एकैकस्य पात्रस्य पुरतः द्वौ द्वौ देवौ परस्परं सांमुख्येन उपविष्टौ भोज्यानि अन्योन्यस्य मुखे समर्प्य तानि आस्वादयन्तौ आस्ताम् । अस्यां विवशायामपि स्थितौ देवैः कश्चन उपायः आसादितः इति दानवेभ्यः दर्शितं प्रजापतिना(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Prajapati arranged a grand feast, inviting both gods and demons. Fearing quarrels, he seated them separately. At the palace entrance, each guest’s hands were tied to wooden planks with cloth ropes, so they could not bend their arms to feed themselves. When Prajapati visited the demons’ hall first, they were frustrated, unable to bring food to their mouths, and angrily accused him of trickery. Later, in the gods’ hall, he saw pairs of gods seated opposite each other. Instead of trying to feed themselves, they offered food into one another’s mouths and happily enjoyed the meal. Thus, Prajapati showed the demons that even in helpless situations, the gods had found a wise solution—cooperation.

Ep 417शापिता पुष्पिकाराज्ञी
कस्मिंश्चित् वनप्रदेशे पुष्पिकाणां राज्ञी अतीव लावण्यवती अपि रूपगर्विता, व्यवहारेण सा अतिक्रूरा च आसीत् । मायया सा अप्सरसः रूपं धृत्वा मृगयार्थं वनप्रदेशम् आगतान् राजकुमारान् विलोभ्य तान् अङ्गुष्ठमात्राकारेण कृत्वा स्वर्णपञ्जरे स्थापयति स्म । तान् विविधान् नृत्यप्रकारान् अध्यापयति स्म । यदि नृत्यं न कुर्वन्ति तर्हि स्वर्णसूचिकया विद्ध्वा पीडयति स्म । अथ कदाचित् वनप्रदेशम् आगतायाः वनदेवतायाः दृष्टिः तत्रत्यैः स्वर्णपञ्जरैः आकृष्टा । प्रवृत्तं सर्वं श्रुत्वा वनदेवता पुष्पिकाराज्ञीम् अशपत् 'मधुमक्षिकाराज्ञी भूत्वा मौक्तिकवर्णप्रासादे निवासं करिष्यति । बृहता शरीरेण कदापि प्रासादात् बहिः आगन्तुं न शक्नुयात्' इति । तदा प्रभृति मधुकोषे आमरणं बन्धनवासं सहते मधुमक्षिकाराज्ञी ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain forest region, there was a queen of the flower-maidens. Though extremely beautiful, she was proud of her looks and cruel in behavior. By illusion, she took the form of a celestial nymph and enticed princes who had come to the forest for hunting. She shrank them to the size of a thumb and kept them in golden cages, forcing them to learn various dances. If they refused, she would pierce them with a golden needle and cause pain. One day, a forest goddess came to that region and was drawn by the sight of the golden cages. Learning what had happened, she cursed the flower-queen: “You shall become the queen of bees and live in a pearl-colored palace. With your large body, you will never be able to leave it”. From that time onward, the bee-queen has endured lifelong imprisonment within the honeycomb.

Ep 416चोरः पेटिका च
कदाचित् कश्चन चोरः राजभटेभ्यः आत्मानं रक्षितुं किञ्चित् गृहं प्रविष्टवान् । स्वेन नीतां ग्रन्थिं मञ्चस्य उपरि संस्थाप्य, आत्मानं कम्बलेन आच्छाद्य तत्र शयितेन जनेन सहैव शयितवान् । तौ द्वौ अपि राजभटैः महाराजस्य समीपं नीतौ । द्वौ अपि 'अहं चोरः न' इति अवदताम् । महाराजः महान् प्राज्ञः न्यायप्रियश्च । अस्यां समस्यां परिहारः कथं करोति ? केनोपायेन दोषिणं गृह्णाति ? एतां स्वारस्यकारिणीं कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a thief entered a house to hide from the king’s guards. He placed his bundle on a cot, covered himself with a blanket, and lay down beside the man already sleeping there. Both were taken before the king, and each claimed, “I am not the thief”. The king, wise and just, devised a clever test. He ordered the bundle to be opened and asked each man to identify its contents. The true owner could easily describe them, while the thief hesitated and revealed himself. Thus, by intelligence rather than force, the king discovered the guilty one.

Ep 415चिकित्सा बधिरतायाः
कदाचित् जन्मना बधिरः कश्चन आचार्यः स्वस्य बधिरतायाः औषधार्थं शान्तिशिवनामकं स्वभावमूढं शिष्यम् आहूय 'वैद्यसमीपं गत्वा मम बधिरत्वस्य औषधम् आनयतु' इति अवदत् । शान्तिशिवः यदा वैद्यस्य गृहं प्राप्तवान् तदा विलम्बेन आगतं पुत्रं दृष्ट्वा क्रुद्धः वैद्यः हस्तपादं रज्ज्वा बद्ध्वा स्तम्भे बन्धनं कृत्वा दण्डेन ताडनम् आरब्धवान् । सर्वं दृष्ट्वा शान्तिशिवः आचार्यम् अपि रज्ज्वा बद्ध्वा ताडनम् आरब्धवान् । द्रष्टुम् आगतैः जनैः कारणे पृष्टे वैद्यस्य गृहे एषा एव चिकित्सा दृष्टा मया इत्युक्तं शान्तिशिवेन । अनन्तरं ज्ञातं यत् वैद्यः अन्यकारणतः पुत्रम् अताडयत् न तु बधिरतायाः कारणतः इति।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a teacher who was deaf from birth called his simple-minded disciple, Shantishiva, and said: “Go to the physician and bring medicine for my deafness”. When Shantishiva reached the physician’s house, the physician, angry at his son for arriving late, tied his hands and feet with a rope, bound him to a post, and began beating him with a stick. Seeing all this, Shantishiva thought this was the treatment for deafness. He returned to his teacher, tied him up with a rope, and began beating him as well. When people gathered and asked the reason, Shantishiva explained: “This is the treatment I saw at the physician’s house”. Later, it was understood that the physician had punished his son for another reason, not as a cure for deafness.

Ep 414ज्ञानेन नम्रभावः
कदाचित् इन्द्रः अन्येषाम् अपेक्षया मया सहस्राधिकानि पुस्तकानि पठितानि इति गर्वितः जातः । तद्दिनादारभ्य सः कमपि न परिगणयति स्म । इन्द्रस्य गर्वं दूरीकर्तुं भगवान् नारायणः नारदं स्वर्गलोकं प्रति प्रेषितवान् । नारदमहर्षेः स्वागतं कृतम् इन्द्रेण । तयोः सम्भाषणावसरे तालग्रन्थानां राशिः उद्भूतः तत्र । 'किमिदम्?’ इति इन्द्रेण पृष्टे नारदः अवदत् 'एतानि भवता पठितानि पुस्तकानि' इति । ततः क्षणाभ्यन्तरे मेरुपर्वतः इव तेषां पुस्तकानां राशेः औन्नत्यं वर्धितम् । तदा नारदः अवदत् 'एतानि सर्वाणि भवता अपठितानि पुस्तकानि । ज्ञानम् अनन्तम् अपारञ्च । भवता पठितानि पुस्तकानि नगण्यानि' इति । तत् श्रुत्वा इन्द्रस्य गर्वः अपगतः । इन्द्रः नारदस्य पादयोः च पतित्वा क्षमाम् अयाचत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Indra grew proud, boasting that he had read thousands of books. To remove his pride, Lord Narayana sent Narada to heaven. During their talk, a pile of manuscripts appeared—Narada said these were the books Indra had read. Soon, the pile grew like Mount Meru, and Narada explained it represented the countless books Indra had not read, for knowledge is infinite. Realizing his pride was meaningless, Indra bowed to Narada and sought forgiveness.

Ep 413नृपस्य न्यायः
कश्चन दयावान् न्यायप्रियः राजा तस्य पत्नी च स्वप्रजाजनान् पुत्रान् इव प्रीत्या पालयतः । नृपस्य प्रासादसमीपस्थस्य आम्रवृक्षस्य फलानि अत्यन्तं मधुराणि रसपूर्णानि च भवन्ति स्म । एकदा राज्ञ्याः दासी नृपं स्वमात्रे एकं फलम् अयाचत । तस्य फलस्य खादनेन अतीव सन्तुष्टा सा वृद्धा 'सः वृक्षः मम उद्याने भवतु' इति विचिन्त्य द्वौ मल्लौ तथैव आज्ञापितवती । रात्रौ वृक्षकर्तनसमये सैनिकाः तयोः बन्धनं कृतवन्तः । सैनिकैः दास्याः माता अपि आनायिता । यथा तस्याः कल्याणं भवति तथा दण्डनं दत्तम् । तत् श्रुत्वा सा वृद्धा क्षमां याचयित्वा प्रसन्नमनसा गृहं प्रति प्रस्थितवती । किं तत् दण्डनम् इति कथया जानीत।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A kind and just king, with his queen, cared for their people like children. Near the palace grew a mango tree with very sweet fruits. The queen’s maid once asked for a fruit for her mother, who enjoyed it so much that she wished the tree were in her own garden. She ordered two men to cut it down at night, but the guards caught them and brought her before the king. The king, desiring her welfare, gave her a punishment that taught her a lesson. The old woman begged forgiveness and returned home with a lighter heart.

Ep 412विचित्रवाञ्छा
कस्मिंश्चित् उत्सवे साम्प्रदायिकरीत्या भोजनालये भूमौ पङ्क्तिरूपेण कदलीदलानि स्थापितानि आसन् । भोजनम् आरब्धम् । भोज्यपदार्थानां भागत्वेन बीजोपेतपक्वाम्रफलनिर्मितः कश्चन पदार्थविशेषः आसीत् । कश्चित् भक्ष्यलोलुपः आम्रफलं हस्तेन सम्पीड्य तस्य रसं यदा आस्वादयन् आसीत् तदा आम्रफलस्य बीजं तस्य हस्तात् स्खलितं सत् पार्श्वे उपविष्टस्य दले न्यपतत् । यदा भक्ष्यलोलुपस्य मुखं म्लानं जातं तदा पार्श्वस्थः अवदत् यत् आम्रबीजस्य स्पर्शनेन मम खाद्यम् अतीव न दूषितम् इति । तदा भक्ष्यलोलुपः तस्य विचित्रवाञ्छाम् अवदत् 'आम्रबीजं न्यूनातिन्यूनं दशदलानि स्पृष्ट्वा अग्रे गच्छेत् इति आशयः असीत् मम' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)At a traditional feast, banana leaves were laid out on the ground for dining. Among the dishes was a ripe mango preparation with its seed intact. A greedy diner squeezed the mango to taste its juice, but the seed slipped from his hand and fell onto the leaf of the person sitting beside him. The greedy man’s face turned pale, but the neighbor calmly said, “My food is not spoiled merely by the touch of a mango seed.” Hearing this, the greedy diner explained his odd wish: “I had hoped that the mango seed would roll forward, touching at least ten leaves before stopping”.

Ep 411श्रीरामस्य महिमा
श्रीरामः वनवासगमनात् पूर्वम् अयोध्यावासिभ्यः भूरिदानं कर्तुम् ऐच्छत् । दानविषये श्रुतवती त्रिजटनामकस्य निर्धनब्राह्मणस्य पत्नी श्रीरामं दानं याचतु इति पतये सानुरोधम् उक्तवती । झटिति त्रिजटः गत्वा यदा दानम् अयाचत तदा श्रीरामः विहस्य तस्मै एकं दण्डं दत्त्वा 'दण्डं बलात् क्षिपतु । यत्र पतिष्यति तावतपर्यन्तायां भूम्यां स्थिताः गावः भवदीयाः भविष्यन्ति' इति । कृशशरीरः दुर्बलः च त्रिजटः अचिन्तयत् यत् दण्डः किञ्चिद्दूरे एव पतिष्यति इति । किन्तु यदा अक्षिपत् तदा सरयूनद्याः द्वितीयतटे न्यपतत् यत्र बह्व्यः गावः चरन्ति स्म । त्रिजटः अचिन्तयत् यत् एतावद्दूरं दण्डक्षेपणाय श्रीरामस्य महिमा एव कारणम् इति चिन्तयन् सानन्दं श्रीरामं नमस्कृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Before leaving for exile, Shri Rama wished to give generous gifts to the people of Ayodhya. Hearing of this, the wife of a poor Brahmin named Trijata urged her husband to ask Rama for a donation. When Trijata approached, Rama smilingly gave him a stick and said, “Throw it with all your strength. Wherever it lands, the cows grazing on that land shall be yours”. Weak and frail, Trijata thought the stick would fall nearby. But when he threw it, it landed across the Sarayu River, where many cows were grazing. Amazed, Trijata realized that such a miracle was due to Rama’s divine power. Filled with joy, he bowed gratefully to Shri Rama.

Ep 410चन्द्रक्षयः
भगवान् चन्द्रः अतीव मनोहरः इति कारणेन दक्षप्रजापतिः स्वस्य सप्तविंशतिं पुत्रीः चन्द्रेण सह परिणायितवान् । पत्नीषु अन्यतमायां रोहिण्यां चन्द्रस्य गाढा प्रीतिः अस्ति इति कारणतः अन्याः स्वपितुः समीपं गत्वा चन्द्रः अस्मान् उपेक्षते इति अवदन् । पुत्रीणां विषये चन्द्रेण क्रियमाणम् अन्यायपूर्वकं व्यवहारं दृष्ट्वा 'भवान् क्षयरोगग्रस्तः सन् क्षीयताम्' इति शप्तवान् कुपितः दक्षः । क्षयरोगेण पीड्यमानं पतिं दृष्ट्वा सर्वाः पत्न्यः पितरं प्रार्थयन् यत् चन्द्रं यथापूर्वं स्वस्थं करोतु इति । 'चन्द्रः भवतीनाम् आशयानुसारं मासे एकस्मिन् पक्षे शोभेत अन्यस्मिन् पक्षे क्षीयेत' इति । तदारभ्यः चन्द्रः एकस्मिन् पक्षे शोभते अन्यस्मिन् पक्षे क्षीयते । शुक्लपक्षः कृष्णपक्षः इति तौ द्वौ पक्षौ प्रसिद्धौ ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Daksha Prajapati married his 27 daughters to Chandra (the Moon). Chandra loved Rohini most, which angered the other wives. Complaining to Daksha, they said Chandra neglected them. Enraged, Daksha cursed Chandra to gradually diminish. The wives pleaded for mercy, so Daksha modified the curse: “Chandra shall shine brightly during one half of the month and wane during the other half”. Thus arose the two lunar phases—Shukla Paksha (bright fortnight) and Krishna Paksha (dark fortnight).

Ep 409साक्षी गोपालः
तीर्थयात्रासमये कश्चन धनिकः वृद्धः कस्यचन निर्धनस्य युवकस्य सेवातः सन्तुष्टः भूत्वा स्वकन्यां तुभ्यं ददामि इति वृन्दावने गोपालस्य पुरतः अवदत् । गृहगमनानतरं एतत् प्रस्तावं वृद्धस्य पुत्रः निराकरोत् । अतः यदा तरुणः विवाहविषये अपृच्छत् तदा वृद्धः 'अहं किमपि न स्मरामि' इति अवदत् । वृद्धस्य पुत्रः दोषारोपणं यदा अकरोत् तदा तरुणः अवदत् यत् भवतः पिता गोपालस्य पुरतः एव प्रतिज्ञा कृता इति । 'तर्हि गोपालः एव अत्र आगत्य साक्ष्यं वदेत् चेत् अहं भगिनीं भवते दद्याम्' इति पुत्रः अवदत् । तरुणः वृन्दावनं गत्वा यदा प्रार्थयते तदा गोपालः तम् अनुसृत्य विद्यानगरं प्रति आगत्य साक्ष्यम् अवदत् । एतस्मात् तस्य नाम 'साक्षी गोपालः' इति जातम् । अग्रे राजा पुरुषोत्तमः गोपालविग्रहं नीत्वा जगन्नाथपुरीसमीपे प्रतिष्ठापितवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During a pilgrimage, a wealthy old man was so impressed by a poor young man's service that he promised to give his daughter in marriage, making the vow before the deity Gopala in Vrindavan. But back home, the old man's son rejected the proposal, and the old man claimed he didn’t remember it. When the young man insisted the promise was made before Gopala, the son challenged him: “If Gopala comes and testifies, I’ll agree.” The young man prayed, and miraculously, Gopala followed him to Vidyanagar and gave witness. From then on, the deity was known as Sakshi Gopala — “ Gopala the Witness.” Later, King Purushottama installed the deity near Jagannath Puri.