PLAY PODCASTS
जीवने आनन्दस्य संरक्षणं कथम्?
Episode 497

जीवने आनन्दस्य संरक्षणं कथम्?

बालमोदिनी · सम्भाषणसन्देशः

March 13, 20263m 39s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

कदाचित् केनचित् योगिना सह रेल्यानेन प्रयाणं कुर्वन् कश्चन वणिक्, कश्चन राजनीतिनेता, काचित् गृहिणी च सम्भाषणम् आरब्धवन्तः । ते सर्वे स्वस्य स्वस्य सन्तोषस्य कारणं वदन्तः तेषाम् अपगमे आनन्दस्य का गतिः इति चिन्तां प्रकटितवन्तः । तदा सा योगी अवदत् 'भवताम् आनन्दः धनं स्थानं प्रीतिं च अवलम्ब्य तिष्ठति । वस्तुतः आनन्दः काचित् मानसिकी स्थितिः । सा स्थितिः बाह्यतत्त्वम् न अवलम्बेत । मनसः आनन्दः अन्यः, धनमानादयः अन्ये एव । सन्तोषस्य तेषां च सम्बन्धः न कल्पनीयः' इति ।  एतत् श्रुत्वा त्रयः अपि सहमतिं प्रदर्शयन्तः स्वस्य मानसिकीं स्थितिं परिवर्तयितुं प्रयासं कुर्मः इति अवदन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

While traveling by train with a yogi, a merchant, a politician, and a housewife began a conversation. Each spoke of the reasons for their happiness, but also expressed worry about what would happen to their joy if those reasons disappeared. The yogi explained: “Your happiness depends on wealth, position, and affection. But true joy is a mental state—it does not rely on external things. Inner happiness is one thing; riches and status are another. They should not be confused”. Hearing this, all three agreed and resolved to try to transform their mental outlook.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories
जीवने आनन्दस्य संरक्षणं कथम्? — बालमोदिनी — Play Podcasts