PLAY PODCASTS
विवेकः
Episode 312

विवेकः

बालमोदिनी · सम्भाषणसन्देशः

September 9, 20254m 21s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

कदाचित् विश्वविजयिनः सिकन्दरस्य भूरिधनस्य आवश्यकता आपतिता । तदा सः बन्धिनः उद्दिश्य 'समीपे खनिः अस्ति । यः सहस्रं नाणकानि सम्पाद्य मह्यं समर्पयति, तं दासमुक्तं करोमि' इति उक्तवान् । सर्वे अहर्निशं कार्यम् आरब्धवन्तः । एकः युवकः सहस्रं नाणकानि दत्तवान् इत्यतः भवान् मुक्तः इति यदा सिकन्दरः अवदत् तदा सः युवकः समीपे स्थितं कञ्चित् विकलाङ्गं दर्शयित्वा तस्य मोचनं करोतु इति उक्तवान् । यतः सः युवकः पुनरपि परिश्रमं कृत्वा ततः बन्धमुक्तः भवितुमर्हति किन्तु विकलाङ्गस्य तथा परिस्थितिः नास्ति इति ज्ञात्वा सिकन्दरस्य हृदयम् आर्द्रं जातम् । सः द्वौ अपि बन्धमुक्तम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Alexander the Great needed a large sum of money. He declared, "There is a nearby mine. Whoever collects and presents a thousand coins to me will be freed". All prisoners began working tirelessly. One young man successfully gathered the required amount. When Alexander granted him freedom, the young man pointed to a disabled prisoner and requested his release instead, knowing that he himself could earn his freedom again, but the disabled man could not. Moved by his compassion, Alexander freed them both.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories