PLAY PODCASTS
तृतीयं नेत्रम्
Episode 319

तृतीयं नेत्रम्

बालमोदिनी · सम्भाषणसन्देशः

September 16, 20257m 31s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

सदाचारसम्पन्नः नरहरिः सुवर्णकारः आसीत् । सः शिवेतरदेवानां देवालयं कदापि न गच्छति स्म । कदाचित् धनिकेन कनकदासेन विठ्ठलमन्दिरं निर्माप्य विठ्ठलाय एका सुवर्णमेखला समर्पणीया इति इच्छा प्रकटिता । तदर्थं सुवर्णकारं नरहरिं यदा अपृच्छत् तदा नरहरिः नेत्रयोः उपरि वस्त्रपट्टिकाबन्धनं कृत्वा विठ्ठलस्य कटेः मापनं कर्तुम् अङ्गीकृतवान् । मापनसमये त्रिवारम् अपि शिवस्य मूर्तिः इव प्रतिभासते तस्मै ।  तृतीयवारं नेत्रपट्टिकाम् अपसार्य विठ्ठलस्य मूर्तिम् अपश्यत् । मूर्तिः अवदत् 'अहं स्वयं शिवः । एकोऽहं विविधैः रूपैः दृश्ये' इति । तदा प्रभृतिः नरहरिः विठ्ठलस्य परमभक्तः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Narahari, a virtuous goldsmith, never visited temples of deities other than Shiva. Once, a wealthy man named Kanakadasa wished to offer a golden waistband to Lord Vitthala and sought Narahari’s help. Narahari, unwilling to see Vitthala’s idol, blindfolded himself while measuring the deity’s waist. Amazingly, three times also he perceived the idol as Shiva. On the third attempt, he removed the blindfold and saw Vitthala’s idol, which said, "I am Shiva himself, appearing in different forms". From that moment, Narahari became a devoted follower of Vitthala.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories