
The 5-Minute Gita
259 episodes — Page 2 of 6
Chapter 5, Verse 12
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 11
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verses 8-9
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५- ८॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 7
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 6
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 5
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स: पश्यति ॥५- ५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 4
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 3
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 5, Verse 2
श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥ Recitation, breakdown, reordering and translation.
Chapter 5, Verse 1
अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 42
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 41
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 40
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४-४०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 39
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 38
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४-३८॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 37
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४-३७॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 36
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 35
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४-३५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 34
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४-३४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 33
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 32
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 31
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४-३१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 30
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४-३०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 29
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 28
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 27
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 26
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 25
दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 24
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४-२४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 23
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 22
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४-२२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 21
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 20
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 19
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 18
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४-१८॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 17
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 16
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 15
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 14
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 13
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४-१३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 12
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 11
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 10
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४-१०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 9
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४-९॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 8
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 7
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 6
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥४-६॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 5
श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 4
अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥ Recitation, breakdown, reordering, translation, and commentary.