
The 5-Minute Gita
259 episodes — Page 5 of 6
Chapter 2, Verse 15
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२- १५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 14
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२- १४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 13
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२- १३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 12
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥२- १२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 11
श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२- ११॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 10
तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२- १०॥ Recitation, breakdown, reordering, and translation.
Chapter 2, Verse 9
संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२- ९॥ Recitation, breakdown, reordering, and translation.
Chapter 2, Verse 8
न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥२- ८॥ Recitation, breakdown, reordering, and translation.
Chapter 2, Verse 7
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२- ७॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 6
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२- ६॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 5
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२- ५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 4
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२- ४॥ Recitation, breakdown, reordering, and translation.
Chapter 2, Verse 3
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२- ३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 2
श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२- २॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 1
संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२- १॥ Recitation, breakdown, reordering, and translation.
Introduction
Motivation for the podcast. Definitions of 'संधि विच्छेद' and 'अन्वय.'
Chapter 1, Verse 47
संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 46
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 45
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 44
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 43
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 42
संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 41
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 40
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verses 38-39
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 37
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 35
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 34
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥ Recitation, breakdown, reordering, translation and commentary.
Chapter 1, Verse 31
निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥ Recitation, breakdown, reordering, translation and commentary.
Chapter 1, Verse 30
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥ Recitation, breakdown, reordering, translation and commentary. This episode refers to the following scene: https://youtu.be/CWhPLnu4Wg4?t=71
Chapter 1, Verses 28-29
अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥ Recitation, breakdown, reordering, translation and commentary.
Chapter 1, Verse 27
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । Recitation, breakdown, reordering, translation and commentary.
Chapter 1, Verse 26
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 25
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 24
संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 23
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 22
यावदेतान्निरिक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verses 20-21
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verses 17-18
काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 16
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 15
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 14
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 13
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 12
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥ Recitation, breakdown, reordering, and translation.
Chapter 1, Verse 11
अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 1, Verse 10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥ Recitation, breakdown, reordering, translation, and commentary.