
The 5-Minute Gita
259 episodes — Page 3 of 6
Chapter 4, Verse 3
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 2
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 4, Verse 1
श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 43
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३- ४३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 42
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३- ४२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 41
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३- ४१॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 40
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥३- ४०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 39
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३- ३९॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 38
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३- ३८॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 37
श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३- ३७॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 36
अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३- ३६॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 35
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३- ३५॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 34
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३- ३४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 32
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३- ३२॥ Recitation, breakdown, reordering, and translation.
Chapter 3, Verse 31
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३- ३१॥ Recitation, breakdown, reordering, translation and commentary.
Chapter 3, Verse 30
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३- ३०॥ Recitation, breakdown, reordering, translation and commentary.
Chapter 3, Verse 29
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥३- २९॥ Recitation, breakdown, reordering, translation and commentary.
Chapter 3, Verse 28
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३- २८॥ Recitation, breakdown, reordering, translation and commentary. <a href='https://www.youtube.com/watch?v=uj8dmSgQa1c'>Stephen R. Covey on the distinction between the Circle of Influence and the Circle of Concern</a>
Chapter 3, Verse 27
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥३- २७॥ Recitation, breakdown, reordering, translation and commentary.
Chapter 3, Verse 26
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३- २६॥ Recitation, breakdown, reordering, and translation.
Chapter 3, Verse 25
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥३- २५॥ Recitation, breakdown, reordering, and translation.
Chapter 3, Verse 24
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥३- २४॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 23
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३- २३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 22
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३- २२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 21
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३- २१॥ Recitation, breakdown, reordering, and translation.
Chapter 3, Verse 20
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥ Recitation, breakdown, reordering, and translation.
Chapter 3, Verse 19
तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥ Recitation, breakdown, reordering, and translation.
Chapter 3, Verse 18
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 17
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 16
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 15
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 14
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 13
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 12
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 11
देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 10
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 9
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 8
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 7
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 6
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 5
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥ Recitation, breakdown, reordering, translation, and commentary
Chapter 3, Verse 4
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥ Recitation, breakdown, reordering, and translation.
Chapter 3, Verse 3
श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 2
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 3, Verse 1
अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 72
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 71
विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥ Recitation, breakdown, reordering, and translation.
Chapter 2, Verse 70
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२- ७०॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 69
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥ Recitation, breakdown, reordering, translation, and commentary.
Chapter 2, Verse 68
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६८॥ Recitation, breakdown, reordering, translation, and commentary.