PLAY PODCASTS
श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)

श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)

रामकुटी (Ramkuti)

April 17, 20233m 15s

Audio is streamed directly from the publisher (play.hubhopper.com) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

॥ हनुमत् पञ्चरत्नम् ॥


वीताखिल-विषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम् । सीतापति-दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

तरुणारुण-मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥

शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब- ज्वलितोष्ठमेकमवलम्बे ॥३॥

दूरीकृत-सीतार्तिः प्रकटीकृत- रामवैभव-स्फूर्तिः । दारित-दशमुख-क - कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।

दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५॥

एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।

चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६॥

इति श्रीमच्छंकर-भगवतः कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥


यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम् । बाष्पवारिपरिपूर्ण-लोचनं मारुतिं नमत राक्षसान्तकम् ॥

असाध्यसाधक स्वामिन् असाध्यं तव किं वद । रामदूतकृपसिन्धो मत्कार्यं साधय प्रभो ॥

बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगता। अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥