PLAY PODCASTS
श्रीरामद्वादशनामानि स्तोत्र स्वर सौ. शिल्पा की. मराठे

श्रीरामद्वादशनामानि स्तोत्र स्वर सौ. शिल्पा की. मराठे

रामकुटी (Ramkuti)

October 10, 20233m 16s

Audio is streamed directly from the publisher (play.hubhopper.com) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes


|| श्रीरामद्वादशनामस्तोत्रम् ||

प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम् ।

तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् ।

सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥

नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम् ।

एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥

द्वादशैतानि नामानि यः पठेच्छ्रद्धयान्वितः ।

अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥ ४॥

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् ।

ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम् ॥ ५॥

सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम् ।

ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।

अश्वमेधशतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥

इति श्री स्कन्दपुराणे उत्तरखण्डे श्रीउमामहेश्वरसंवादे

श्रीरामद्वादशनामस्तोत्रम् सम्पूर्णम् ।