
Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.
Show Notes
चीनादेशस्य कैसाकनामकस्य श्रेष्ठचर्मकारस्य एकमात्रपुत्रः चुवाङ्गः कुलवृत्तिम् उपेक्ष्य स्वच्छन्दं मित्रैः सह अटति स्म । तेनैव मनोरोगेण पीडितः सन् अल्पेषु एव दिनेषु कैसाकः दिवं गतः । स्वेच्छाचारी चुवाङ्गः कैसाकस्य अर्जितं सर्वं धनं व्ययीकृतवान् । कदाचित् राजा तम् आनाय्य 'राज्ञीवासजनेभ्यः सुन्दरीः पादरक्षाः सीवयित्वा ददातु' इति अवदत् । पितृवाक्यस्य उपेक्षा या कृता तदर्थं पश्चात्तापम् अनुभवन् अञ्जलिं बद्ध्वा पितरं रक्षणार्थं प्रार्थितवान् । प्रातः उत्थाय चुवाङ्गः अपश्यत् यत् पादरक्षाः निर्मिताः आसन् । राजा बहुधा प्रशंसन् तस्मै भूरि धनम् अयच्छत् । एकस्मिन् दिने मध्यरात्रे पादसीवनस्थले काचित् अप्सरस्स्त्री दृष्टा चुवाङ्गेन । यतः सा आलस्येन कुलवृत्तिम् उपेक्षितवती अतः देवेन्द्रः ये स्ववृत्तेः उपेक्षां कुर्वन्ति तेषां सेवा करणीया इति तां भूलोकं प्रेषितवान् आसीत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In China lived Kaisak, a master shoemaker, whose son Chuwang ignored the family trade and wasted his father’s wealth. When the king ordered him to make fine shoes, Chuwang regretted neglecting his duty and prayed for help. Miraculously, the shoes appeared, earning him praise and riches. Later, he saw a celestial maiden sent by Indra to serve him, as she too had neglected her own duty.