PLAY PODCASTS
अयि, मयेदं किं कृतम् !
Episode 299

अयि, मयेदं किं कृतम् !

बालमोदिनी · सम्भाषणसन्देशः

August 27, 20252m 44s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

मृगयाव्यसनः कश्चन युवा भुषुण्डिम् आदाय अश्वम् आरुह्य मृगयार्थं वनम् अगच्छत् । तत्र च हंसयूथं रममाणं दृष्ट्वा तेन स्वभुषुण्डितः गोलिका मुक्ता । गोलिकया एकः हंसः विद्धः सन् चीत्कारं कृतवान् । सः युवा अश्वात् अवतीर्य तत्पार्श्वे गतः । तीव्रव्यथया चीत्कुर्वन्तं हंसं च दृष्टवान् । किञ्चित्कालनन्तरं सः हंसः प्राणैः विमुक्तः‌ जातः । मृतं स्वप्रियतमं विज्ञाय तत्प्रियतमा हंसी करुणं विलपति स्म । सर्वं दृश्यं दृष्टवतः तस्य यूनः हृदयम् आर्द्रं जातम् - 'मया न सुष्ठु कृतम् । अद्यारभ्य अहं कदापि मृगयां निरर्थिकां हिंसां वा न आचरिष्यामि' इति अवदत् । सः एव अग्रे अमेरिकायाम् अब्राहमलिङ्कननामकः प्रसिद्धः प्रमुखः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A young man, passionate about hunting, rode into the forest with his firearm. There, he saw two swans enjoying and fired a shot, wounding one. Hearing its cries of pain, he dismounted and approached the injured bird. Shortly after, the swan succumbed to its wounds. Seeing its mate mourn deeply, the young man's heart softened. Overcome with regret, he vowed never to engage in hunting or senseless violence again. That young man would later become Abraham Lincoln, the renowned leader of America.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories