
Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.
Show Notes
काचित् माता पनसफलं कर्तयित्वा फलदलानि पञ्च द्रोणेषु स्थापयति । तस्याः पुत्रः अचिन्तयत् यत् माता मह्यम् एकं द्रोणं ददाति इति । किन्तु एकं द्रोणं भगवते समर्प्य आगच्छ इति वदति माता । अवशिष्टेषु द्रोणत्रयं ज्येष्ठपितृव्यायै कनिष्ठपितृव्यायै प्रतिवेशिन्यै वृद्धायै च दत्त्वा आगच्छ इति वदति । म्लानमुखः बालकः यदा प्रत्यागच्छति तदा अन्तिमद्रोणतः एकं फलदलं पुत्राय ददाति । यदा पुत्रः वदति 'अल्पमेव मह्यं दत्तम्' इति तदा माता बोधयति 'पनसवृक्षः भगवतः अनुग्रहेण प्रवृद्धः । सर्वेभ्यः वितीर्य यत् शिष्येत तदेव सेवनीयम् अस्माभिः । संविभागस्य अनन्तरं सेवनम् इत्येतत् तत्त्वम् अस्माकं जीवनसूत्रं स्यात्' इति । एतस्य श्रवणात् तेन बालेन नूतना जीवनदृष्टिः प्राप्ता । सः एव 'आचार्यः विनोबाभावे' ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A mother once cut a jackfruit and placed its pieces into five baskets. Her son expected one for himself, but she asked him to offer one to God and distribute three to relatives and a neighbor. When he returned disappointed, she gave him a single piece and explained, “What remains after sharing is what we must consume. Sharing first, then enjoying—that is life’s principle.” This lesson deeply impacted the boy, who later became Acharya Vinoba Bhave.