PLAY PODCASTS
सूक्ष्मांशज्ञानम्
Episode 396

सूक्ष्मांशज्ञानम्

बालमोदिनी · सम्भाषणसन्देशः

December 2, 20252m 59s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

राज्यस्य उत्तराधिकारिणं प्राप्तुं योग्यतापरीक्षार्थं कश्चन राजा तस्य पुत्रं कस्यचन महात्मनः समीपं प्रेषयति । समग्रं दिनम् अरण्ये उषित्वा राजकुमारः अनुभवम् अकथयत् - 'गजानां घीङ्कार श्रुतः, महावृक्षस्य पतनं दृष्टं, मेघघर्जनं श्रुतं, तडितः दृष्टाः च' इति । अग्रिमवर्षे आगच्छ इति महात्मा वदति । अनन्तरवर्षे राजकुमारः वदति 'मूषकं गिलन् सर्पः दृष्टः, मूषकस्य चीत्कारः दृष्टः, चिक्रोडस्य चिंव्कारः श्रुतः' इति । पुनः महात्मा प्रेषयति । तृतीये वर्षे राजकुमारः वदति 'निर्झरीणां कलकरवः, मधुमक्षिकाणां झेङ्कारः च श्रुतः, पुष्पाणाः सुगन्धः आघ्रातः, वनस्य मौनं लक्षितम्' इति । एतदवसरे सूक्ष्मत्वम् अभिज्ञातम् इति कारणतः महात्मा वदति 'त्वं राज्यत्वं प्राप्तुम् अर्हसि' इति । प्रजानां कष्टानि, शासनस्य सूक्ष्मांशः च येन ज्ञायेरन् सः एव उत्तमः राजा भवितुम् अर्हति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

This story illustrates a profound lesson in leadership and sensitivity. A king, wishing to test his son's worthiness for succession, sends him to a wise sage. The prince spends a day in the forest and reports loud and obvious experiences—elephant trumpeting, tree falling, thunder, and lightning. The sage asks him to return the next year. The following year, the prince describes subtler events—seeing a snake swallow a mouse, hearing its squeal, and the chirping of a squirrel. Still, the sage sends him back. In the third year, the prince shared deeply refined observations—he heard the gentle murmur of a stream, the buzzing of bees, smelled the fragrance of flowers, and sensed the silence of the forest. Recognizing the prince’s developed sensitivity, the sage declares him worthy of kingship. The story concludes with the insight that a true ruler must perceive not only the obvious but also the subtle pains of the people and the nuances of governance. Only such awareness makes one fit to lead.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories