
Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.
Show Notes
कश्चित् तरुणः आत्मानं शिष्यत्वेन स्वीकर्तुम् आचार्यं निवेदयति । तस्य योग्यतासामर्थ्यादिकं बहुधा परीक्ष्य सः उत्तीर्णः इति वदन् अपि एकसप्ताहानन्तरं निर्णयं श्रावयिष्यामि इति आचार्यः अवदत् । अनन्तरदिने एव आचार्यः कञ्चित् धनिकम् आहूय तरुणम् उन्नतस्थाने अधिकं वेतनम् दत्त्वा नियोजय इति अवदत् । तद्वदेव सः धनिकः अकरोत् । सप्ताहानन्तरं तं तरुणम् आहूय 'तव शिष्यत्वम् अङ्गीकृतं मया' इति यदा आचार्यः अवदत् तदा तरुणः शिरः अवनमय्य 'इदानीं प्रभूतवेतनयुक्तः उद्योगः प्राप्तः मया । कथं त्यजामि?’ इति अवदत् । तदा अचार्यः 'अवसरे प्राप्ते अपि यः तं परित्यज्य आगच्छेत् सः एव योग्यः शिष्यः भवितुम् अर्हति' इति अवद्त् । वस्तुत्वं ज्ञातवान् सः तरुणः उद्योगं त्यक्त्वा आश्रमं प्रति आगतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man sought discipleship under a wise teacher. Though qualified, the teacher delayed acceptance for a week and arranged a high-paying job for him through a wealthy person. When the teacher later accepted him as a disciple, the young man hesitated due to his new job. The teacher replied, “Only the one who is willing to abandon such an opportunity and still come is truly worthy of being a disciple” Realizing this truth, the young man renounced the job and joined the ashram.