
Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.
Show Notes
कदाचित् प्रसीदः प्रजापतिः सहभोजम् आयोजितवान् यत्र देवाः दानवाः चा निमन्त्रिताः । परस्परं कलहादिकं कुर्युः इति भीत्या तेषां पृथक्-पृथक् भोजनव्यवस्था कृता । प्रासादस्य प्रवेशद्वारे आगन्तुकानां द्वावपि हस्तौ एकैकेन काष्ठपट्टकेन हस्तं वस्त्ररज्जुभिः च बद्धवा तेषां तेषां भोजनस्थलस्य मार्गं दर्शितवन्तः । प्रथमं दानवभोजनकक्षं गतवान् प्रजापतिः । स्वमुखे ग्रासम् अर्पयितुम् असमर्थाः दानवाः तारस्वरेण प्रजापतेः इमां धूर्ततां निन्दन्तः आसन् । ततः देवानां भोजनागारं यदा प्रविष्टवान् तदा एकैकस्य पात्रस्य पुरतः द्वौ द्वौ देवौ परस्परं सांमुख्येन उपविष्टौ भोज्यानि अन्योन्यस्य मुखे समर्प्य तानि आस्वादयन्तौ आस्ताम् । अस्यां विवशायामपि स्थितौ देवैः कश्चन उपायः आसादितः इति दानवेभ्यः दर्शितं प्रजापतिना
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Prajapati arranged a grand feast, inviting both gods and demons. Fearing quarrels, he seated them separately. At the palace entrance, each guest’s hands were tied to wooden planks with cloth ropes, so they could not bend their arms to feed themselves. When Prajapati visited the demons’ hall first, they were frustrated, unable to bring food to their mouths, and angrily accused him of trickery. Later, in the gods’ hall, he saw pairs of gods seated opposite each other. Instead of trying to feed themselves, they offered food into one another’s mouths and happily enjoyed the meal. Thus, Prajapati showed the demons that even in helpless situations, the gods had found a wise solution—cooperation.