PLAY PODCASTS
न नीयते सूची अपि
Episode 264

न नीयते सूची अपि

बालमोदिनी · सम्भाषणसन्देशः

July 23, 20253m 14s

Audio is streamed directly from the publisher (media.transistor.fm) as published in their RSS feed. Play Podcasts does not host this file. Rights-holders can request removal through the copyright & takedown page.

Show Notes

लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । कदाचित् दर्शनार्थं आगतवन्तं दुलीचन्दं दृष्ट्वा गुरुनानकः अवगतवान् यत् एतस्य धनमदः अधिकः अस्ति इति । अतः सः एकां सूचीं दुलीचन्दाय दत्त्वा अग्रिमजन्मनि प्रत्यर्पणीया इति अवदत् । किञ्चित्कालानन्तरं दुलीचन्दः अवदत् यत् कथं सूचीम् अग्रिमजन्मनि प्रत्यर्पयितुं शक्यते इति । तदा गुरुनानकः अवदत् 'मरणसमये येन एका सूची अपि नेतुम् अशक्या, भवान् स्वस्य समग्रां सम्पत्तिं किं नेतुं शक्नुयात्?’ इति ।  एतेन ज्ञानोदयं प्राप्य दुलीचन्दः स्वस्य सम्पत्तेः दानम् आरब्धवान् ।  गुरुनानकस्य परमभक्तः जातः च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In Lahore, the wealthy Duli Chand visited Guru Nanak, who immediately sensed his arrogance. To teach him a lesson, the Guru gave him a needle, saying it must be returned in his next life. Confused, Duli Chand asked how that was possible. Guru Nanak responded, "If you can't take even a needle with you after death, how can you carry your wealth?". Realizing the truth, Duli Chand began donating his riches and became a devoted disciple.

Topics

booksstoriesindian talesHindi culturesanskar storieskidssanskrit stories