PLAY PODCASTS
Dasakam 016 - All Slokas
Season 16 · Episode 11

Dasakam 016 - All Slokas

Nārāyaṇīyaṃ - Learn to Chant · Kumar Vembu

December 1, 20242m 27s

Show Notes

मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिता: कृततूर्यघोषा: पुष्पोत्करान् प्रववृषुर्नुनुवु: सुरौघा: ॥२॥

दैत्यं सहस्रकवचं कवचै: परीतं साहस्रवत्सरतपस्समराभिलव्यै: । पर्यायनिर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥३॥

अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सी: । शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥४॥

कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासै: । विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीरुस्त्वयाऽथ जगदे मृदुहासभाजा ॥५॥

भीत्याऽलमङ्गज वसन्त सुराङ्गना वो मन्मानसं त्विह जुषध्वमिति ब्रुवाण: । त्वं विस्मयेन परित: स्तुवतामथैषां प्रादर्शय: स्वपरिचारककातराक्षी: ॥६॥

सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमलै: किल मोहमापु: । दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥७॥

दृष्ट्वोर्वशीं तव कथां च निशम्य शक्र: पर्याकुलोऽजनि भवन्महिमावमर्शात् । एवं प्रशान्तरमणीयतरावतारा- त्त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥८॥

दक्षस्तु धातुरतिलालनया रजोऽन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । येन व्यरुन्ध स भवत्तनुमेव शर्वं यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥९॥

क्रुद्धेशमर्दितमख: स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीव: । त्वत्पूरितक्रतुवर: पुनराप शान्तिं स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥१०॥